तांस्तु
तेऽहं
प्रवक्ष्यामि
प्रेक्षमाणस्य
यूथपान् ।
राघवार्थे
पराक्रान्ता
ये
न
रक्षन्ति
जीवितम् ॥ १ ॥
स्निग्धा
यस्य
बहुव्यामा
वाला
लाङ्गूलमाश्रिताः ।
ताम्राः
पीताः
सिताः
श्वेताः
प्रकीर्णा
घोरकर्मणः ॥ २ ॥
प्रगृगीताः
प्रकाशन्ते
सूर्यस्येव
मरीचयः ।
पृथिव्यां
चानुकृष्यन्ते
हरो
नामैष
यूथपः ॥ ३ ॥
आकाङ्क्षते
त्वां
सङ्ग्रामे
जेतुं
परपुरञ्जय ।
नीलानिव
महामेघांस्तिष्ठतो
यांस्तु
पश्यसि ॥ ४ ॥
असिताञ्जनसङ्काशान्
युद्धे
सत्यपराक्रमान् ।
असङ्ख्येयाननिर्देश्यान्
परं
पारमिवोदधेः ॥ ५ ॥
पर्वतेषु
च
ये
केचिद्विषमेषु
नदीषु
च ।
एते
त्वामभिवर्तन्ते
राजन्नृक्षाः
सुदारुणाः ॥ ६ ॥
एषां
मध्ये
स्थितो
राजन्
भीमाक्षो
भीमदर्शनः ।
पर्जन्य
इव
जीमूतैः
समन्तात्
परिवारितः ॥ ७ ॥
ऋक्षवन्तं
गिरिश्रेष्ठमध्यास्ते
नर्मदां
पिबन् ।
सर्वर्क्षाणामधिपतिर्धूम्रो
नामैष
यूथपः ॥ ८ ॥
यवीयानस्य
तु
भ्राता
पश्यैनं
पर्वतोपमम् ।
भ्रात्रा
समानो
रूपेण
विशिष्टस्तु
पराक्रमैः ॥ ९ ॥
स
एष
जाम्बवान्नाम
महायूथपयूथपः ।
प्रक्रान्तो
गुरुवर्ती
च
सम्प्रहारेष्वमर्षणः ॥ १० ॥
एतेन
साह्यं
सुमहत्
कृतं
शक्रस्य
धीमता ।
दैवासुरे
जाम्बवता
लब्धाश्च
बहवो
वराः ॥ ११ ॥
आरुह्य
पर्वताग्रेभ्यो
महाभ्रविपुलाः
शिलाः ।
मुञ्चन्ति
विपुलाकारा
न
मृत्योरुद्विजन्ति
च ॥ १२ ॥
राक्षसानां
च
सदृशाः
पिशाचानां
च
लोमशाः ।
एतस्य
सैन्या
बहवो
विचरन्त्यग्नितेजसः ॥ १३ ॥
यं
त्वेनमिभिसंरब्धं
प्लवमानमिव
स्थितम् ।
प्रेक्षन्ते
वानराः
सर्वे
स्थिता
यूथपयूथपम् ॥ १४ ॥
एष
राजन्
सहस्राक्षं
पर्युपास्ते
हरीश्वरः ।
बलेन
बलसम्पन्नो
दम्भो
नामैष
यूथपः ॥ १५ ॥
यः
स्थितं
योजने
शैलं
गच्छन्
पार्श्वेन
सेवते ।
ऊर्ध्वं
तथैव
कायेन
गतः
प्राप्नोति
योजनम् ॥ १६ ॥
यस्मान्न
परमं
रूपं
चतुष्पादेषु
विद्यते ।
श्रुतः
सन्नादनो
नाम
वानराणां
पितामहः ॥ १७ ॥
येन
युद्धं
पुरा
दत्तं
रणे
शक्रस्य
धीमता ।
पराजयश्च
न
प्राप्तः
सोऽयं
यूथपयूथपः ॥ १८ ॥
यस्य
विक्रममाणस्य
शक्रस्येव
पराक्रमः ।
एष
गन्धर्वकन्यायामुत्पन्नः
कृष्णवर्त्मनः ॥ १९ ॥
तदा
दैवासुरे
युद्धे
साह्यार्थं
त्रिदिवौकसाम् ।
यस्य
वैश्रवणो
राजा
जम्बुमुपनिषेवते ॥ २० ॥
यो
राजा
पर्वतेन्द्राणां
बहुकिन्नरसेविनाम् ।
विहारसुखदो
नित्यं
भ्रातुस्ते
राक्षसाधिप ॥ २१ ॥
तत्रैष
वसति
श्रीमान्
बलवान्
वानरर्षभः ।
वृतः
कोटिसहस्रेण
हरीणां
समुपस्थितः ॥ २२ ॥
एषैवाशंसते
लङ्कां
स्वेनानीकेन
मर्दितुम् ।
यो
गङ्गामनु
पर्येति
त्रासयन्
हस्तियूथपान् ॥ २३ ॥
हस्तिनां
वानराणां
च
पूर्ववैरमनुस्मरन् ।
एष
यूथपतिर्नेता
गच्छन्
गिरिगुहाशयः ॥ २४ ॥
गजान्
योधयते
वन्यान्
गिरींश्चैव
महीरुहान् ।
हरीणां
वाहिनीमुख्यो
नदीं
हैमवतीमनु ॥ २५ ॥
उशीरबीजमाश्रित्य
पर्वतं
मन्दरोपमम् ।
रमते
वानरश्रेष्ठो
दिवि
शक्र
इव
स्वयम् ॥ २६ ॥
एनं
शतसहस्राणां
सहस्रमनुवर्तते ।
वीर्यविक्रमदृप्तानां
नर्दतां
बलशालिनाम् ॥ २७ ॥
स
एष
नेता
चैतेषां
वानराणां
महात्मनाम् ।
स
एष
दुर्धरो
राजन्
प्रमाथी
नाम
यूथपः ॥ २८ ॥
वातेनेवोद्धतं
मेघं
यमेनमनुपश्यसि ।
उद्धूतमरुणाभासं
पवनेन
समन्ततः ॥ २९ ॥
विवर्तमानं
बहुधा
यत्रैतद्बहुलं
रजः ।
एतेऽसितमुखा
घोरा
गोलाङ्गूला
महाबलाः ॥ ३० ॥
शतं
शतसहस्राणि
दृष्ट्वा
वै
सेतुबन्धनम् ।
गोलाङ्गूलं
महावेगं
गवाक्षं
नाम
यूथपम् ॥ ३१ ॥
परिवार्याभिवर्तन्ते
लङ्कां
मर्दितुमोजसा ।
भ्रमराचरिता
यत्र
सर्वकामफलद्रुमाः ॥ ३२ ॥
यं
सूर्यस्तुल्यवर्णाभमनु
पर्येति
पर्वतम् ।
यस्य
भासा
सदा
भान्ति
तद्वर्णा
मृगपक्षिणः ॥ ३३ ॥
यस्य
प्रस्थं
महात्मानो
न
त्यजन्ति
महर्षयः ।
सर्वकामफला
वृक्षाः
सदा
फलसमन्विताः ॥ ३४ ॥
मधूनि
च
महार्हाणि
यस्मिन्
पर्वतसत्तमे ।
तत्रैष
रमते
राजन्
रम्ये
काञ्चनपर्वते ॥ ३५ ॥
मुख्यो
वानरमुख्यानां
केसरी
नाम
यूथपः ।
षष्टिर्गिरिसहस्राणां
रम्याः
काञ्चनपर्वताः ॥ ३६ ॥
तेषां
मध्ये
गिरिवरस्त्वमिवानघ
रक्षसाम् ।
तत्रैते
कपिलाः
श्वेतास्ताम्रास्या
मधुपिङ्गलाः ॥ ३७ ॥
निवसन्त्युत्तमगिरौ
तीक्ष्णदंष्ट्रा
नखायुधाः ।
सिंहा
इव
चतुर्दंष्ट्रा
व्याघ्रा
इव
दुरासदाः ॥ ३८ ॥
सर्वे
वैश्वानरसमा
ज्वलिताशीविषोपमाः ।
सुदीर्घाञ्चितलाङ्गूला
मत्तमातङ्गसन्निभाः ॥ ३९ ॥
महापर्वतसङ्काशा
महाजीमूतनिस्वनाः ।
वृत्तपिङ्गलरक्ताक्षा
भीमभीमगतिस्वराः ॥ ४० ॥
मर्दयन्तीव
ते
सर्वे
तस्थुर्लङ्कां
समीक्ष्य
ते ।
एष
चैषामधिपतिर्मध्ये
तिष्ठति
वीर्यवान् ॥ ४१ ॥
जयार्थी
नित्यमादित्यमुपतिष्ठति
बुद्धिमान् ।
नाम्ना
पृथिव्यां
विख्यातो
राजन्
शतवलीति
यः ॥ ४२ ॥
एषैवाशंसते
लङ्कां
स्वेनानीकेन
मर्दितुम् ।
विक्रान्तो
बलवान्
शूरः
पौरुषे
स्वे
व्यवस्थितः ॥ ४३ ॥
रामप्रियार्थं
प्राणानां
दयां
न
कुरुते
हरिः ।
गजो
गवाक्षो
गवयो
नलो
नीलश्च
वानरः ॥ ४४ ॥
एकैक
एव
यूथानां
कोटीभिर्दशभिर्वृतः ।
तथाऽन्ये
वानरश्रेष्ठा
विन्ध्यपर्वतवासिनः ॥ ४५ ॥
न
शक्यन्ते
बहुत्वात्तु
सङ्ख्यातुं
लघुविक्रमाः ।
सर्वे
महाराज
महाप्रभावाः
सर्वे
महाशैलनिकाशकायाः ॥ ४६ ॥
सर्वे
समर्थाः
पृथिवीं
क्षणेन
कर्तुं
प्रविध्वस्तविकीर्णशैलाम् ॥ ४७ ॥