एवमुक्तो
हनुमता
रामो
दशरथात्मजः ।
तं
मणिं
हृदये
कृत्वा
प्ररुरोद
सलक्ष्मणः ॥ १ ॥
तं
तु
दृष्ट्वा
मणिश्रेष्ठं
राघवः
शोककर्शितः ।
नेत्राभ्यामश्रुपूर्णाभ्यां
सुग्रीवमिदमब्रवीत् ॥ २ ॥
यथैव
धेनुः
स्रवति
स्नेहाद्वत्सस्य
वत्सला ।
तथा
ममापि
हृदयं
मणिरत्नस्य
दर्शनात् ॥ ३ ॥
मणिरत्नमिदं
दत्तं
वैदेह्याः
श्वशुरेण
मे ।
वधूकाले
यथा
बद्धमधिकं
मूर्ध्नि
शोभते ॥ ४ ॥
अयं
हि
जलसम्भूतो
मणिः
सज्जनपूजितः ।
यज्ञे
परमतुष्टेन
दत्तः
शक्रेण
धीमता ॥ ५ ॥
इमं
दृष्ट्वा
मणिश्रेष्ठं
यथा
तातस्य
दर्शनम् ।
अद्यास्म्यवगतः
सौम्य
वैदेहस्य
तथा
विभोः ॥ ६ ॥
अयं
हि
शोभते
तस्याः
प्रियाया
मूर्ध्नि
मे
मणिः ।
अस्याद्य
दर्शनेनाहं
प्राप्तां
तामिव
चिन्तये ॥ ७ ॥
किमाह
सीता
वैदेही
ब्रूहि
सौम्य
पुनः
पुनः ।
पिपासुमिव
तोयेन
सिञ्चन्ति
वाक्यवारिणा ॥ ८ ॥
इतस्तु
किं
दुःखतरं
यदिमं
वारिसम्भवम् ।
मणिं
पश्यामि
सौमित्रे
वैदेहीमागतं
विना ॥ ९ ॥
चिरं
जीवति
वैदेही
यदि
मासं
धरिष्यति ।
क्षणं
सौम्य
न
जीवेयं
विना
तामसितेक्षणाम् ॥ १० ॥
नय
मामपि
तं
देशं
यत्र
दृष्टा
मम
प्रिया ।
न
तिष्ठेयं
क्षणमपि
प्रवृत्तिमुपलभ्य
च ॥ ११ ॥
कथं
सा
मम
सुश्रोणी
भीरुभीरुः
सती
सदा ।
भयावहानां
घोराणां
मध्ये
तिष्ठति
रक्षसाम् ॥ १२ ॥
शारदस्तिभिरोन्मुक्तो
नूनं
चन्द्र
इवाम्बुदैः ।
आवृतं
वदनं
तस्या
न
विराजति
राक्षसैः ॥ १३ ॥
किमाह
सीता
हनुंस्तत्त्वतः
कथयाद्य
मे ।
एतेन
खलु
जीविष्ये
भेषजेनातुरो
यथा ॥ १४ ॥
मद्विहीना
वरारोहा
हनुमन्
कथयस्व
मे ॥ १५ ॥