तं
तु
शोकपरिद्यूनं
रामं
दशरथात्मजम् ।
उवाच
वचनं
श्रीमान्
सुग्रीवः
शोकनाशनम् ॥ १ ॥
किं
त्वं
सन्तप्यसे
वीर
यथाऽन्यः
प्राकृतस्तथा ।
मैवं
भूस्त्यज
सन्तापं
कृतघ्न
इव
सौहृदम् ॥ २ ॥
सन्तापस्य
च
ते
स्थानं
न
हि
पश्यामि
राघव ।
प्रवृत्तावुपलब्धायां
ज्ञाते
च
निलये
रिपोः ॥ ३ ॥
मतिमाञ्छास्त्रवित्
प्राज्ञः
पण्डितश्चासि
राघव ।
त्यजेमां
पापिकां
बुद्धिं
कृतात्मेवार्थदूषणीम् ॥ ४ ॥
समुद्रं
लङ्घयित्वा
तु
महानक्रसमाकुलम् ।
लङ्कामारोहयिष्यामो
हनिष्यामश्च
ते
रिपुम् ॥ ५ ॥
निरुत्साहस्य
दीनस्य
शोकपर्याकुलात्मनः ।
सर्वथा
व्यवसीदन्ति
व्यसनं
चाधिगच्छति ॥ ६ ॥
इमे
शूराः
समर्थाश्च
सर्वे
नो
हरियूथपाः ।
त्वत्प्रियार्थं
कृतोत्साहाः
प्रवेष्टुमपि
पावकम् ॥ ७ ॥
एषां
हर्षेण
जानामि
तर्कश्चास्मिन्
दृढो
मम ।
विक्रमेण
समानेष्ये
सीतां
हत्वा
यथा
रिपुम् ॥ ८ ॥
रावणं
पापकर्माणं
तथा
त्वं
कर्तुमर्हसि ।
सेतुरत्र
यथा
बद्ध्येद्यथा
पश्येम
तां
पुरीम् ॥ ९ ॥
तस्य
राक्षसराजस्य
तथा
त्वं
कुरु
राघव ।
दृष्ट्वा
तां
तु
पुरीं
लङ्कां
त्रिकूटशिखरे
स्थिताम् ॥ १० ॥
हतं
च
रावणं
युद्धे
दर्शनादुपधारय ।
अबद्ध्वा
सागरे
सेतुं
घोरे
तु
वरुणालये ॥ ११ ॥
लङ्का
न
मर्दितुं
शक्या
सेन्द्रैरपि
सुरासुरैः ।
सेतुर्बद्धः
समुद्रे
च
यावल्लङ्कासमीपतः ॥ १२ ॥
सर्वं
तीर्णं
च
वै
सैन्यं
जितमित्युपधारय ।
इमे
हि
समरे
शूरा
हरयः
कामरूपिणः ॥ १३ ॥
तदलं
विक्लवा
बुद्धी
राजन्
सर्वार्थनाशिनी ।
पुरुषस्य
हि
लोकेऽस्मिन्
शोकः
शौर्यापकर्षणः ॥ १४ ॥
यत्तु
कार्यं
मनुष्येण
शौण्डीर्यमवलम्बता ।
अस्मिन्
काले
महाप्राज्ञ
सत्त्वमातिष्ठ
तेजसा ॥ १५ ॥
शूराणां
हि
मनुष्याणां
त्वद्विधानां
महात्मनाम् ।
विनष्टे
वा
प्रनष्टे
वा
शोकः
सर्वार्थनाशनः ॥ १६ ॥
त्वं
तु
बुद्धिमतां
श्रेष्ठः
सर्वशास्त्रार्थकोविदः ।
मद्विधैः
सचिवैः
सार्धमरिं
जेतुमिहार्हसि ॥ १७ ॥
न
हि
पश्याम्यहं
कञ्चित्त्रिषु
लोकेषु
राघव ।
गृहीतधनुषो
यस्ते
तिष्ठेदभिमुखो
रणे ॥ १८ ॥
वानरेषु
समासक्तं
न
ते
कार्यं
विपत्स्यते ।
अचिराद्द्रक्ष्यसे
सीतां
तीर्त्वा
सागरमक्षयम् ॥ १९ ॥
तदलं
शोकमालम्ब्य
क्रोधमालम्ब
भूपते ।
निश्चेष्टाः
क्षत्रिया
मन्दाः
सर्वे
चण्डस्य
बिभ्यति ॥ २० ॥
लङ्घनार्थं
च
घोरस्य
समुद्रस्य
नदीपतेः ।
सहास्माभिरिहोपेतः
सूक्ष्मबुद्धिर्विचारय ॥ २१ ॥
सर्वं
तीर्णं
च
मे
सैन्यं
जितमित्युपधारय ।
इमे
हि
हरयः
शूराः
समरे
कामरूपिणः ॥ २२ ॥
तानरीन्
विधमिष्यन्ति
शिलापादपवृष्टिभिः ।
कथञ्चित्
सन्तरिष्यामस्ते
वयं
वरुणालयम् ॥ २३ ॥
हतमित्येव
तं
मन्ये
युद्धे
समितिनन्दन ।
किमुक्त्वा
बहुधा
चापि
सर्वथा
विजयी
भवान् ॥ २४ ॥
निमित्तानि
च
पश्यामि
मनो
मे
सम्प्रहृष्यति ॥ २५ ॥