राक्षसेन्द्रो
हनुमता
शोकेणेव
महात्मना ।
अब्रवीद्राक्षसान्
सर्वान्
ह्रिया
किञ्चिदवाङ्मुखः ॥ १ ॥
धर्षिता
च
प्रविष्टा
च
लङ्का
दुष्प्रसहा
पुरी ।
तेन
वानरमात्रेण
दृष्टा
सीता
च
जानकी ॥ २ ॥
प्रासादो
धर्षितश्चैत्यः
प्रवरा
राक्षसा
हताः ।
आविला
च
पुरी
लङ्का
सर्वा
हनुमता
कृता ॥ ३ ॥
किं
करिष्यामि
भद्रं
वः
किं
वा
युक्तमनन्तरम् ।
उच्यतां
नः
समर्थं
यत्
कृतं
च
सुकृतं
भवेत् ॥ ४ ॥
मन्त्रमूलं
हि
विजयं
प्राहुरार्या
मनस्विनः ।
तस्माद्वै
रोचये
मन्त्रं
रामं
प्रति
महाबलाः ॥ ५ ॥
त्रिविधाः
पुरुषा
लोके
उत्तमाधममध्यमाः ।
तेषां
तु
समवेतानां
गुणदोषो
वदाम्यहम् ॥ ६ ॥
मन्त्रिभिर्हितसंयुक्तैः
समर्थैर्मन्त्रनिर्णये ।
मित्रैर्वापि
समानार्थैर्बान्धवैरपि
वा
हितैः ॥ ७ ॥
सहितो
मन्त्रयित्वा
यः
कर्मारम्भान्
प्रवर्तयेत् ।
दैवे
च
कुरुते
यत्नं
तमाहुः
पुरुषोत्तमम् ॥ ८ ॥
एकोऽर्थं
विमृशेदेको
धर्मे
प्रकुरुते
मनः ।
एकः
कार्याणि
कुरुते
तमाहुर्मध्यमं
नरम् ॥ ९ ॥
गुणदोषावनिश्चित्य
त्यक्त्वा
धर्मव्यपाश्रयम् ।
करिष्यामीति
यः
कार्यमुपेक्षेत्
स
नराधमः ॥ १० ॥
यथेमे
पुरुषा
नित्यमुत्तमाधममध्यमाः ।
एवं
मन्त्रा
हि
विज्ञेया
उत्तमाधममध्यमाः ॥ ११ ॥
ऐकमत्यमुपागम्य
शास्त्रदृष्टेन
चक्षुषा ।
मन्त्रिणो
यत्र
निरतास्तमाहुर्मन्त्रमुत्तमम् ॥ १२ ॥
बह्व्योऽपि
मतयो
भूत्वा
मन्त्रिणामर्थनिर्णये ।
पुनर्यत्रैकतां
प्राप्ताः
स
मन्त्रो
मध्यमः
स्मृतः ॥ १३ ॥
अन्योन्यं
मतिमास्थाय
यत्र
सम्प्रतिभाष्यते ।
न
चैकमत्ये
श्रेयोऽस्ति
मन्त्रः
सोऽधम
उच्यते ॥ १४ ॥
तस्मात्
सुमन्त्रितं
साधु
भवन्तो
मतिमत्तमाः ।
कार्यं
सम्प्रतिपद्यन्तामेतत्
कृत्यं
मतं
मम ॥ १५ ॥
वानराणां
हि
वीराणां
सहस्रैः
परिवारितः ।
रामोऽभ्येति
पुरीं
लङ्कामस्माकमुपरोधकः ॥ १६ ॥
तरिष्यति
च
सुव्यक्तं
राघवः
सागरं
सुखम् ।
तरसा
युक्तरूपेण
सानुजः
सबलानुगः ॥ १७ ॥
समुद्रमुच्छोषयति
वीर्येणान्यत्
करोति
वा ।
अस्मिन्नेवङ्गते
कार्ये
विरुद्धे
वानरैः
सह ॥ १८ ॥
हितं
पुरे
च
सैन्ये
च
सर्वं
सम्मन्त्र्यतां
मम ॥ १९ ॥