रावणं
क्रुद्धमाज्ञाय
महापार्श्वो
महाबलः ।
मुहूर्तमनुसञ्चिन्त्य
प्राञ्जलिर्वाक्यमब्रवीत् ॥ १ ॥
यः
खल्वपि
वनं
प्राप्य
मृगव्यालसमाकुलम् ।
न
विबेन्मधु
सम्प्राप्तं
स
नरो
बालिशो
भवेत् ॥ २ ॥
ईश्वरस्येश्वरः
कोऽस्ति
तव
शत्रुनिबर्हण ।
रमस्व
सह
वैदेह्या
शत्रूनाक्रम्य
मूर्धसु ॥ ३ ॥
बलात्
कुक्कुटवृत्तेन
वर्तस्व
सुमहाबल ।
आक्रम्याक्रम्य
सीतां
वै
तथा
भुङ्क्ष्व
रमस्व
च ॥ ४ ॥
लब्धकामस्य
ते
पश्चादागमिष्यति
यद्भयम् ।
प्राप्तमप्राप्तकालं
वा
सर्वं
प्रतिसहिष्यसि ॥ ५ ॥
कुम्भकर्णः
सहास्माभिरिन्द्रजिच्च
महाबलः ।
प्रतिषेधयितुं
शक्तौ
सवज्रमपि
वज्रिणम् ॥ ६ ॥
उपप्रदानं
सान्त्वं
वा
भेदं
वा
कुशलैः
कृतम् ।
समतिक्रम्य
दण्डेन
सिद्धिमर्थेषु
रोचय ॥ ७ ॥
इह
प्राप्तान्
वयं
सर्वान्
शत्रूंस्तव
महाबल ।
वशे
शस्त्रप्रतापेन
करिष्यामो
न
संशयः ॥ ८ ॥
एवमुक्तस्तदा
राजा
महापार्श्वेन
रावणः ।
तस्य
सम्पूजयन्
वाक्यमिदं
वचनमब्रवीत् ॥ ९ ॥
महापार्श्व
निबोध
त्वं
रहस्यं
किञ्चिदात्मनः ।
चिरवृत्तं
तदाख्यास्ये
यदवाप्तं
मया
पुरा ॥ १० ॥
पितामहस्य
भवनं
गच्छन्तीं
पुञ्जिकस्थलाम् ।
चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥ ११ ॥
सा
प्रसह्य
मया
भुक्ता
कृता
विवसना
ततः ।
स्वयम्भूभवनं
प्राप्ता
लोलिता
नलिनी
यथा ॥ १२ ॥
तस्य
तच्च
तदा
मन्ये
ज्ञातमासीन्महात्मनः ।
अथ
सङ्कुपितो
देवो
मामिदं
वाक्यमब्रवीत् ॥ १३ ॥
अद्यप्रभृति
यामन्यां
बलान्नारीं
गमिष्यसि ।
तदा
ते
शतधा
मूर्धा
फलिष्यति
न
संशयः ॥ १४ ॥
इत्यहं
तस्य
शापस्य
भीतः
प्रसभमेव
ताम् ।
नारोपये
बलात्
सीतां
वैदेहीं
शयने
शुभे ॥ १५ ॥
सागरस्येव
मे
वेगो
मारुतस्येव
मे
गतिः ।
नैतद्दाशरथिर्वेद
ह्यासादयति
तेन
माम् ॥ १६ ॥
यस्तु
सिंहमिवासीनं
सुप्तं
गिरिगुहाशये ।
क्रुद्धं
मृत्युमिवासीनं
प्रबोधयितुमिच्छति ॥ १७ ॥
न
मत्तो
निशितान्
बाणान्
द्विजिह्वानिव
पन्नगान् ।
रामः
पश्यति
सङ्ग्रामे
तेन
मामभिगच्छति ॥ १८ ॥
क्षिप्रं
वज्रोपमैर्बाणैः
शतधा
कार्मुकच्युतैः ।
राममादीपयिष्यामि
उल्काभिरिव
कुञ्जरम् ॥ १९ ॥
तच्चास्य
बलमादास्ये
बलेन
महता
वृतः ।
उदयन्
सविता
काले
नक्षत्राणामिव
प्रभाम् ॥ २० ॥
न
वासवेनापि
सहस्रचक्षुषा
युधाऽस्मि
शक्यो
वरुणेन
वा
पुनः ।
मया
त्वियं
बाहुबलेन
निर्जिता
पुरी
पुरा
वैश्रवणेन
पालिता ॥ २१ ॥