एवमुक्तस्तु
हनुमान्
राघवेण
महात्मना ।
सीताया
भाषितं
सर्वं
न्यवेदयत
राघवे ॥ १ ॥
इदमुक्तवती
देवी
जानकी
पुरुषर्षभ ।
पूर्ववृत्तमभिज्ञानं
चित्रकूटे
यथातथम् ॥ २ ॥
सुखसुप्ता
त्वया
सार्धं
जानकी
पूर्वमुत्थिता ।
वायसः
सहसोत्पत्य
विरराद
स्तनान्तरे ॥ ३ ॥
पर्यायेण
च
सुप्तस्त्वं
देव्यङ्के
भरताग्रज ।
पुनश्च
किल
पक्षी
स
देव्या
जनयति
व्यथाम् ॥ ४ ॥
पुनः
पुनरुपागम्य
विरराद
भृशं
किल ।
ततस्त्वं
बोधितस्तस्याः
शोणितेन
समुक्षितः ॥ ५ ॥
वायसेन
च
तेनैव
सततं
बाध्यमानया ।
बोधितः
किल
देव्या
त्वं
सुखसुप्तः
परन्तप ॥ ६ ॥
तां
तु
दृष्ट्वा
महाबाहो
दारितां
च
स्तनान्तरे ।
आशीविष
इव
क्रुद्धो
निःश्वसन्नभ्यभाषथाः ॥ ७ ॥
नखाग्रैः
केन
ते
भीरु
दारितं
तु
स्तनान्तरम् ।
कः
क्रीडति
सरोषेण
पञ्चवक्त्रेण
भोगिना ॥ ८ ॥
निरीक्षमाणः
सहसा
वायसं
समवैक्षथाः ।
नखैः
सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं
स्थितम् ॥ ९ ॥
सुतः
किल
स
शक्रस्य
वायसः
पततां
वरः ।
धरान्तरचरः
शीघ्रं
पवनस्य
गतौ
समः ॥ १० ॥
ततस्तस्मिन्
महाबाहो
कोपसंवर्तितेक्षणः ।
वायसे
त्वं
कृथाः
क्रूरां
मतिं
मतिमतां
वर ॥ ११ ॥
स
दर्भं
संस्तराद्
गृह्य
ब्रह्मास्त्रेण
ह्ययोजयः ।
स
दीप्त
इव
कालाग्निर्जज्वालाभिमुखः
खगम् ॥ १२ ॥
क्षिप्तवांस्त्वं
प्रदीप्तं
हि
दर्भं
तं
वायसं
प्रति ।
ततस्तु
वायसं
दीप्तः
स
दर्भोऽनुजगाम
ह ॥ १३ ॥
स
पित्रा
च
परित्यक्तः
सुरैश्च
समहर्षिभिः ।
त्रिल्लोकान्
संपरिक्रम्य
त्रातारं
नाधिगच्छति ॥ १४ ॥
पुनरेवागतस्त्रस्तस्त्वकाशमरिन्दम ।
स
तं
निपतितं
भूमौ
शरण्यः
शरणागतम् ॥ १५ ॥
वधार्हमपि
काकुत्स्थ
कृपया
पर्यपालयः ।
मोघमस्त्रं
न
शक्यं
तु
कर्तुमित्येव
राघव ॥ १६ ॥
भवांस्तस्याक्षि
काकस्य
हिनस्ति
स्म
स
दक्षिणम् ।
राम
त्वां
स
नमस्कृत्य
राज्ञे
दशरथाय
च ॥ १७ ॥
विसृष्टस्तु
तदा
काकः
प्रतिपेदे
स्वमालयम् ।
एवमस्त्रविदां
श्रेष्ठः
सत्त्ववाञ्छीलवानपि ॥ १८ ॥
किमर्थमस्त्रं
रक्षस्सु
न
योजयति
राघवः ।
न
नागा
नापि
गन्धर्वा
नासुरा
न
मरुद्गणाः ॥ १९ ॥
न
च
सर्वे
रणे
शक्ता
रामं
प्रतिसमासितुम् ।
तस्य
वीर्यवतः
कश्चिद्यद्यस्ति
मयि
सम्भ्रमः ॥ २० ॥
क्षिप्रं
सुनिशितैर्बाणैर्हन्यतां
युधि
रावणः ।
भ्रातुरादेशमाज्ञाय
लक्ष्मणो
वा
परन्तपः ॥ २१ ॥
स
किमर्थं
नरवरो
न
मां
रक्षति
राघवः ।
शक्तौ
तौ
पुरुषव्याघ्रौ
वाय्वग्निसमतेजसौ ॥ २२ ॥
सुराणामपि
दुर्धर्षौ
किमर्थं
मामुपेक्षतः ।
ममैव
दुष्कृतं
किञ्चिन्महदस्ति
न
संशयः ॥ २३ ॥
समर्थो
सहितौ
यन्मां
नावेक्षेते
परन्तपौ ।
वैदेह्या
वचनं
श्रुत्वा
करुणं
साश्रुभाषितम् ॥ २४ ॥
पुनरप्यहमार्यां
तामिदं
वचनमब्रुवम् ।
त्वच्छोकविमुखो
रामो
देवि
सत्येन
ते
शपे ॥ २५ ॥
रामे
दुःखाभिभूते
तु
लक्ष्मणः
परितप्यते ।
कथञ्चिद्भवती
दृष्टा
न
कालः
परिशोचितुम् ॥ २६ ॥
इम
मुहूर्तं
दुःखानामन्तं
द्रक्ष्यसि
भामिनि ।
तावुभौ
नरशार्दूलौ
राजपुत्रावनिन्दितौ ॥ २७ ॥
त्वद्दर्शनकृतोत्साहौ
लङ्कां
भस्मीकरिष्यतः ।
हत्वा
च
समरे
रौद्र
रावण
सहबान्धवम् ॥ २८ ॥
राघवस्त्वां
वरारोहे
स्वां
पुरीं
नयते
ध्रुवम् ।
यत्तु
रामो
विजानीयादभिज्ञानमनिन्दिते ॥ २९ ॥
प्रीतिसञ्जननं
तस्य
प्रदातुं
त्वमिहार्हसि ।
साऽभिवीक्ष्य
दिशः
सर्वा
वेण्युद्ग्रथनमुत्तमम् ॥ ३० ॥
मुक्त्वा
वस्त्राद्ददौ
मह्यं
मणिमेतं
महाबल ।
प्रतिगृह्य
मणिं
दिव्यं
तव
हेतो
रघूद्वह ॥ ३१ ॥
शिरसा
तां
प्रणम्यार्यामहमागमने
त्वरे ।
गमने
च
कृतोत्साहमवेक्ष्य
वरवर्णिनी ॥ ३२ ॥
विवर्धमानं
च
हि
मामुवाच
जनकात्मजा ।
अश्रुपूर्णमुखी
दीना
बाष्पसन्दिग्धभाषिणी ॥ ३३ ॥
ममोत्पतनसम्भ्रान्ता
शोकवेगसमाहता ।
हनुमन्
सिंहसङ्काशावुभौ
तौ
रामलक्ष्मणौ ॥ ३४ ॥
सुग्रीवं
च
सहामात्य
सर्वान्
ब्रूया
ह्यनामयम् ।
यथा
च
स
महाबाहुर्मां
तारयति
राघवः ॥ ३५ ॥
असमाद्दुःखाम्बुसंरोधात्त्वं
समाधातुमर्हसि ।
इमं
च
तीव्रं
मम
शोकवेगं
रक्षोभिरेभिः
परिभर्त्सनं
च ॥ ३६ ॥
ब्रूयास्तु
रामस्य
गतः
समीपं
शिवश्च
तेऽध्वाऽस्तु
हरिप्रवीर ।
एतत्तवार्या
नृपराजसिंह
सीता
वचः
प्राह
विषादपूर्वम् ॥ ३७ ॥
एतच्च
बुद्ध्वा
गदितं
मया
त्वं
श्रद्धत्स्व
सीतां
कुशलां
समग्राम् ॥ ३८ ॥