ततो
निविष्टां
ध्वजिनीं
सुग्रीवेणाभिपालिताम् ।
ददर्श
राक्षसोऽभ्येत्य
शार्दूलो
नाम
वीर्यवान् ॥ १ ॥
तां
दृष्ट्वा
सर्वतो
व्यग्रं
प्रतिगम्य
स
राक्षसः ।
प्रविश्य
लङ्कां
वेगेन
रावणं
वाक्यमब्रवीत् ॥ २ ॥
एष
वानरऋक्षौघो
लङ्कां
समभिवर्तते ।
अगाधश्चाप्रमेयश्च
द्वितीय
इव
सागरः ॥ ३ ॥
पुत्रौ
दशरथस्येमौ
भ्रातरौ
रामलक्ष्मणौ ।
उत्तमायुधसम्पन्नौ
सीतायाः
पदमागतौ ॥ ४ ॥
एतौ
सागरमासाद्य
सन्निविष्टौ
महाद्युती ।
बलमाकाशमावृत्य
सर्वतो
दशयोजनम् ॥ ५ ॥
तत्त्वभूतं
महाराज
क्षिप्रं
वेदितुमर्हसि ।
तव
दूता
महाराज
क्षिप्रमर्हन्त्यवेक्षितुम् ॥ ६ ॥
उपप्रदानं
सान्त्वं
वा
भेदो
वाऽत्र
प्रयुज्यताम् ।
उवाच
सहसा
व्यग्रः
सम्प्रधार्यार्थमात्मनः ॥ ७ ॥
शुकं
नाम
तदा
रक्षो
वाक्यमर्थविदां
वरम् ।
सुग्रीवं
ब्रूहि
गत्वा
त्वं
राजानं
वचनान्मम ॥ ८ ॥
यथासन्देशमक्लीबं
श्लक्ष्णया
परया
गिरा ।
त्वं
वै
महाराजकुलप्रसूतो
महाबलश्चर्क्षरजस्सुतश्च ॥ ९ ॥
न
कश्चिदर्थस्तव
नास्त्यनर्थस्तथा
हि
मे
भ्रातृसमो
हरीश ।
अहं
यद्यहरं
भार्यां
राजपुत्रस्य
धीमतः ॥ १० ॥
किं
तत्र
तव
सुग्रीव
किष्किन्धां
प्रति
गम्यताम् ।
न
हीयं
हरिभिर्लङ्का
शक्या
प्राप्तुं
कथञ्चन ॥ ११ ॥
देवैरपि
सगन्धर्वैः
किं
पुनर्नरवानरैः ।
स
तथा
राक्षसेन्द्रेण
सन्दिष्टो
रजनीचरः ॥ १२ ॥
शुको
विहङ्गमो
भूत्वा
तूर्णमाप्लुत्य
चाम्बरम् ।
संस्थितो
ह्यम्बरे
वाक्यं
सुग्रीवमिदमब्रवीत् ॥ १३ ॥
सर्वमुक्तं
यथादिष्टं
रावणेन
दुरात्मना ।
तं
प्रापयन्तं
वचनं
तूर्णमाप्लुत्य
वानराः ॥ १४ ॥
प्रापद्यन्त
दिवं
क्षिप्रं
लोप्तुं
हन्तुं
च
मुष्टिभिः ।
स
तैः
प्लवङ्गैः
प्रसभं
निगृहीतो
निशाचरः ॥ १५ ॥
गगनाद्भूतले
चाशु
परिगृह्य
निपातितः ।
वानरैः
पीड्यमानस्तु
शुको
वचनमब्रवीत् ॥ १६ ॥
न
दूतान्
घ्रन्ति
काकुत्स्थ
वार्यन्तां
साधु
वानराः ।
यस्तु
हित्वा
मतं
भर्तुः
स्वमतं
सम्प्रभाषते ॥ १७ ॥
अनुक्तवादी
दूतः
सन्
स
दूतो
वधमर्हति ।
शुकस्य
वचनं
श्रुत्वा
रामस्तु
परिदेवितम् ॥ १८ ॥
उवाच
मा
वधिष्ठेति
घ्नतः
शाखामृगर्षभान् ।
स
च
पत्रलघुर्भूत्वा
हरिभिर्दर्शिते
भये ॥ १९ ॥
अन्तरिक्षस्थितो
भूत्वा
पुनर्वचनमब्रवीत् ।
सुग्रीव
सत्त्वसम्पन्न
महाबलपराक्रम ॥ २० ॥
किं
मया
खलु
वक्तव्यो
रावणो
लोकरावणः ।
स
एवमुक्तः
प्लवगाधिपस्तदा
प्लवङ्गमानामृषभो
महाबलः ॥ २१ ॥
उवाच
वाक्यं
रजनीचरस्य
चारं
शुकं
तूर्णमदीनसत्त्वः ।
न
मेऽसि
मित्रं
न
तथाऽनुकम्प्यो
न
चोपकर्ताऽसि
न
मे
प्रियोऽसि ॥ २२ ॥
अरिश्च
रामस्य
सहानुबन्धः
स
मेऽसि
वालीव
वधार्ह
वध्यः ।
निहन्म्यहं
त्वां
ससुतं
सबन्धुं
सज्ञातिवर्गं
रजनीचरेश ॥ २३ ॥
लङ्कां
च
सर्वां
महता
बलेन
क्षिप्रं
करिष्यामि
समेत्य
भस्म ।
अन्तर्हितः
सूर्यपथं
गतो
वा
तथैव
पातालमनुप्रविष्टः ॥ २४ ॥
तस्य
ते
त्रिष्टु
लोकेषु
न
पिशाचं
न
राक्षसम् ।
त्रातारमनुपश्यामि
न
गन्धर्वं
न
चासुरम् ॥ २५ ॥
अवधीर्यज्जरावृद्धमक्षम
किं
जटायुषम् ।
किं
नु
ते
रामसान्निध्ये
सकाशे
लक्ष्मणस्य
वा ॥ २६ ॥
हृता
सीता
विशालाक्षी
यां
त्वं
गृह्य
न
बुद्ध्यसे ।
महाबलं
महात्मानं
दुर्द्धर्षममरैरपि ॥ २७ ॥
न
बुद्ध्यसे
रघुश्रेष्ठं
यस्ते
प्राणान्
हरिष्यति ।
ततोऽब्रवीद्वालिसुतस्त्वङ्गदो
हरिसत्तमः ॥ २८ ॥
तुलितं
हि
बलं
सर्वमनेनात्रैव
तिष्ठता ।
गृह्यतां
मा
गमल्लङ्कामेतद्धि
मम
रोचते ॥ २९ ॥
ततो
राज्ञा
समादिष्टाः
समुत्प्लुत्य
वलीमुखाः ।
जगृहुश्च
बबन्धुश्च
विलपन्तमनाथवत् ॥ ३० ॥
व्याक्रोशत
महात्मानं
रामं
दशरथात्मजम् ।
लुप्येते
मे
बलात्पक्षौ
भिद्येते
च
तथाऽक्षिणी ॥ ३१ ॥
एतस्मिन्नन्तरे
काले
यन्मया
ह्यशुभं
कृतम् ।
सर्वं
तदुपपद्येथा
जह्यां
चेद्यदि
जीवितम् ॥ ३२ ॥
नाघातयत्तदा
रामः
श्रुत्वा
तत्परिदेवनम् ।
वानरानब्रवीद्रामो
मुच्यतां
दूत
आगतः ॥ ३३ ॥