ततो
निकुम्भो
रभसः
सूर्यशत्रुर्महाबलः ।
सुप्तघ्नो
यज्ञहा
रक्षो
महापार्श्वो
महोदरः ॥ १ ॥
अग्निकेतुश्च
दुर्धर्षो
रश्मिकेतुश्च
राक्षसः ।
इन्द्रजिच्च
महातेजा
बलवान्
रावणात्मजः ॥ २ ॥
प्रहस्तोऽथ
विरूपाक्षो
वज्रदंष्ट्रो
महाबलः ।
धूम्राक्षश्चातिकायश्च
दुर्मुखश्चैव
राक्षसः ॥ ३ ॥
परिघान्
पट्टिशान्
प्रासान्
शक्तिशूलपरश्वधान् ।
चापानि
च
सबाणानि
खड्गांश्च
विपुलान्
शितान् ॥ ४ ॥
प्रगृह्य
परमक्रुद्धाः
समुत्पत्य
च
राक्षसाः ।
अब्रुवन्
रावणं
सर्वे
प्रदीप्ता
इव
तेजसा ॥ ५ ॥
अद्य
रामं
वधिष्यामः
सुग्रीवं
च
सलक्ष्मणम् ।
कृपणं
च
हनूमन्तं
लङ्का
येन
प्रधर्षिता ॥ ६ ॥
तान्
गृहीतायुधान्
सर्वान्
वारयित्वा
विभीषणः ।
अब्रवीत्
प्राञ्जलिर्वाक्यं
पुनः
प्रत्युपवेश्य
तान् ॥ ७ ॥
अप्युपायैस्त्रिभिस्तात
योऽर्थः
प्राप्तुं
न
शक्यते ।
तस्य
विक्रमकालांस्तान्
युक्तानाहुर्मनीषिणः ॥ ८ ॥
प्रमत्तेष्वभियुक्तेषु
दैवेन
प्रहृतेषु
च ।
विक्रमास्तात
सिद्ध्यन्ति
परीक्ष्य
विधिना
कृताः ॥ ९ ॥
अप्रमत्तं
कथं
तं
तु
विजिगीषुं
बले
स्थितम् ।
जितरोषं
दुराधर्षं
प्रधर्षयितुमिच्छथ ॥ १० ॥
समुद्रं
लङ्घयित्वा
तु
घोरं
नदनदीपतिम् ।
कृतं
हनुमता
कर्म
दुष्करं
तर्कयेत
वा ॥ ११ ॥
बलान्यपरिमेयानि
वीर्याणि
च
निशाचराः ।
परेषां
सहसाऽवज्ञा
न
कर्तव्या
कथञ्चन ॥ १२ ॥
किं
च
राक्षसराजस्य
रामेणापकृतं
पुरा ।
आजहार
जनस्थानाद्यस्य
भार्यां
यशस्विनः ॥ १३ ॥
खरो
यद्यतिवृत्तस्तु
रामेण
निहतो
रणे ।
अवश्यं
प्राणिनां
प्राणा
रक्षितव्या
यथाबलम् ॥ १४ ॥
अयशस्यमनायुष्यं
परदाराभिमर्शनम् ।
अर्थक्षयकरं
घोरं
पापस्य
च
पुनर्भवम् ॥ १५ ॥
एतन्निमित्तं
वैदेह्या
भयं
नः
सुमहद्भवेत् ।
आहृता
सा
परित्याज्या
कलहार्थे
कृतेन
किम् ॥ १६ ॥
न
नः
क्षमं
वीर्यवता
तेन
धर्मानुवर्तिना ।
वैरं
निरर्थकं
कर्तुं
दीयतामस्य
मैथिली ॥ १७ ॥
यावन्न
सगजां
साश्वां
बहुरत्नसमाकुलाम् ।
पुरीं
दारयते
बाणैर्दीयतामस्य
मैथिली ॥ १८ ॥
यावत्
सुघोरा
महती
दुर्द्धर्षा
हरिवाहिनी ।
नावस्कन्दति
नो
लङ्कां
तावत्सीता
प्रदीयताम् ॥ १९ ॥
विनश्येद्धि
पुरी
लङ्का
शूराः
सर्वे
च
राक्षसाः ।
रामस्य
दयिता
पत्नी
स्वयं
न
यदि
दीयते ॥ २० ॥
प्रसादये
त्वां
बन्धुत्वात्कुरुष्व
वचनं
मम ।
हितं
पथ्यमहं
ब्रूमि
दीयतामस्य
मैथिली ॥ २१ ॥
पुरा
शरत्सूर्यमरीचिसन्निभान्
नवाग्रपुङ्खान्
सुदृढान्नृपात्मजः ।
सृजत्यमोघान्
विशिखान्
वधाय
ते
प्रदीयतां
दाशरथाय
मैथिली ॥ २२ ॥
त्यज
स्वकोपं
सुखधर्मनाशनं
भजस्व
धर्मं
रतिकीर्तिवर्द्धनम् ।
प्रसीद
जीवेम
सपुत्रबान्धवाः
प्रदीयतां
दाशरथाय
मैथिली ॥ २३ ॥
विभीषणवचः
श्रुत्वा
रावणो
राक्षसेश्वरः ।
विसर्जयित्वा
तान्
सर्वान्
प्रविवेश
स्वकं
गृहम् ॥ २४ ॥