अथोवाच
रघुश्रेष्ठः
सागरं
दारुणं
वचः ।
अद्य
त्वां
शोषयिष्यामि
सपातालं
महार्णव ॥ १ ॥
शरनिर्दग्धतोयस्य
परिशुष्कस्य
सागर ।
मया
शोषितसत्त्वस्य
पांसुरुत्पद्यते
महान् ॥ २ ॥
मत्कार्मुकविसृष्टेन
शरवर्षेण
सागर ।
पारं
तेऽद्य
गमिष्यन्ति
पद्भिरेव
प्लवङ्गमाः ॥ ३ ॥
विचिन्वन्नाभिजानासि
पौरुषं
वापि
विक्रमम् ।
दानवालय
सन्तापं
मत्तो
नाधिगमिष्यसि ॥ ४ ॥
ब्राह्मेणस्त्रेण
संयोज्य
ब्रह्मदण्डनिभं
शरम् ।
संयोज्य
धनुषि
श्रेष्ठे
विचकर्ष
महाबलः ॥ ५ ॥
तस्मिन्
विकृष्टे
सहसा
राघवेण
शरासने ।
रोदसी
सम्पफालेव
पर्वताश्च
चकम्पिरे ॥ ६ ॥
तमश्च
लोकमावव्रे
दिशश्च
न
चकाशिरे ।
परिचुक्षुभिरे
चाशु
सरांसि
सरितस्तथा ॥ ७ ॥
तिर्यक्
च
सह
नक्षत्रैः
सङ्गतौ
चन्द्रभास्करौ ।
भास्करांशुभिरादीप्तं
तमसा
च
समावृतम् ॥ ८ ॥
प्रचकाशे
तदाऽऽकाशमुल्काशतविदीपितम् ।
अन्तरिक्षाच्च
निर्घाता
निर्जग्मुरतुलस्वनाः ॥ ९ ॥
पुस्फुरुश्च
घना
दिव्या
दिवि
मारुतपङ्क्तयः ।
बभञ्ज
च
तदा
वृक्षान्
जलदानुद्वहन्नपि ॥ १० ॥
अरुजंश्चैव
शेलाग्रान्
शिखराणि
प्रभञ्जनः ।
दिविस्पृशो
महामेघाः
सङ्गताः
समहास्वनाः ॥ ११ ॥
मुमुचुर्वैद्युतानग्नींस्ते
महाशनयस्तदा ।
यानि
भूतानि
दृश्यानि
चुक्रुशुश्चाशनेः
समम् ॥ १२ ॥
अदृश्यानि
च
भूतानि
ममुचुर्भैरवस्वनम् ।
शिश्यिरे
चापि
भूतानि
सन्त्रस्तान्युद्विजन्ति
च ॥ १३ ॥
सम्प्रविव्यथिरे
चापि
न
च
पस्पन्दिरे
भयात् ।
सह
भूतैः
सतोयोर्मिः
सनागः
सह
राक्षसः ॥ १४ ॥
सहसाऽभूत्ततो
वेगाद्भीमवेगो
महोदधिः ।
तं
तदा
समतिक्रान्तं
नातिचक्राम
राघवः ॥ १५ ॥
समुद्धतममित्रघ्नो
रामो
नदनदीपतिम् ।
ततो
मध्यात्
समुद्रस्य
सागरः
स्वयमुत्थितः ॥ १६ ॥
उदयन्
हि
महाशैलान्मेरोरिव
दिवाकरः ।
पन्नगैः
सह
दीप्तास्यैः
समुद्रः
प्रत्यदृश्यत ॥ १७ ॥
स्निग्धवैडूर्यसङ्काशो
जाम्बूनदविभूषितः ।
रक्तमाल्याम्बरधरः
पद्मपत्रनिभेक्षणः ॥ १८ ॥
सर्वपुष्पमयीं
दिव्यां
शिरसा
धारयन्
स्रजम् ।
जातरूपमयैश्चैव
तपनीयविभूषितैः ॥ १९ ॥
आत्मजानां
च
रत्नानां
भूषितो
भूषणोत्तमैः ।
धातुभिर्मण्डितः
शैलो
विविधैर्हिमवानिव ॥ २० ॥
एकावलीमध्यगतं
तरलं
पाण्डरप्रभम् ।
विपुलेनोरसा
बिभ्रत्
कौस्तुभस्य
सहोदरम् ॥ २१ ॥
आघूर्णिततरङ्गौघः
कालिकानिलसङ्कुलः ।
सागरः
समुपक्रम्य
पूर्वमामन्त्र्य
वीर्यवान् ॥ २२ ॥
अब्रवीत्
प्राञ्जलिर्वाक्यं
राघवं
शरपाणिनम् ।
पृथिवी
वायुराकाशमापो
ज्योतिश्च
राघव ॥ २३ ॥
स्वभावे
सौम्य
तिष्ठन्ति
शाश्वतं
मार्गमाश्रिताः ।
तत्स्वभावो
ममाप्येष
यदगाधोऽहमप्लवः ॥ २४ ॥
विकारस्तु
भवेद्गाध
एतत्ते
प्रवदाम्यहम् ।
न
कामान्न
च
लोभाद्वा
न
भयात्
पार्थिवात्मज ॥ २५ ॥
ग्राहनक्राकुलजलं
स्तम्भयेयं
कथञ्चन ।
विधास्ये
राम
येनापि
विषहिष्ये
ह्यहं
तथा ॥ २६ ॥
ग्राहा
न
प्रहरिष्यन्ति
यावत्
सेना
तरिष्यति ।
हरीणां
तरणे
राम
करिष्यामि
यथा
स्थलम् ॥ २७ ॥
तमब्रवीत्तदा
राम
उद्यतो
हि
नदीपते ।
अमोधोऽयं
महाबाणः
कस्मिन्
देशे
निपात्यताम् ॥ २८ ॥
रामस्य
वचनं
श्रुत्वा
तं
च
दृष्ट्वा
महाशरम् ।
महोदधिर्महातेजा
राघवं
वाक्यमब्रवीत् ॥ २९ ॥
उत्तरेणावकाशोऽस्ति
कश्चित्
पुण्यतमो
मम ।
द्रुमकुल्य
इति
ख्यतो
लोके
ख्यातो
यथा
भवान् ॥ ३० ॥
उग्रदर्शनकर्माणो
बहवस्तत्र
दस्यवः ।
आभीरप्रमुखाः
पापाः
पिबन्ति
सलिलं
मम ॥ ३१ ॥
तैस्तु
संस्पर्शनं
प्राप्तैर्न
सहे
पापकर्मभिः ।
अमोघः
क्रियतां
राम
तत्र
तेषु
शरोत्तमः ॥ ३२ ॥
तस्य
तद्वचनं
श्रुत्वा
सागरस्य
स
राघवः ।
मुमोच
तं
शरं
दीप्तं
वीरः
सागरदर्शनात् ॥ ३३ ॥
तेन
तं
मरुकान्तारं
पृथिव्यां
खलु
विश्रुतम् ।
निपातितः
शरो
यत्र
दीप्ताशनिसमप्रभः ॥ ३४ ॥
ननाद
च
तदा
तत्र
वसुधा
शल्यपीडिता ।
तस्माद्व्रणमुखात्तोयमुत्पपात
रसातलात् ॥ ३५ ॥
स
बभूव
तदा
कूपो
व्रण
इत्यभिविश्रुतः ।
सततं
चोत्थितं
तोयं
समुद्रस्येव
दृश्यते ॥ ३६ ॥
अवदारणशब्दश्च
दारुणः
समपद्यत ।
तस्मात्तद्बाणपातेन
त्वपः
कुक्षिष्वशोषयत् ॥ ३७ ॥
विख्यातं
त्रिषु
लोकेषु
मरुकान्तरामेव
तत् ।
शोषयित्वा
ततः
कुक्षिं
रामो
दशरथात्मजः ॥ ३८ ॥
वरं
तस्मै
ददौ
विद्वान्
मरवेऽमरविक्रमः ।
पशव्यश्चाल्परोगश्च
फलमूलरसायुतः ॥ ३९ ॥
बहुस्नेहो
बहुक्षीरस्सुगन्धिर्विविधौषधः ।
एवमेतैर्गुणैर्युक्तो
बहुभिः
सततं
मरुः ॥ ४० ॥
रामस्य
वरदानाच्च
शिवः
पन्था
बभूव
ह ।
तस्मिन्
दग्धे
तदा
कुक्षौ
समुद्रः
सरितां
पतिः ॥ ४१ ॥
राघवं
सर्वशास्त्रज्ञमिदं
वचनमब्रवीत् ।
अयं
सौम्य
नलो
नाम
तनुजो
विश्वकर्मणः ॥ ४२ ॥
पित्रा
दत्तवरः
श्रीमान्
प्रतिमो
विश्वकर्मणा ।
एष
सेतुं
महोत्साहः
करोतु
मयि
वानरः ॥ ४३ ॥
तमहं
धारिष्यामि
तथा
ह्येष
यथा
पिता ।
एवमुक्त्वोदधिर्नष्टः
समुत्थाय
नलस्तदा ॥ ४४ ॥
अब्रवीद्वानरश्रेष्ठो
वाक्यं
रामं
महाबलः ।
अहं
सेतुं
करिष्यामि
विस्तीर्णे
वरुणालये ॥ ४५ ॥
पितुः
सामर्थ्यमास्थाय
तत्त्वमाह
महोदधिः ।
दण्ड
एव
वरो
लोके
पुरुषस्येति
मे
मतिः ॥ ४६ ॥
धिक्
क्षमामकृतज्ञेषु
सान्त्वं
दानमथापि
वा ।
अयं
हि
सागरो
भीमः
सेतुकर्मदिदृक्षया ॥ ४७ ॥
ददौ
दण्डभयाद्गाधं
राघवाय
महोदधिः ।
मम
मातुर्वरो
दत्तो
मन्दरे
विश्वकर्मणा ॥ ४८ ॥
औरसस्तस्य
पुत्रोऽहं
सदृशो
विश्वकर्मणा ।
स्मारितोऽस्म्यहमेतेन
तत्त्वमाह
महोदधिः ॥ ४९ ॥
न
चाप्यहमनुक्तो
वै
प्रब्रूयामात्मनो
गुणान् ।
समर्थश्चाप्यहं
सेतुं
कर्तुं
वै
वरुणालये ॥ ५० ॥
काममद्यैव
बध्नन्तु
सेतुं
वानरपुङ्गवाः ।
ततोऽतिसृष्टा
रामेण
सर्वतो
हरियूथपाः ॥ ५१ ॥
अबिपेतुर्महारण्यं
हृष्टाः
शतसहस्रशः ।
ते
नगान्नगसङ्काशाः
शाखामृगगणर्षभाः ॥ ५२ ॥
बभञ्जुर्वानरास्तत्र
प्रचकर्षुश्च
सागरम् ।
ते
सालैश्चाश्वकर्णैश्च
धवैर्वंशैश्च
वानराः ॥ ५३ ॥
कुटजैरर्जुनैस्तालैस्तिलकैस्तिमिशैरपि ।
बिल्वैश्च
सप्तपर्णैश्च
कर्णिकारैश्च
पुष्पितैः ॥ ५४ ॥
चूतैश्चाशोकवृक्षैश्च
सागरं
समपूरयन् ।
समूलांश्च
विमूलांश्च
पादपान्
हरिसत्तमाः ॥ ५५ ॥
इन्द्रकेतूनिवोद्यम्य
प्रजह्रुर्हरयस्तरून् ।
तालान्
दाडिमगुल्मांश्च
नारिकेलान्
विभीतकान् ॥ ५६ ॥
वकुलान्
खदिरान्निम्बान्
समाजह्रुः
समन्ततः ।
हस्तिमात्रान्
महाकायाः
पाषाणांश्च
महाबलाः ॥ ५७ ॥
पर्वतांश्च
समुत्पाट्य
यन्त्रैः
परिवहन्ति
च ।
प्रक्षिप्यमाणैरचलैः
सहसा
जलमुद्धतम् ॥ ५८ ॥
समुत्पतितमाकाशमुपासर्पत्ततस्ततः ।
समुद्रं
श्रोभयामासुर्वानराश्च
समन्ततः ॥ ५९ ॥
सूत्राण्यन्ये
प्रगृह्णन्ति
व्यायतं
शतयोजनम् ।
नलश्चक्रे
महासेतुं
मध्ये
नदनदीपतेः ॥ ६० ॥
स
तथा
क्रियते
सेतुर्वानरैर्घोरकर्मभिः ।
दण्डानन्ये
प्रगृह्णन्ति
विचिन्वन्ति
तथा
परे ॥ ६१ ॥
वानराः
शतशस्तत्र
रामस्याज्ञापुरस्सराः ।
मेघाभैः
पर्वताग्रैश्च
तृणैः
काष्ठैर्बबन्धिरे ॥ ६२ ॥
पुष्पिताग्रैश्च
तरुभिः
सेतुं
बध्नन्ति
वानराः ।
पाषाणांश्च
गिरिप्रख्यान्
गिरीणां
शिखराणि
च ॥ ६३ ॥
दृश्यन्ते
परिधावन्तो
गृह्यवारणसन्निभाः ।
शिलानां
क्षिप्यमाणानां
शैलानां
च
निपात्यताम् ॥ ६४ ॥
बभूव
तुमुलः
शब्दस्तदा
तस्मिन्
महोदधौ ।
कृतानि
प्रथमेनाह्ना
योजनानि
चतुर्दश ॥ ६५ ॥
प्रहृष्टैर्गजसङ्काशैस्त्वरमाणैः
प्लवङ्गमैः ।
द्वितीयेन
तथा
चाह्ना
योजनानि
तु
विंशतिः ॥ ६६ ॥
कृतानि
प्लवगैस्तूर्णं
भीमकायैर्महाबलैः ।
अह्ना
तृतीयेन
तथा
योजनानि
कृतानि
तु ॥ ६७ ॥
त्वरमाणैर्महाकायैरेकविंशतिरेव
च ।
चतुर्थेन
तथा
चाह्ना
द्वाविंशतिरथापि
च ॥ ६८ ॥
योजनानि
महावेगैः
कृतानि
त्वरितैस्तु
तैः ।
पञ्चमेन
तथा
चाह्ना
प्लवगैः
क्षिप्रकारिभिः ॥ ६९ ॥
योजनानि
त्रयोविंशत्सुवेलमधिकृत्य
वै ।
स
वानरवरः
श्रीमान्
विश्वकर्मात्मजो
बली ॥ ७० ॥
बबन्ध
सागरे
सेतुं
यथा
चास्य
पिता
तथा ।
स
नलेन
कृतः
सेतुः
सागरे
मकारालये ॥ ७१ ॥
शुशुभे
सुभगः
श्रीमान्
स्वातीपथ
इवाम्बरे ।
ततो
देवाः
सगन्धर्वाः
सिद्धाश्च
परमर्षयः ॥ ७२ ॥
आगम्य
गगने
तस्थुर्द्रष्टुकामास्तदद्भुतम् ।
दशयोजनविस्तीर्णं
शतयोजनमायतम् ॥ ७३ ॥
ददृशुर्देवगन्धर्वा
नलसेतुं
सुदुष्करम् ।
आप्लवन्तः
प्लवन्तश्च
गर्जन्तश्च
प्लवङ्गमाः ॥ ७४ ॥
तदचिन्त्यमसह्यं
च
अद्भुतं
रोमहर्षणम् ।
ददृशुः
सर्वभूतानि
सागरे
सेतुबन्धनम् ॥ ७५ ॥
तानि
कोटिसहस्राणि
वानराणां
महौजसाम् ।
बध्नन्तः
सागरे
सेतुं
जग्मुः
पारं
महोदधेः ॥ ७६ ॥
विशालः
सुकृतः
श्रीमान्
सुभूमिः
सुसमाहितः ।
अशोभत
महासेतुः
सीमन्त
इव
सागरे ॥ ७७ ॥
ततः
पारे
समुद्रस्य
गदापाणिर्विभीषणः ।
परेषामभिघातार्थमतिष्ठत्
सचिवैः
सह ॥ ७८ ॥
सुग्रीवस्तु
ततः
प्राह
रामं
सत्यपराक्रमम् ।
हनुमन्तं
त्वमारोह
अङ्गदं
चापि
लक्ष्मणः ॥ ७९ ॥
अयं
हि
विपुलो
वीर
सागरो
मकारालयः ।
वैहायसौ
युवामेतौ
वानरौ
तारयिष्यतः ॥ ८० ॥
अग्रतस्तस्य
सैन्यस्य
श्रीमान्
रामः
सलक्ष्मणः ।
जगाम
धन्वी
धर्मात्मा
सुग्रीवेण
समन्वितः ॥ ८१ ॥
अन्ये
मध्येन
गच्छन्ति
पार्श्वतोऽन्ये
प्लवङ्गमाः ।
सलिले
प्रपतन्त्यन्ये
मार्गमन्ये
न
लेभिरे ॥ ८२ ॥
केचिद्वैहायसगताः
सुपर्णा
इव
पुप्लुवुः ।
घोषेण
महता
तस्य
सिन्धोर्घोषं
समुच्छ्रितम् ॥ ८३ ॥
भीममन्तर्दधे
भीमा
तरन्ती
हरिवाहिनी ।
वानराणां
हि
सा
तीर्णा
वाहिनी
नलसेतुना ॥ ८४ ॥
तीरे
निविविशे
राज्ञो
बहुमूलफलोदके ।
तदद्भुतं
राघवकर्म
दुष्करं
समीक्ष्य
देवाः
सह
सिद्धचारणैः ॥ ८५ ॥
उपेत्य
रामं
सहसा
महर्षिभिः
समभ्यषिञ्चन्
सुशुभैर्जलैः
पृथक् ।
जय
स्वशत्रून्
नरदेव
मेदिनीं
ससागरां
पालय
शाश्वतीः
समाः ॥ ८६ ॥
इतीव
रामं
नरदेवसत्कृतं
शुभैर्वचोभिर्विविधैरपूजयन् ॥ ८७ ॥