द्विषत्पक्षमविज्ञाय
नीतिबाह्यास्त्वबुद्धयः ।
राजन्
परिघशक्त्यृष्टिशूलपट्टिशसङ्कुलम् ॥ १ ॥
सुमहन्नो
बलं
कस्माद्विषादं
भजते
भवान् ।
त्वया
भोगवतीं
गत्वा
निर्जिताः
पन्नगा
युधि ॥ २ ॥
कैलासशिखरावासी
यक्षैर्बहुभिरावृतः ।
सुमहत्
कदनं
कृत्वा
वश्यस्ते
धनदः
कृतः ॥ ३ ॥
स
महेश्वरसख्येन
श्लाघमानस्त्वया
विभो ।
निर्जितः
समरे
रोषाल्लोकपालो
महाबलः ॥ ४ ॥
विनिहत्य
च
यक्षौघान्
विक्षोभ्य
च
विगृह्य
च ।
त्वया
कैलासशिखराद्विमानमिदमाहृतम् ॥ ५ ॥
मयेन
दानवेन्द्रेण
त्वद्भयात्
सख्यमिच्छता ।
दुहिता
तव
भार्यार्थे
दत्ता
राक्षसपुङ्गव ॥ ६ ॥
दानवेन्द्रो
मधुर्नाम
वीर्योत्सिक्तो
दुरासदः ।
विगृह्य
वशमानीतः
कुम्भीनस्याः
सुखावहः ॥ ७ ॥
निर्जितास्ते
महाबाहो
नागा
गत्वा
रसातलम् ।
वासुकिस्तक्षकः
शङ्खो
जटी
च
वशमाहृताः ॥ ८ ॥
अक्षया
बलवन्तश्च
शूरा
लब्धवराः
पुनः ।
त्वया
संवत्सरं
युद्ध्वा
समरे
दानवा
विभो ॥ ९ ॥
देवलोकमितो
गत्वा
शक्रश्चापि
विनिर्जितः] ।
शूराश्च
बलवन्तश्च
वरुणस्य
सुता
रणे ॥ १० ॥
निर्जितास्ते
महाबाहो
चतुर्विधबलानुगाः ।
मृत्युदण्डमहाग्राहं
शाल्मलिद्रुममण्डितम् ॥ ११ ॥
कालपाशमहावीचिं
यमकिङ्करपन्नगम् ।
अवगाह्य
त्वया
राजन्
यमस्य
बलसागरम् ॥ १२ ॥
जयश्च
विपुलः
प्राप्तो
मृत्युश्च
प्रतिषेधितः ।
सुयुद्धेन
च
ते
सर्वे
लोकास्तत्र
विलोलिताः ॥ १३ ॥
क्षत्रियैर्बहुभिर्वीरैः
शक्रतुल्यपराक्रमैः ।
आसीद्वसुमती
पूर्णा
महद्भिरिव
पादपैः ॥ १४ ॥
तेषां
वीर्यगुणोत्साहैर्न
समो
राघवो
रणे ।
प्रसह्य
ते
त्वया
राजन्
हताः
परमदुर्जयाः ॥ १५ ॥
तिष्ठ
वा
किं
महाराज
श्रमेण
तव
वानरान् ।
अयमेको
महाबाहुरिन्द्रजित्
क्षपयिष्यति ॥ १६ ॥
अनेन
हि
महाराज
माहेश्वरमनुत्तमम् ।
इष्ट्वा
यज्ञं
वरो
लब्धो
लोके
परमदुर्लभः ॥ १७ ॥
शक्तितोमरमीनं
च
विनिकीर्णान्त्रशैवलम् ।
गजकच्छपसम्बाधमश्वमण्डूकसङ्कुलम् ॥ १८ ॥
रुद्रादित्यमहाग्राहं
मरुद्वसुमहोरगम् ।
रथाश्वगजतोयौघं
पदातिपुलिनं
महत् ॥ १९ ॥
अनेन
हि
समासाद्य
देवानां
बलसागरम् ।
गृहीतो
दैवतपतिर्लङ्कां
चापि
प्रवेशितः ॥ २० ॥
पितामहनियोगाच्च
मुक्तः
शम्बरवृत्रहा ।
गतस्त्रिविष्टपं
राजन्
सर्वदेवनमस्कृतः ॥ २१ ॥
तमेवं
त्वं
महाराज
विसृजेन्द्रजितं
सुतम् ।
यावद्वानरसेनां
तां
सरामां
नयति
क्षयम् ॥ २२ ॥
राजन्नापदयुक्तेयमागता
प्राकृताज्जनात् ।
हृदि
नैव
त्वया
कार्या
त्वं
वधिष्यसि
राघवम् ॥ २३ ॥