स
बभूव
कृशो
राजा
मैथिलीकाममोहितः ।
असम्मानाच्च
सुहृदां
पापः
पापेन
कर्मणा ॥ १ ॥
अतीतसमये
काले
तस्मिन्
वै
युधि
रावणः ।
अमात्यैश्च
सुहृद्धिश्च
मन्त्रकालममन्यत ॥ २ ॥
स
हेमजालविततं
मणिविद्रुमभूषितम् ।
उपगम्य
विनीताश्वमारुरोह
महारथम् ॥ ३ ॥
तमास्थाय
रथश्रेष्ठं
महामेघसमस्वनम् ।
प्रययौ
राक्षसश्रेष्ठो
दशग्रीवः
सभां
प्रति ॥ ४ ॥
असिचर्मधरा
योधाः
सर्वायुधधरास्तथा ।
राक्षसा
राक्षसेन्द्रस्य
पुरतः
सम्प्रतस्थिरे ॥ ५ ॥
नानाविकृतवेषाश्च
नानाभूषणभूषिताः ।
पार्श्वतः
पृष्ठतश्चैनं
परिवार्य
ययुस्ततः ॥ ६ ॥
रथैश्चातिरथाः
शीघ्रं
मत्तैश्च
वरवारणैः ।
अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च
वाजिभिः ॥ ७ ॥
गदापरिघहस्ताश्च
शक्तितोमरपाणयः ।
परश्वधधराश्चान्ये
तथाऽन्ये
शूलपाणयः ॥ ८ ॥
ततस्तूर्यसहस्राणां
सञ्जज्ञे
निस्वनो
महान् ।
तुमुलः
शङ्खशब्दश्च
सभां
गच्छति
रावणे ॥ ९ ॥
स
नेमिघोषेण
महान्
सहसाऽभिविनादयन् ।
राजमार्गं
श्रिया
जुष्टं
प्रतिपेदे
महारथः ॥ १० ॥
विमलं
चातपत्राणं
प्रगृहीतमशोभत ।
पाण्डरं
राक्षसेन्द्रस्य
पूर्णस्ताराधिपो
यथा ॥ ११ ॥
हेममञ्जरिगर्भे
च
शुद्धस्फटिकविग्रहे ।
चामरव्यजने
चास्य
रेजतुः
सव्यदक्षिणे ॥ १२ ॥
ते
कृताञ्जलयः
सर्वे
रथस्थं
पृथिवीस्थिताः ।
राक्षसा
राक्षसश्रेष्ठं
शिरोभिस्तं
ववन्दिरे ॥ १३ ॥
राक्षसैः
स्तूयमानः
सन्
जयाशीर्भिररिन्दमः ।
आससाद
महातेजाः
सभां
सुविहितां
शुभाम् ॥ १४ ॥
सुवर्णरजतस्थूणां
विशुद्धस्फटिकान्तराम् ।
विराजमानो
वपुषा
रुक्मपट्टोत्तरच्छदाम् ॥ १५ ॥
तां
पिशाचशतैः
षड्भिरभिगुप्तां
सदा
शुभाम् ।
प्रविवेश
महातेजाः
सुकृतां
विश्वकर्मणा ॥ १६ ॥
तस्यां
तु
वैडूर्यमयं
प्रियकाजिनसंवृतम् ।
महत्
सोपाश्रयं
भेजे
रावणः
परमासनम् ॥ १७ ॥
ततः
शशासेश्वरवद्
दूतान्
लघुपराक्रमान् ।
समानयत
मे
क्षिप्रमिहैतान्
राक्षसानिति ॥ १८ ॥
कृत्यमस्ति
महज्जातं
समर्थ्यमिह
नो
महत् ।
अनुगेहमवस्थाय
विहारशयनेषु
च ॥ १९ ॥
उद्यानेषु
च
रक्षांसि
चोदयन्तो
ह्यभीतवत् ।
ते
रथान्
रुचिरानेके
दृप्तानेके
पृथग्घयान् ॥ २० ॥
नागानन्येऽधिरुरुहुर्जग्मुश्चैके
पदातयः ।
सा
पुरी
परमाकीर्णा
रथकुञ्जरवाजिभिः ॥ २१ ॥
सम्पतद्भिर्विरुरुचे
गरुत्मद्भिरिवाम्बरम् ।
ते
वाहनान्यवस्थाप्य
यानानि
विविधानि
च ॥ २२ ॥
सभां
पद्भिः
प्रविविशुः
सिंहा
गिरिगुहामिव ।
राज्ञः
पादौ
गृहीत्वा
तु
राज्ञा
ते
प्रतिपूजिताः ॥ २३ ॥
पीठेष्वन्ये
बृसीष्वन्ये
भूमौ
केचिदुपाविशन् ।
ते
समेत्य
सभायां
वै
राक्षसा
राजशासनात् ॥ २४ ॥
यथार्हमुपतस्थुस्ते
रावणं
राक्षसाधिपम् ।
मन्त्रिणश्च
यथा
मुख्या
निश्चयार्थेषु
पण्डिताः ॥ २५ ॥
अमात्याश्च
गुणोपेताः
सर्वज्ञा
बुद्धिदर्शनाः ।
रम्यायां
राक्षसेन्द्रस्य
समेयुस्तत्र
सङ्घशः ॥ २६ ॥
ततो
महात्मा
विपुलं
सुयुग्यं
वरं
रथं
हेमविचित्रिताङ्गम् ।
शुभं
समास्थाय
ययौ
यशस्वी
विभीषणः
संसदमग्रजस्य ॥ २७ ॥
स
पूर्वजायावरजः
शशंस
नामाथ
पश्चाच्चरणौ
ववन्दे ।
शुकः
प्रहस्तश्च
तथैव
तेभ्यो
ददौ
यथार्हं
पृथगासनानि ॥ २८ ॥
सुवर्णनानामणिभूषणानां
सुवाससां
संसदि
राक्षसानाम् ।
तेषां
परार्ध्यागरुचन्दनानां
स्रजश्च
गन्धाश्च
ववुः
समन्तात् ॥ २९ ॥
न
चुक्रुशुर्नानृतमाह
कश्चित्
सभासदो
नैव
जजल्पुरुच्चैः ।
संसिद्धार्थाः
सर्व
एवोग्रवीर्या
भर्तुः
सर्वे
ददृशुश्चाननं
ते ॥ ३० ॥
सरावणः
शस्त्रभृतां
मनस्विनां
महाबलानां
समितौ
मनस्वी ।
तस्यां
सभायां
प्रभया
चकाशे
मध्ये
वसूनामिव
वज्रहस्तः ॥ ३१ ॥