श्रुत्वा
हनुमतो
वाक्यं
यथावदभिभाषितम् ।
रामः
प्रीतिसमायुक्तो
वाक्यमुत्तरमब्रवीत् ॥ १ ॥
कृतं
हनुमता
कार्यं
सुमहद्भुवि
दुर्लभम् ।
मनसाऽपि
यदन्येन
न
शक्यं
धरणीतले ॥ २ ॥
न
हि
तं
परिपश्यामि
यस्तरेत
महार्णवम् ।
अन्यत्र
गरुडाद्वायोरन्यत्र
च
हनूमतः ॥ ३ ॥
को
विशेत्
सुदुराधर्षां
राक्षसैश्च
सुरक्षिताम् ।
यो
वीर्यबलसम्पन्नो
न
समः
स्याद्धनूमतः ॥ ४ ॥
भृत्यकार्यं
हनुमता
सुग्रीवस्य
कृतं
महत् ।
स्वयं
विधाय
स्वबलं
सदृशं
विक्रमस्य
च ॥ ५ ॥
यो
हि
भृत्यो
नियुक्तस्सन्
भर्त्रा
कर्मणि
दुष्करे ।
कुर्यात्तदनुरागेण
तमाहुः
पुरुषोत्तमम् ॥ ६ ॥
नियिक्तो
यः
परं
कार्यं
न
कुर्यान्नृपतेः
प्रियम् ।
भृत्यो
युक्तः
समर्थश्च
तमाहुर्मध्यमं
नरम् ॥ ७ ॥
नियुक्तो
नृपतेः
कार्यं
न
कुर्याद्यः
समाहितः ।
भृत्यो
युक्तः
समर्थश्च
तमाहुः
पुरुषाधमम् ॥ ८ ॥
तन्नियोगे
नियुक्तेन
कृतं
कृत्यं
हनूमता ।
न
चात्मा
लघुतां
नीतः
सुग्रीवश्चापि
तोषितः ॥ ९ ॥
अहं
च
रघुवंशश्च
लक्ष्मणश्च
महाबलः ।
वैदेह्या
दर्शनेनाद्य
धर्मतः
परिरक्षिताः ॥ १० ॥
इदं
तु
मम
दीनस्य
मनो
भूयः
प्रकर्षति ।
यदिहास्य
प्रियाख्यातुर्न
कुर्मि
सदृशं
प्रियम् ॥ ११ ॥
एष
सर्वस्वभूतस्तु
परिष्वङ्गो
हनूमतः ।
मया
कालमिमं
प्राप्य
दत्तश्चास्तु
महात्मनः ॥ १२ ॥
इत्युक्त्वा
प्रीतिहृष्टाङ्गो
रामस्तं
परिषस्वजे ।
हनूमन्तं
महात्मानं
कृतकार्यमुपागतम् ॥ १३ ॥
ध्यात्वा
पुनरुवाचेदं
वचनं
रघुनन्दनः ।
हरीणामीश्वरस्यैव
सुग्रीवस्योपशृण्वतः ॥ १४ ॥
सर्वथा
सुकृतं
तावत्
सीतायाः
परिमार्गणम् ।
सागरं
तु
समासाद्य
पुनर्नष्टं
मनो
मम ॥ १५ ॥
कथं
नाम
समुद्रस्य
दुष्पारस्य
महाम्भसः ।
हरयो
दक्षिणं
पारं
गमिष्यन्ति
समाहिताः ॥ १६ ॥
यद्यप्येष
तु
वृत्तान्तो
वैदेह्या
गदितो
मम ।
समुद्रपारगमने
हरीणां
किमिवोत्तरम् ॥ १७ ॥
इत्युक्त्वा
शोकसम्भ्रान्तो
रामः
शत्रुनिबर्हणः ।
हनुमन्तं
महाबाहुस्ततो
ध्यानमुपागमत् ॥ १८ ॥