ततो
नीलाम्बुदनिभः
प्रहस्तो
नाम
राक्षसः ।
अब्रवीत्
प्राञ्जलिर्वाक्यं
शूरः
सेनापतिस्तदा ॥ १ ॥
देवदानवगन्धर्वाः
पिशाचपतगोरगाः ।
न
त्वां
धर्षयितुं
शक्ताः
किं
पुनर्वानरा
रणे ॥ २ ॥
सर्वे
प्रमत्ता
विश्वस्ता
वञ्चिताः
स्म
हनूमता ।
न
हि
मे
जीवतो
गच्छेज्जीवन्
स
वनगोचरः ॥ ३ ॥
सर्वां
सागरपर्यन्तां
सशैलवनकाननाम् ।
करोम्यवानरां
भूमिमाज्ञापयतु
मा
भवान् ॥ ४ ॥
रक्षां
चैव
विधास्यामि
वानराद्रजनीचर ।
नागमिष्यति
ते
दुःखं
किञ्चिदात्मापराधजम् ॥ ५ ॥
अब्रवीत्तु
सुसङ्क्रुद्धो
दुर्मुखो
नाम
राक्षसः ।
इदं
न
क्षमणीयं
हि
सर्वेषां
नः
प्रधर्षणम् ॥ ६ ॥
अयं
परिभवो
भूयः
पुरस्यान्तःपुरस्य
च ।
श्रीमतो
राक्षसेन्द्रस्य
वानरेण
प्रधर्षणम् ॥ ७ ॥
अस्मिन्
मुहूर्ते
हत्वैको
निवर्तिष्यामि
वानरान् ।
प्रविष्टान्
सागरं
भीममम्बरं
वा
रसातलम् ॥ ८ ॥
ततोऽब्रवीत्
सुसङ्क्रुद्धो
वज्रदंष्ट्रो
महाबलः ।
प्रगृह्य
परिघं
घोरं
मांसशोणितरूषितम् ॥ ९ ॥
किं
वो
हनुमता
कार्यं
कृपणेन
तपस्विना ।
रामे
तिष्ठति
दुर्धर्षे
ससुग्रीवे
सलक्ष्मणे ॥ १० ॥
अद्य
रामं
ससुग्रीवं
परिघेण
सलक्ष्मणम् ।
आगमिष्यामि
हत्वैको
विक्षोभ्य
हरिवाहिनीम् ॥ ११ ॥
इदं
ममापरं
वाक्यं
शृणु
राजन्
यदीच्छसि ।
उपाय
कुशलो
ह्येव
जयेच्छत्रूनतन्द्रितः ॥ १२ ॥
कामरूपधराः
शूराः
सुभीमा
भीमदर्शनाः ।
राक्षसा
वा
सहस्राणि
राक्षसाधिप
निश्चिताः ॥ १३ ॥
काकुत्स्थमुपसङ्गम्य
बिभ्रतो
मानुषं
वपुः ।
सर्वे
ह्यसम्भ्रमा
भूत्वा
ब्रुवन्तु
रघुसत्तमम् ॥ १४ ॥
ततो
वयमितस्तूर्णं
शूलशक्तिगदाधरः ।
चापबाणासिहस्ताश्च
त्वरितास्तत्र
याम
ह ॥ १५ ॥
आकाशे
गणशः
स्थित्वा
हत्वा
तां
हरिवाहिनीम् ।
अश्मशस्त्रमहावृष्ट्या
प्रापयाम
यमक्षयम् ॥ १६ ॥
एवं
चेदुपसर्पेतामनयं
रामसक्ष्मणौ ।
अवश्यमपनीतेन
जहतामेव
जीवितम् ॥ १७ ॥
कौम्भकर्णिस्ततो
वीरो
निकुम्भो
नाम
वीर्यवान् ।
अब्रवीत्
परमक्रुद्धो
रावणं
लोकरावणम् ॥ १८ ॥
अहमेको
हनिष्यामि
राघवं
सहलक्ष्मणम् ।
सुग्रीवं
च
हनूमन्तं
सर्वानेव
च
वानरान् ॥ १९ ॥
ततो
वज्रहनुर्नाम
राक्षसः
पर्वतोपमः ।
क्रुद्धः
परिलिहन्
वक्त्रं
जिह्वया
वाक्यमब्रवीत् ॥ २० ॥
स्वैरं
कुर्वन्तु
कार्याणि
भवन्तो
विगतज्वराः ।
एकोऽहं
भक्षयिष्यामि
तान्
सर्वान्
हरियूथपान् ॥ २१ ॥
स्वस्थाः
क्रीडन्तु
निश्चिन्ताः
पिबन्तो
मधुवारुणीम् ।
अहमेको
वधिष्यामि
सुग्रीवं
सहलक्ष्मणम् ॥ २२ ॥
अङ्गदं
च
हनूमन्तं
रामं
च
रणकुञ्जरम् ॥ २३ ॥