सा
तु
नीलेन
विधिवत्
स्वारक्षा
सुसमाहिता ।
सागरस्योत्तरे
तीरे
साधु
सेना
निवेशिता ॥ १ ॥
मैन्दश्च
द्विविदश्चोभौ
तत्र
वानरपुङ्गवौ ।
विचेरतुश्च
तां
सेनां
रक्षार्थं
सर्वतो
दिशम् ॥ २ ॥
निविष्टायां
तु
सेनायां
तीरे
नदनदीपतेः ।
पार्श्वस्थं
लक्ष्मणं
दृष्ट्वा
रामो
वचनमब्रवीत् ॥ ३ ॥
शोकश्च
किल
कालेन
गच्छता
ह्यपगच्छति ।
मम
चापश्यतः
कान्तामहन्यहनि
वर्धते ॥ ४ ॥
न
मे
दुःखं
प्रिया
दूरे
न
मे
दुःखं
हृतेति
वा ।
एतदेवानुशोचामि
वयोऽस्या
ह्यतिवर्तते ॥ ५ ॥
वाहि
वात
यतः
कान्ता
तां
स्पृष्ट्वा
मामपि
स्पृश ।
त्वयि
मे
गात्रसंस्पर्शश्चन्द्रे
दृष्टिसमागमः ॥ ६ ॥
तन्मे
दहति
गात्राणि
विषं
पीतमिवाशये ।
हा
नाथेति
प्रिया
सा
मां
ह्रियमाणा
यदब्रवीत् ॥ ७ ॥
तद्वियोगेन्धनवता
तच्चिन्ताविपुलार्चिषा ।
रात्रिन्दिवं
शरीरं
मे
दह्यते
मदनाग्निना ॥ ८ ॥
अवगाह्यार्णवं
स्वप्स्ये
सौमित्रे
भवता
विना ।
कथञ्चित्
प्रज्वलन्
कामः
स
मा
सुप्तं
जले
दहेत् ॥ ९ ॥
बह्वेतत्कामयानस्य
शक्यमेतेन
जीवितुम् ।
यदहं
सा
च
वामोरूरेकां
धरणिमाश्रितौ ॥ १० ॥
केदारस्येव
केदारः
सोदकस्य
निरूदकः ।
उपस्नेहेन
जीवामि
जीवन्तीं
यच्छृणोमि
ताम् ॥ ११ ॥
कदा
नु
खलु
सुश्रोणीं
शतपत्रायतेक्षणाम् ।
विजित्य
शत्रून्
द्रक्ष्यामि
सीतां
स्फीतामिव
श्रियम् ॥ १२ ॥
कदा
नु
चारु
बिम्बोष्ठं
तस्याः
पद्ममिवाननम् ।
ईषदुन्नम्य
पास्यामि
रसायनमिवातुरः ॥ १३ ॥
तस्यास्तु
संहतौ
पीनौ
स्तनौ
तालफलोपमौ ।
कदा
नु
खलु
सोत्कम्पौ
श्लिष्यन्त्या
मां
भजिष्यतः ॥ १४ ॥
सा
नूनमसितापाङ्गी
रक्षोमध्यगता
सती ।
मन्नाथा
नाथहीनेव
त्रातारं
नाधिगच्छति ॥ १५ ॥
कथं
जनकराजस्य
दुहिता
सा
मम
प्रिया ।
राक्षसीमध्यगा
शेते
स्नुषा
दशरथस्य
च ॥ १६ ॥
कदाऽविक्षोभ्यरक्षांसि
सा
विधूयोत्पतिष्यति ।
विधूय
जलदान्नीलान्
शशिरेखा
शरत्स्विव ॥ १७ ॥
स्वभावतनुका
नूनं
शोकेनानशनेन
च ।
भूयस्तनुतरा
सीता
देशकालविपर्ययात् ॥ १८ ॥
कदा
नु
राक्षसेन्द्रस्य
निधायोरसि
सायकान् ।
सीतां
प्रत्याहरिष्यामि
शोकमुत्सृज्य
मानसम् ॥ १९ ॥
कदा
नु
खलु
मां
साध्वी
सीता
सुरसुतोपमा ।
सोत्कण्ठा
कण्ठमालम्ब्य
मोक्ष्यत्यानन्दजं
पयः ॥ २० ॥
कदा
शोकमिमं
घोरं
मैथिलीविप्रयोगजम् ।
सहसा
विप्रमोक्ष्यामि
वासः
शुक्लेतरं
यथा ॥ २१ ॥
एवं
विलपतस्तस्य
तत्र
रामस्य
धीमतः ।
दिनक्षयान्मन्दरुचिर्भास्करोऽस्तमुपागमत् ॥ २२ ॥
आश्वासितो
लक्ष्मणेन
रामः
सन्ध्यामुपासत ।
स्मरन्
कमलपत्राक्षीं
सीतां
शोकाकुलीकृतः ॥ २३ ॥