अञ्जलिं
प्राङ्मुखः
कृत्वा
प्रतिशिश्ये
महोदधेः ।
बाहुं
भुजगभोगाभमुपधायारिसूदनः ॥ १ ॥
जातरूपमयैश्चैव
भूषणैर्भूषितं
पुरा ।
वरकाञ्चनकेयूरमुक्ताप्रवरभूषणैः ॥ २ ॥
भुजैः
परमनारीणामभिमृष्टमनेकधा ।
चन्दनागरुभिश्चैव
पुरस्तादधिवासितम् ॥ ३ ॥
बालसूर्यप्रतीकाशैश्चन्दनैरुपशोभितम् ।
शयने
चोत्तमाङ्गेन
सीतायाः
शोभितं
पुरा ॥ ४ ॥
तक्षकस्येव
सम्भोगं
गङ्गाजलनिषेवितम् ।
संयुगे
युगसङ्काशं
शत्रूणां
शोकवर्द्धनम् ॥ ५ ॥
सुहृदानन्दनं
दीर्घं
सागरान्तव्यपाश्रयम् ।
अस्यता
च
पुनः
सव्यं
ज्याघातविगतत्वचम् ॥ ६ ॥
दक्षिणो
दक्षिणं
बाहुं
महापरिघसन्निभम् ।
गोसहस्रप्रदातारमुपधाय
महद्भुजम् ॥ ७ ॥
अद्य
मे
मरणं
वाऽथ
तरणं
सागरस्य
वा ।
इति
रामो
मतिं
कृत्वा
महाबाहुर्महोदधिम् ॥ ८ ॥
अधिशिश्ये
स
विधिवत्
प्रयतो
नियतो
मुनिः ।
तस्य
रामस्य
सुप्तस्य
कुशास्तीर्णे
महीतले ॥ ९ ॥
नियमादप्रमत्तस्य
निशास्तिस्रोऽतिचक्रमुः ।
स
त्रिरात्रोषितस्तत्र
नयज्ञो
धर्मवत्सलः ॥ १० ॥
उपासत
तदा
रामः
सागरं
सरितां
पतिम् ।
न
च
दर्शयते
मन्दस्तदा
रामस्य
सागरः ॥ ११ ॥
प्रयतेनापि
रामेण
यथार्हमभिपूजितः ।
समुद्रस्य
ततः
क्रुद्धो
रामो
रक्तान्तलोचनः ॥ १२ ॥
समीपस्थमुवाचेदं
लक्ष्मणं
शुभलक्षणम् ।
अवलेपः
समुद्रस्य
न
दर्शयति
यत्स्वयम् ॥ १३ ॥
प्रशमश्च
क्षमा
चैव
आर्जवं
प्रियवादिता ।
असामर्थ्यं
फलन्त्येते
निर्गुणेषु
सतां
गुणाः ॥ १४ ॥
आत्मप्रशंसिनं
दुष्टं
धृष्टं
विपरिधावकम् ।
सर्वत्रोत्सृष्टदण्डं
च
लोकः
सत्कुरुते
नरम् ॥ १५ ॥
न
साम्ना
शक्यते
कीर्तिर्न
साम्ना
शक्यते
यशः ।
प्राप्तुं
लक्ष्मण
लोकेऽस्मिन्
जयो
वा
रणमूर्द्धनि ॥ १६ ॥
अद्य
मद्बाणनिर्भिन्नैर्मकरैर्मकरालयम् ।
निरुद्धतोयं
सौमित्रे
प्लवद्भिः
पश्य
सर्वतः ॥ १७ ॥
महाभोगानि
मत्स्यानां
करिणां
च
करानिह ।
भोगिनां
पश्य
नागानां
मया
छिन्नानि
लक्ष्मण ॥ १८ ॥
सशङ्खशुक्तिकाजालं
समीनमकरं
शरैः ।
अद्य
युद्धेन
महता
समुद्रं
परिशोषये ॥ १९ ॥
क्षमया
हि
समायुक्तं
मामयं
मकरालयः ।
असमर्थं
विजानाति
धिक्
क्षमामीदृशे
जने ॥ २० ॥
न
दर्शयति
साम्ना
मे
सागरो
रूपमात्मनः ।
चापमानय
सौमित्रे
शरांश्चाशीविषोपमान् ॥ २१ ॥
सागरं
शोषयिष्यामि
पद्भ्यां
यान्तु
प्लवङ्गमाः ।
अद्याक्षोभ्यमपि
क्रुद्धः
क्षोभयिष्यामि
सागरम् ॥ २२ ॥
वेलासु
कृतमर्यादं
सहसोर्मिसमाकुलम् ।
निर्मर्यादं
करिष्यामि
सायकैर्वरुणालयम् ॥ २३ ॥
महार्णवं
क्षोभयिष्ये
महादानवसङ्कुलम् ।
एवमुक्त्वा
धनुष्पाणिः
क्रोधविस्फारितेक्षणः ॥ २४ ॥
बभूव
रामो
दुर्द्धर्षो
युगान्ताग्निरिव
ज्वलन् ।
सम्पीड्य
च
धनुर्घोरं
कम्पयित्वा
शरैर्जगत् ॥ २५ ॥
मुमोच
विशिखानुग्रान्
वज्रानिव
शतक्रतुः ।
ते
ज्वलन्तो
महावेगास्तेजसा
सायकोत्तमाः ॥ २६ ॥
प्रविशन्ति
समुद्रस्य
सलिलं
त्रस्तपन्नगम् ।
तोयवेगः
समुद्रस्य
सनक्रमकरो
महान् ॥ २७ ॥
सम्बभूव
महाघोरः
समारुतरवस्तदा ।
महोर्मिमालाविततः
शङ्खशुक्तिसमावृतः ॥ २८ ॥
सधूमपरिवृत्तोर्मिः
सहसाऽऽसीन्महोदधिः ।
व्यथिताः
पन्नगाश्चासन्
दीप्तास्या
दीप्तलोचनाः ॥ २९ ॥
दानवाश्च
महावीर्याः
पातालतलवासिनः ।
ऊर्मयः
सिन्धुराजस्य
सनक्रमकरास्तदा ॥ ३० ॥
बिन्ध्यमन्दरसङ्काशाः
समुत्पेतुः
सहस्रशः ।
आघूर्णिततरङ्गौघः
सम्भ्रान्तोरगराक्षसः ॥ ३१ ॥
उद्वर्तितमहाग्राहः
संवृत्तः
सलिलाशयः ।
ततस्तु
तं
राघवमुग्रवेगं
प्रकर्षमाणं
धनुरप्रमेयम् ॥ ३२ ॥
सौमित्रिरुत्पत्य
समुच्छ्वसन्तं
मा
मेति
चोक्त्वा
धनुराललम्बे ॥ ३३ ॥