निशाचरेन्द्रस्य
निशम्य
वाक्यं
स
कुम्भकर्णस्य
च
गर्जितानि ।
विभीषणो
राक्षसराजमुख्यमुवाच
वाक्यं
हितमर्थयुक्तम् ॥ १ ॥
वृतो
हि
बाह्वन्तरभोगराशिश्चिन्ताविषः
सुस्मिततीक्ष्णदंष्ट्रः ।
पञ्चाङ्गुलीपञ्चशिरोऽतिकायः
सीतामहाहिस्तव
केन
राजन् ॥ २ ॥
यावन्न
लङ्कां
समभिद्रवन्ति
वलीमुखाः
पर्वतकूटमात्राः ।
दंष्ट्रायुधाश्चैव
नखायुधाश्च
प्रदीयतां
दाशरथाय
मैथिली ॥ ३ ॥
यावन्न
गृह्णन्ति
शिरांसि
बाणा
रामेरिता
राक्षसपुङ्गवानाम् ।
वज्रोपमा
वायुसमानवेगाः
प्रदीयतां
दाशरथाय
मैधिली ॥ ४ ॥
भित्त्वा
न
तावत्
प्रविशन्ति
कायं
प्राणान्तिकास्तेऽशनितुल्यवेगाः ।
शिताः
शरा
राघव
विप्रमुक्ताः
प्रहस्त
तेनैव
विकत्थसे
त्वम् ॥ ५ ॥
न
कुम्भकर्णेन्द्रजितौ
न
राजा
तथा
महापार्श्वमहोदरौ
वा ।
निकुम्भकुम्भौ
च
तथाऽतिकायः
स्थातुं
न
शक्ता
युधि
राघवस्य ॥ ६ ॥
जीवंस्तु
रामस्य
न
मोक्ष्यसे
त्वं
गुप्तः
सवित्राप्यथवा
मरुद्भिः ।
न
वासवस्याङ्कगतो
न
मृत्योर्नभो
न
पातालमनुप्रविष्टः ॥ ७ ॥
निशम्य
वाक्यं
तु
विभीषणस्य
ततः
प्रहस्तो
वचनं
बभाषे ।
न
नो
भयं
विद्म
न
दैवतेभ्यो
न
दानवेभ्यो
ह्यथवा
कुतश्चित् ॥ ८ ॥
न
यक्षगन्धर्वमहोरगेभ्यो
भयं
न
सङ्ख्ये
पतगोत्तमेभ्यः ।
कथं
नु
रामाद्
भविता
भयं
नो
नरेन्द्रपुत्रात्
समरे
कदाचित् ॥ ९ ॥
प्रहस्तवाक्यं
त्वहितं
निशम्य
विभीषणो
राजहितानुकाङ्क्षी ।
ततो
महात्मा
वचनं
बभाषे
धर्मार्थकामेषु
निविष्टबुद्धिः ॥ १० ॥
प्रहस्त
राजा
च
महोदरश्च
त्वं
कुम्भकर्णश्च
यथाऽर्थजातम् ।
ब्रवीथ
रामं
प्रति
तन्न
शक्यं
यथा
गतिः
स्वर्गमधर्मबुद्धेः ॥ ११ ॥
वधस्तु
रामस्य
मया
त्वया
वा
प्रहस्त
सर्वैरपि
राक्षसैर्वा ।
कथं
भवेदर्थविशारदस्य
महार्णवं
तर्तुमिवाप्लवस्य ॥ १२ ॥
धर्मप्रधानस्य
महारथस्य
इक्ष्वाकुवंशप्रभवस्य
राज्ञः ।
प्रहस्त
देवाश्च
तथाविधस्य
कृत्येषु
शक्तस्य
भवन्ति
मूढाः ॥ १३ ॥
तीक्ष्णा
नता
यत्तव
कङ्कपत्रा
दुरासदा
राघवविप्रमुक्ताः ।
भित्त्वा
शरीरं
प्रविशन्ति
बाणाः
प्रहस्त
तेनैव
विकत्थसे
त्वम् ॥ १४ ॥
न
रावणो
नातिबलस्त्रिशीर्षो
न
कुम्भकर्णोऽस्य
सुतो
निकुम्भः ।
न
चेन्द्रजिद्दाशरथिं
प्रसोढुं
त्वं
वा
रणे
शक्रसमं
समर्थाः ॥ १५ ॥
देवान्तको
वापि
नरान्तको
वा
तथातिकायोऽतिरथो
महात्मा ।
अकम्पनश्चाद्रिसमानसारः
स्थातुं
न
शक्ता
युधि
राघवस्य ॥ १६ ॥
अयं
हि
राजा
व्यसनाभिभूतो
मित्रैरमित्रप्रतिमैर्भवद्भिः ।
अन्वास्यते
राक्षसनाशनार्थे
तीक्ष्णः
प्रकृत्या
ह्यसमीक्ष्यकारी ॥ १७ ॥
अनन्तभोगेन
सहस्रमूर्ध्ना
नागेन
भीमेन
महाबलेन ।
बलात्परिक्षिप्तमिमं
भवन्तो
राजानमुत्क्षिप्य
विमोचयन्तु ॥ १८ ॥
यावद्धि
केशग्रहणात्
सुहृद्भिः
समेत्य
सर्वैः
परिपूर्णकामैः ।
निगृह्य
राजा
परिरक्षितव्यो
भृतैर्यथा
भीमबलैर्गृहीतः ॥ १९ ॥
संहारिणा
राघवसागरेण
प्रच्छाद्यमानस्तरसा
भवद्भिः ।
युक्तस्त्वयं
तारयितुं
समेत्य
काकुत्स्थपातालमुखे
पतन्
सः ॥ २० ॥
इदं
पुरस्यास्य
सराक्षसस्य
राज्ञश्च
पथ्यं
ससुहृज्जनस्य ।
सम्यग्घि
वाक्यं
स्वमतं
ब्रवीमि
नरैन्द्रपुत्राय
ददाम
पत्नीम् ॥ २१ ॥
परस्य
वीर्यं
स्वबलं
च
बुद्ध्वा
स्थानं
क्षयं
चैव
तथैव
वृद्धिम् ।
तथा
स्वपक्षेऽप्यनुमृश्य
बुद्ध्या
वदेत्
क्षमं
स्वामिहितं
च
मन्त्री ॥ २२ ॥