इत्युक्त्वा
परुषं
वाक्यं
रावणं
रावणानुजः ।
आजगाम
महूर्तेन
यत्र
रामः
सलक्ष्मणः ॥ १ ॥
तं
मेरुशिखराकारं
दीप्तामिव
शतह्रदाम् ।
गगनस्थं
महीस्थास्ते
ददृशुर्वानराधिपाः ॥ २ ॥
तमात्मपञ्चमं
दृष्ट्वा
सुग्रीवो
वानराधिपः ।
वानरैः
सह
दुर्द्धर्षश्चिन्तयामास
बुद्धिमान् ॥ ३ ॥
चिन्तयित्वा
मुहूर्तं
तु
वानरांस्तानुवाच
ह ।
हनुमत्प्रमुखान्
सर्वानिदं
वचनमुत्तमम् ॥ ४ ॥
एष
सर्वायुधोपेतश्चतुर्भिः
सह
राक्षसैः ।
राक्षसोऽभ्येति
पश्यध्वमस्मान्
हन्तुं
न
संशयः ॥ ५ ॥
सुग्रीवस्य
वचः
श्रुत्वा
सर्वे
ते
वानरोत्तमाः ।
सालानुद्यम्य
शैलांश्च
इदं
वचनमब्रुवन् ॥ ६ ॥
शीघ्रं
व्यादिश
नो
राजन्
वधायैषां
दुरात्मनाम् ।
निपतन्तु
हताश्चैते
धरण्यामल्पतेजसः ॥ ७ ॥
तेषां
सम्भाषमाणानामन्योन्यं
स
विभीषणः ।
उत्तरं
तीरमासाद्य
खस्थ
एव
व्यतिष्ठत ॥ ८ ॥
उवाच
च
महाप्राज्ञः
स्वरेण
महता
महान् ।
सुग्रीवं
तांश्च
सम्प्रेक्ष्य
सर्वान्
वानरयूथपान् ॥ ९ ॥
रावणो
नाम
दुर्वृत्तो
राक्षसो
राक्षसेश्वरः ।
तस्याहमनुजो
भ्राता
विभीषण
इति
श्रुतः ॥ १० ॥
तेन
सीता
जनस्थानाद्धृता
हत्वा
जटायुषम् ।
रुद्धा
च
विवशा
दीना
राक्षसीभिः
सुरक्षिता ॥ ११ ॥
तमहं
हेतुभिर्वाक्यैर्विविधैश्च
न्यदर्शयम् ।
साधु
निर्यात्यतां
सीता
रामायेति
पुनःपुनः ॥ १२ ॥
स
च
न
प्रतिजग्राह
रावणः
कालचोदितः ।
उच्यमानं
हितं
वाक्यं
विपरीत
इवौषधम् ॥ १३ ॥
सोऽहं
परुषितस्तेन
दासवच्चावमानितः ।
त्यक्त्वा
पुत्रांश्च
दारांश्च
राघवं
शरणं
गतः ॥ १४ ॥
सर्वलोकशरण्याय
राघवाय
महात्मने ।
निवेदयत
मां
क्षिप्रं
विभीषणमुपस्थितम् ॥ १५ ॥
एतत्तु
वचनं
श्रुत्वा
सुग्रीवो
लघुविक्रमः ।
लक्ष्मणस्याग्रतो
रामं
संरब्धमिदमब्रवीत् ॥ १६ ॥
रावणस्यानुजो
भ्राता
विभीषण
इति
श्रुतः ।
चतुर्भिः
सह
रक्षोभिर्भवन्तं
शरणं
गतः ॥ १७ ॥
मन्त्रे
व्यूहे
नये
चारे
युक्तो
भवितुमर्हसि ।
वानराणां
च
भद्रन्ते
परेषां
च
परन्तप ॥ १८ ॥
अन्तर्धानगता
ह्येते
राक्षसाः
कामरूपिणः ।
शूराश्च
निकृतिज्ञाश्च
तेषु
जातु
न
विश्वसेत् ॥ १९ ॥
प्रणिधी
राक्षसेन्द्रस्य
रावणस्य
भवेदयम् ।
अनुप्रविश्य
सोऽस्मासु
भेदं
कुर्यान्न
संशयः ॥ २० ॥
अथवा
स्वयमेवैष
छिद्रमासाद्य
बुद्धिमान् ।
अनुप्रविस्य
विश्वस्ते
कदाचित्
प्रहरेदपि ॥ २१ ॥
मित्राटवीबलं
चैव
मौलं
भृत्यबलं
तथा ।
सर्वमेतद्बलं
ग्राह्यं
वर्जयित्वा
द्विषद्बलम् ॥ २२ ॥
प्रकृत्या
राक्षसेन्द्रस्य
भ्राताऽमित्रस्य
ते
प्रभो ।
आगतश्च
रिपोः
पक्षात्
कथमस्मिन्
हि
विश्वसेत् ॥ २३ ॥
रावणेन
प्रणिहितं
तमवेहि
विभीषणम् ।
तस्याहं
निग्रहं
मन्ये
क्षमं
क्षमवतां
वर ॥ २४ ॥
राक्षसो
जिह्मया
बुद्ध्या
सन्दिष्टोऽयमुपागतः ।
प्रहर्तुं
मायया
च्छन्नो
विश्वस्ते
त्वयि
राघव ॥ २५ ॥
प्रविष्टः
शत्रुसैन्यं
हि
प्राज्ञः
शत्रुरतर्कितः ।
निहन्यादन्तरं
लब्ध्वा
उलूक
इव
वायसान् ॥ २६ ॥
वध्यतामेष
दण्डेन
तीव्रेण
सचिवैः
सह ।
रावणस्य
नृशंसस्य
भ्राता
ह्येष
विभीषणः ॥ २७ ॥
एवमुक्त्वा
तु
तं
रामं
संरब्धो
वाहिनीपतिः ।
वाक्यज्ञो
वाक्यकुशलं
ततो
मौनमुपागमत् ॥ २८ ॥
सुग्रीवस्य
तु
तद्वाक्यं
श्रुत्वा
रामो
महायशाः ।
समीपस्थानुवाचेदं
हनुमत्प्रमुखान्
हरीन् ॥ २९ ॥
यदुक्तं
कपिराजेन
रावणावरजं
प्रति ।
वाक्यं
हेतुमदर्थ्यं
च
भवद्भिरपि
तच्छ्रुतम् ॥ ३० ॥
सुहृदा
ह्यर्थकृच्छ्रेषु
युक्तं
बुद्धिमता
सता ।
समर्थेनापि
सन्देष्टुं
शाश्वतीं
भूतिमिच्छता ॥ ३१ ॥
इत्येवं
परिपृष्टास्ते
स्वं
स्वं
मतमतन्द्रिताः ।
सोपचारं
तदा
राममूचुर्हितचिकीर्षवः ॥ ३२ ॥
अज्ञातं
नास्ति
ते
किञ्चित्
त्रिषु
लोकेषु
राघव ।
आत्मानं
सूचयन्
जानन्
पृच्छस्यस्मान्
सुहृत्तया ॥ ३३ ॥
त्वं
हि
सत्यव्रतः
शूरो
धार्मिको
दृढविक्रमः ।
परीक्ष्यकारी
स्मृतिमान्
निसृष्टात्मा
सुहृत्सु
च ॥ ३४ ॥
तस्मादेकैकशस्तावत्
ब्रुवन्तु
सचिवास्तव ।
हेतुतो
मतिसम्पन्नाः
समर्थाश्च
पुनःपुनः ॥ ३५ ॥
इत्युक्ते
राघवायाथ
मतिमानङ्गदोऽग्रतः ।
विभीषणपरीक्षार्थमुवाच
वचनं
हरिः ॥ ३६ ॥
शत्रोः
सकाशात्
सम्प्राप्तः
सर्वथा
शङ्क्य
एव
हि ।
विश्वासयोग्यः
सहसा
न
कर्तव्यो
विभीषणः ॥ ३७ ॥
छादयित्वाऽऽत्मभावं
हि
चरन्ति
शठबुद्धयः ।
प्रहरन्ति
च
रन्ध्रेषु
सोऽनर्थः
सुमहान्
भवेत् ॥ ३८ ॥
अर्थानर्थौ
विनिश्चित्य
व्यवसायं
भजेत
ह ।
गुणतः
सङ्ग्रहं
कुर्याद्दोषतस्तु
विवर्जयेत् ॥ ३९ ॥
यदि
दोषो
महांस्तस्मिंस्त्यज्यतामविशङ्कितम् ।
गुणान्
वपि
बहून्
ज्ञात्वा
सङ्ग्रहः
क्रियतां
नृप ॥ ४० ॥
शरभस्त्वथ
निश्चित्य
साद्ध्यं
वचनमब्रवीत् ।
क्षिप्रमस्मिन्नरव्याघ्र
चारः
प्रतिविधीयताम् ॥ ४१ ॥
प्रणिधाय
हि
चारेण
यथावत्
सूक्ष्मबुद्धिना ।
परीक्ष्य
च
ततः
कार्यो
यथान्याय्यं
परिग्रहः ॥ ४२ ॥
जाम्बवांस्त्वथ
सम्प्रेक्ष्य
शास्त्रबुद्ध्या
विचक्षणः ।
वाक्यं
विज्ञापयामास
गुणवद्दोषवर्जितम् ॥ ४३ ॥
बद्धवैराच्च
पापाच्च
राक्षसेन्द्राद्
विभीषणः ।
अदेशकाले
सम्प्राप्तः
सर्वथा
शङ्क्यतामयम् ॥ ४४ ॥
ततो
मैन्दस्तु
सम्प्रेक्ष्य
नयापनयकोविदः ।
वाक्यं
वचनसम्पन्नो
बभाषे
हेतुमत्तरम् ॥ ४५ ॥
वचनं
नाम
तस्यैष
रावणस्य
विभीषणः ।
पृच्छ्यतां
मधुरेणायं
शनैर्नरवरेश्वर ॥ ४६ ॥
भावमस्य
तु
विज्ञाय
ततस्तत्त्वं
करिष्यसि ।
यदि
दुष्टो
न
दुष्टो
वा
बुद्धिपूर्वं
नरर्षभ ॥ ४७ ॥
अथ
संस्कारसम्पन्नो
हनूमान्
सचिवोत्तमः ।
उवाच
वचनं
श्लक्ष्णमर्थवन्मधुरं
लघु ॥ ४८ ॥
न
भवन्तं
मतिश्रेष्ठं
समर्थं
वदतां
वरम् ।
अतिशाययितुं
शक्तो
बृहस्पतिरपि
ब्रुवन् ॥ ४९ ॥
न
वादान्नापि
सङ्घर्षान्नाधिक्यान्न
च
कामतः ।
वक्ष्यामि
वचनं
राजन्
यथार्थं
राम
गौरवात् ॥ ५० ॥
अर्थानर्थनिमित्तं
हि
यदुक्तं
सचिवैस्तव ।
तत्र
दोषं
प्रपश्यामि
क्रिया
न
ह्युपपद्यते ॥ ५१ ॥
ऋते
नियोगात्
सामर्थ्यमवबोद्धुं
न
शक्यते ।
सहसा
विनियोगो
हि
दोषवान्
प्रति
भाति
मा ॥ ५२ ॥
चारप्रणिहितं
युक्तं
यदुक्तं
सचिवैस्तव ।
अर्थस्यासम्भवात्तत्र
कारणं
नोपपद्यते ॥ ५३ ॥
विविक्षा
तत्र
मेऽस्तीयं
तां
निबोध
यथामति ।
स
एष
देशः
कालश्च
भवतीति
यथातथा ॥ ५४ ॥
दौरात्म्यं
रावणे
दृष्ट्वा
विक्रमं
च
तथा
त्वयि ।
युक्तमागमनं
तस्य
सदृशं
तस्य
बुद्धितः ॥ ५५ ॥
अज्ञातरूपैः
पुरुषैः
स
राजन्
पृच्छ्यतामिति ।
यदुक्तमत्र
मे
प्रेक्षा
काचिदस्ति
समीक्षिता ॥ ५६ ॥
पृच्छ्यमानो
विशङ्केत
सहसा
बुद्धिमान्
वचः ।
तत्र
मित्रं
प्रदुष्येत
मिथ्या
पृष्टं
सुखागतम् ॥ ५७ ॥
अशक्यः
सहसा
राजन्
भावो
वेत्तुं
परस्य
वै ।
अन्तःस्वभावैर्गीतैस्तैर्नैपुण्यं
पश्यता
भृशम् ॥ ५८ ॥
न
त्वस्य
ब्रुवतो
जातु
लक्ष्यते
दुष्टभावता ।
प्रसन्नं
वदनं
चापि
तस्मान्मे
नास्ति
संशयः ॥ ५९ ॥
अशङ्कितमतिः
स्वस्थो
न
शठः
परिसर्पति ।
न
चास्य
दुष्टा
वाक्चापि
तस्मान्नास्तीह
संशयः ॥ ६० ॥
आकारश्छाद्यमानोऽपि
न
शक्यो
विनिगूहितुम् ।
बलाद्धि
विवृणोत्येव
भावमन्तर्गतं
नृणाम् ॥ ६१ ॥
देशकालोपपन्नं
च
कार्यं
कार्यविदां
वर ।
स्वफलं
कुरुते
क्षिप्रं
प्रयोगेणाभिसंहितम् ॥ ६२ ॥
वालिनश्च
वधं
श्रुत्वा
सुग्रीवं
चाभिषेचितम् ।
राज्यं
प्रार्थयमानश्च
बुद्धिपूर्वमिहागतः ॥ ६३ ॥
यथाशक्ति
मयोक्तं
तु
राक्षसस्यार्जवं
प्रति ।
त्वं
प्रमाणं
तु
शेषस्य
श्रुत्वा
बुद्धिमतां
वर ॥ ६४ ॥