विभीषणो
महापाज्ञो
भूमिं
समवलोकयन् ।
खात्पपातावनीं
हृष्टो
भक्तैरनुचरैः
सह ॥ १ ॥
स
तु
रामस्य
धर्मात्मा
निपपात
विभीषणः ।
पादयोः
शरणान्वेषी
चतुर्भिः
सह
राक्षसैः ॥ २ ॥
अब्रवीच्च
तदा
रामं
वाक्यं
तत्र
विभीषणः ।
धर्मयुक्तं
च
युक्तं
च
साम्प्रतं
सम्प्रहर्षणम् ॥ ३ ॥
अनुजो
रावणस्याहं
तेन
चाप्यवमानितः ।
भवन्तं
सर्वभूतानां
शरण्यं
शरणागतः ॥ ४ ॥
परित्यक्ता
मया
लङ्का
मित्राणि
च
धनानि
वै ।
भवद्गतं
मे
राज्यं
च
जीवितं
च
सुखानि
च ॥ ५ ॥
तस्य
तद्वचनं
श्रुत्वा
रामो
वचनमब्रवीत् ।
वचसा
सान्त्वयित्वैनं
लोचनाभ्यां
पिबन्निव ॥ ६ ॥
आख्याहि
मम
तत्त्वेन
राक्षसानां
बलाबलम् ।
एवमुक्तस्तदा
रक्षो
रामेणाक्लिष्टकर्मणा ॥ ७ ॥
रावणस्य
बलं
सर्वमाख्यातुमुपचक्रमे ।
अवध्यः
सर्वभूतानां
गन्धर्वासुररक्षसाम् ॥ ८ ॥
राजपुत्र
दशग्रीवो
वरदानात्
स्वयम्भुवः ।
रावणानन्तरो
भ्राता
मम
ज्येष्ठश्च
वीर्यवान् ॥ ९ ॥
कुम्भकर्णो
महातेजाः
शक्रप्रतिबलो
युधि ।
राम
सेनापतिस्तस्य
प्रहस्तो
यदि
वा
श्रुतः ॥ १० ॥
कैलासे
येन
सङ्ग्रामे
मणिभद्रः
पराजितः ।
बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो
युधि ॥ ११ ॥
धनुरादाय
यस्तिष्ठन्नदृश्यो
भवतीन्द्रजित् ।
सङ्ग्रामसमयव्यूहे
तर्पयित्वा
हुताशनम् ॥ १२ ॥
अन्तर्धानगतः
शत्रूनिन्द्रजिद्धन्ति
राघव ।
महोदरमहापार्श्वौ
राक्षसश्चाप्यकम्पनः ॥ १३ ॥
अनीकस्थास्तु
तस्यैते
लोकपालसमा
युधि ।
दशकोटिसहस्राणि
राक्षसां
कामरूपिणाम् ॥ १४ ॥
मांसशोणितभक्षाणां
लङ्कापुरनिवासिनाम् ।
स
तैस्तु
सहितो
राजा
लोकपालानयोधयत् ॥ १५ ॥
सह
देवैस्तु
ते
भग्ना
रावणेन
महात्मना ।
विभीषणवचः
श्रुत्वा
रामो
दृढपराक्रमः ॥ १६ ॥
अन्वीक्ष्य
मनसा
सर्वमिदं
वचनमब्रवीत् ।
यानि
कर्मापदानानि
रावणस्य
विभीषण ॥ १७ ॥
आख्यातानि
च
तत्त्वेन
ह्यवगच्छामि
तान्यहम् ।
अहं
हत्वा
दशग्रीवं
सप्रहस्तं
सबान्धवम् ॥ १८ ॥
राजानं
त्वां
करिष्यामि
सत्यमेतद्
ब्रवीमि
ते ।
रसातलं
वा
प्रविशेत्
पातालं
वापि
रावणः ॥ १९ ॥
पितामहसकाशं
वा
न
मे
जीवन्
विमोक्ष्यते ।
अहत्वा
रावणं
सङ्ख्ये
सपुत्रबलबान्धवम् ॥ २० ॥
अयोध्यां
न
प्रवेक्ष्यामि
त्रिभिस्तैर्भ्रातृभिः
शपे ।
श्रुत्वा
तु
वचनं
तस्य
रामस्याक्लिष्टकर्मणः ॥ २१ ॥
शिरसाऽऽवन्द्य
धर्मात्मा
वक्तुमेवोपचक्रमे ।
राक्षसानां
वधे
साह्यं
लङ्कायाश्च
प्रधर्षणम् ॥ २२ ॥
करिष्यामि
यथाप्राणं
प्रवेक्ष्यामि
च
वाहिनीम् ।
इति
ब्रुवाणं
रामस्तु
परिष्वज्य
विभीषणम् ॥ २३ ॥
अब्रवील्लक्ष्णणं
प्रीतः
समुद्राज्जलमानय ।
तेन
चेमं
महाप्राज्ञमभिषिञ्च
विभीषणम् ॥ २४ ॥
राजानं
रक्षसां
क्षिप्रं
प्रसन्ने
मयि
मानद ।
एवमुक्तस्तु
सौमित्रिरभ्याषिञ्चद्विभीषणम् ॥ २५ ॥
मध्येवानरमुख्यानां
राजानं
राजशासनात् ।
तं
प्रसादं
तु
रामस्य
दृष्ट्वा
सद्यः
प्लवङ्गमाः ॥ २६ ॥
प्रचुक्रुशुर्महात्मानं
साधु
साध्विति
चाब्रुवन् ।
अब्रवीच्च
हनूमांश्च
सुग्रीवश्च
विभीषणम् ॥ २७ ॥
कथं
सागरमक्षोभ्यं
तराम
वरुणालयम् ।
सैन्यैः
परिवृताः
सर्वे
वानराणां
महौजसाम् ॥ २८ ॥
तराम
तरसा
सर्वे
ससैन्या
वरुणालयम् ।
एवमुक्तस्तु
धर्मज्ञः
प्रत्युवाच
विभीषणः ॥ २९ ॥
समुद्रं
राघवो
राजा
शरणं
गन्तुमर्हति ।
खानितः
सगरेणायमप्रमेयो
महोदधिः ॥ ३० ॥
कर्तुमर्हति
रामस्य
ज्ञात्वा
कार्यं
महामतिः ।
एवं
विभीषणेनोक्तो
राक्षसेन
विपश्चिता ॥ ३१ ॥
आजगामाथ
सुग्रीवो
यत्र
रामः
सलक्ष्मणः ।
ततश्चाख्यातुमारेभे
विभीषणवचः
शुभम् ॥ ३२ ॥
सुग्रीवो
विपुलग्रीवः
सागरस्योपवेशनम् ।
प्रकृत्या
धर्मशीलस्य
राघवस्याप्यरोचत ॥ ३३ ॥
स
लक्ष्मणं
महातेजाः
सुग्रीवं
च
हरीश्वरम् ।
सत्क्रियार्थं
क्रियादक्षः
स्मितपूर्वमुवाच
ह ॥ ३४ ॥
विभीषणस्य
मन्त्रोऽयं
मम
लक्ष्मण
रोचते ।
ब्रूहि
त्वं
सहसुग्रीवस्तवापि
यदि
रोचते ॥ ३५ ॥
सुग्रीवः
पण्डितो
नित्यं
भवान्
मन्त्रविचक्षणः ।
उभाभ्यां
सम्प्रधार्यार्थं
रोचते
यत्तदुच्यताम् ॥ ३६ ॥
एवमुक्तौ
तु
तौ
वीरावुभौ
सुग्रीवलक्ष्मणौ ।
समुदाचारसंयुक्तमिदं
वचनमूचतुः ॥ ३७ ॥
किमर्थं
नौ
नरव्याघ्र
न
रोचिष्यति
राघव ।
विभीषणेन
यच्चोक्तमस्मिन्
काले
सुखावहम् ॥ ३८ ॥
अबद्ध्वा
सागरे
सेतुं
घोरेऽस्मिन्
वरुणालये ।
लङ्का
नासादितुं
शक्या
सेन्द्रैरपि
सुरासुरैः ॥ ३९ ॥
अलं
कालात्ययं
कृत्वा
समुद्रोऽयं
नियुज्यताम् ।
यथा
सैन्येन
गच्छामः
पुरीं
रावणपालिताम् ॥ ४० ॥
एवमुक्तः
कुशास्तीर्णे
तीरे
नदनदीपतेः ।
संविवेश
तदा
रामो
वेद्यामिव
हुताशनः ॥ ४१ ॥