अथाहमुत्तरं
देव्या
पुनरुक्तः
ससम्भ्रमः ।
तव
स्नेहान्नरव्याघ्र
सौहार्दादनुमान्य
वै ॥ १ ॥
एवं
बहुविधं
वाच्यो
रामो
दाशरथिस्त्वया ।
यथा
मामाप्नुयाच्छीघ्रं
हत्वा
रावणमाहवे ॥ २ ॥
यदि
वा
मन्यसे
वीर
वसैकाहमरिन्दम ।
कस्मिंश्चित्संवृते
देशे
विश्रान्तः
श्वो
गमिष्यसि ॥ ३ ॥
मम
चाप्यल्पभाग्यायाः
सान्निध्यात्तव
वीर्यवन् ।
अस्य
शोकविपाकस्य
मुहूर्तं
स्याद्विमोक्षणम् ॥ ४ ॥
गते
हि
त्वयि
विक्रान्ते
पुनरागमनाय
वै ।
प्राणानामपि
सन्देहो
मम
स्यान्नात्र
संशयः ॥ ५ ॥
तवादर्शनजः
शोको
भूयो
मां
परितापयेत् ।
दुःखाद्दुःखपराभूतां
दुर्गतां
दुःखभागिनीम् ॥ ६ ॥
अयं
च
वीर
सन्देहस्तिष्ठतीव
ममाग्रतः ।
सुमहांस्त्वत्सहायेषु
हर्यृक्षेषु
हरीश्वर ॥ ७ ॥
कथं
नु
खलु
दुष्पारं
तरिष्यन्ति
महोदधिम् ।
तानि
हर्यृक्षसैन्यानि
तौ
वा
नरवरात्मजौ ॥ ८ ॥
त्रयाणामेव
भूतानां
सागरस्यास्य
लङ्घने ।
शक्तिः
स्याद्वैनतेयस्य
तव
वा
मारुतस्य
वा ॥ ९ ॥
तदस्मिन्
कार्यनिर्योगे
वीरैवं
दुरतिक्रमे ।
किं
पश्यसि
समाधानं
ब्रूहि
कार्यविदां
वर ॥ १० ॥
काममस्य
त्वमेवैकः
कार्यस्य
परिसाधने ।
पर्याप्तः
परवीरघ्न
यशस्यस्ते
बलोदयः ॥ ११ ॥
बलैः
समग्रैर्यदि
मां
हत्वा
रावणमाहवे ।
विजयी
स्वां
पुरीं
रामो
नयेत्तत्
स्याद्यशस्करम् ॥ १२ ॥
यथाऽहं
तस्य
वीरस्य
वनादुपधिना
हृता ।
रक्षसा
तद्भया
देव
तथा
नार्हति
राघवः ॥ १३ ॥
बलैस्तु
सङ्कुलां
कृत्वा
लङ्कां
परबलार्दनः ।
मां
नयेद्यदि
काकुत्स्थस्तत्तस्य
सदृशं
भवेत् ॥ १४ ॥
तद्यथा
तस्य
विक्रान्तमनुरूपं
महात्मनः ।
भवत्याहवशूरस्य
तथा
त्वमुपपादय ॥ १५ ॥
तदर्थोपहितं
वाक्यं
प्रश्रितं
हेतुसंहितम् ।
निशम्याहं
ततः
शेषं
वाक्यमुत्तरमब्रुवम् ॥ १६ ॥
देवि
हर्यृक्षसैन्यानामीश्वरः
प्लवतां
वरः ।
सुग्रीवः
सत्त्वसम्पन्नस्तवार्थे
कृतनिश्चयः ॥ १७ ॥
तस्य
विक्रमसम्पन्नाः
सत्त्ववन्तो
महाबलाः ।
मनस्सङ्कल्पसम्पाता
निदेशे
हरयः
स्थिताः ॥ १८ ॥
येषां
नोपरि
नाधस्तान्न
तिर्यक्
सज्जते
गतिः ।
न
च
कर्मसु
सीदन्ति
महत्स्वमिततेजसः ॥ १९ ॥
असकृत्तैर्महाभागैर्वानरैर्बलदर्पितैः ।
प्रदक्षिणीकृता
भूमिर्वायुमार्गानुसारिभिः ॥ २० ॥
मद्विशिष्टाश्च
तुल्याश्च
सन्ति
तत्र
वनौकसः ।
मत्तः
प्रत्यवरः
कश्चिन्नास्ति
सुग्रीवसन्निधौ ॥ २१ ॥
अहं
तावदिह
प्राप्तः
किं
पुनस्ते
महाबलाः ।
न
हि
प्रकृष्टाः
प्रेष्यन्ते
प्रेष्यन्ते
हीतरे
जनाः ॥ २२ ॥
तदलं
परितापेन
देवि
मन्युर्व्यपैतु
ते ।
एकोत्पातेन
वै
लङ्कामेष्यन्ति
हरियूथपाः ॥ २३ ॥
मम
पृष्ठगतौ
तौ
च
चन्द्रसूर्याविवोदितौ ।
त्वत्सकाशं
महाभागे
नृसिंहावागमिष्यतः ॥ २४ ॥
अरिघ्नं
सिंहसङ्काशं
क्षिप्रं
द्रक्ष्यसि
राघवम् ।
लक्ष्मणं
च
धनुष्पाणीं
लङ्काद्वारमुपस्थितम् ॥ २५ ॥
नखदंष्ट्रायुधान्
वीरान्
सिंहशार्दूलविक्रमान् ।
वानरान्
वारणेन्द्राभान्
क्षिप्रं
द्रक्ष्यसि
सङ्गतान् ॥ २६ ॥
शैलाम्बुदनिकाशानां
लङ्कामलयसानुषु ।
नर्दतां
कपिमुख्यानामचिराच्छ्रोष्यसि
स्वनम् ॥ २७ ॥
निवृत्तवनवासं
च
त्वया
सार्धमरिन्दमम् ।
अभिषिक्तमयोध्यायां
क्षिप्रं
द्रक्ष्यसि
राघवम् ॥ २८ ॥
ततो
मया
वाग्भिरदीनभाषिणा
शिवाभिरिष्टाभिरभिप्रसादिता ।
जगाम
शान्तिं
मम
मैथिलात्मजा
तवापि
शोकेन
तदाऽभिपीडिता ॥ २९ ॥