शुकेन
तु
समाख्यातांस्तान्
दृष्ट्वा
हरियूथपान् ।
समीपस्थं
च
रामस्य
भ्रातरं
स्वं
विभीषणम् ॥ १ ॥
लक्ष्मणं
च
महावीर्यं
भुजं
रामस्य
दक्षिणम् ।
सर्ववानरराजं
च
सुग्रीवं
भीमाविक्रमम् ॥ २ ॥
किञ्चिदाविग्नहृदयो
जातक्रोधश्च
रावणः ।
भर्त्सयामास
तौ
वीरौ
कथान्ते
शुकसारणौ ॥ ३ ॥
अधोमुखौ
तौ
प्रणतावब्रवीच्छुकसारणौ ।
रोषगद्गदया
वाचा
संरब्धः
परुषं
वचः ॥ ४ ॥
न
तावत्
सदृशं
नाम
सचिवैरुपजीविभिः ।
विप्रियं
नृपतेर्वक्तुं
निग्रहप्रग्रहे
प्रभोः ॥ ५ ॥
रिपूणां
प्रतिकूलानां
युद्धार्थमभिवर्तताम् ।
उभाभ्यां
सदृशं
नाम
वक्तुमप्रस्तवे
स्तवम् ॥ ६ ॥
सारं
यद्राजशास्त्राणामनुजीव्यं
न
गृह्यते ।
गृहीतो
वा
न
विज्ञातो
भारो
ज्ञानस्य
वोह्यते ॥ ७ ॥
ईदृशैः
सचिवैर्युक्तो
मूर्खैर्दिष्ट्या
धराम्यहम् ।
किन्नु
मृत्योर्भयं
नास्ति
वक्तुं
मां
परुषं
वचः ॥ ८ ॥
यस्य
मे
शासतो
जिह्वा
प्रयच्छति
शुभाशुभम् ।
अप्येव
दहनं
स्पृष्ट्वा
वने
तिष्ठन्ति
पादपाः ॥ ९ ॥
राजदोषपरामृष्टास्तिष्ठन्ते
नापराधिनः ।
हन्यामहं
त्विमौ
पापौ
शत्रुपक्ष
प्रशंसकौ ॥ १० ॥
यदि
पूर्वोपकारैस्तु
न
क्रोधो
मृदुतां
व्रजेत् ।
अपध्वंसत
गच्छध्वं
सन्निकर्षादितो
मम ॥ ११ ॥
नहि
वां
हन्तुमिच्छामि
स्मराम्युपकृतानि
वाम् ।
हतावेव
कृतघ्नौ
तौ
मयि
स्नेहपराङ्मुखौ ॥ १२ ॥
एवमुक्तौ
तु
सव्रीडौ
तावुभौ
शुकसारणौ ।
रावणं
जयशब्देन
प्रतिनन्द्याभिनिस्सृतौ ॥ १३ ॥
उपस्थापय
मे
शीघ्रं
चारान्नीतिविशारदान् ।
महोदरस्तथोक्तस्तु
शीघ्रमाज्ञापयच्चरान् ॥ १४ ॥
ततश्चाराः
सन्त्वरिताः
प्राप्ताः
पार्थिवशासनात् ।
उपस्थिताः
प्राञ्जलयो
वर्धयित्वा
जयाशिषा ॥ १५ ॥
तानब्रवीत्ततो
वाक्यं
रावणो
राक्षसाधिपः ।
चारान्
प्रत्यायितान्
शूरान्
भक्तान्
विगतसाध्वसान् ॥ १६ ॥
इतो
गच्छत
रामस्य
व्यवसायं
परीक्षथ ।
मन्त्रिष्वभ्यन्तरा
येऽस्य
प्रीत्या
तेन
समागताः ॥ १७ ॥
कथं
स्वपिति
जागर्ति
किमन्यच्च
करिष्यति ।
विज्ञाय
निपुणं
सर्वमागन्तव्यमशेषतः ॥ १८ ॥
चारेण
विदितः
शत्रुः
पण्डितैर्वसुधाधिपैः ।
युद्धे
स्वल्पेन
यत्नेन
समासाद्य
निरस्यते ॥ १९ ॥
चारास्तु
ते
तथेत्युक्त्वा
प्रहृष्टा
राक्षसेस्वरम् ।
शार्दूलमग्रतः
कृत्वा
ततश्चक्रुः
प्रदक्षिणम् ॥ २० ॥
ततस्ते
तं
महात्मानं
चारा
राक्षससत्तमम् ।
कृत्वा
प्रदक्षिणं
जग्मुर्यत्र
रामः
सलक्ष्मणः ॥ २१ ॥
ते
सुवेलस्य
शैलस्य
समीपे
रामलक्ष्मणौ ।
प्रच्छन्ना
ददृशुर्गत्वा
ससुग्रीवविभीषणौ ॥ २२ ॥
प्रेक्षमाणाश्चमूं
तां
च
बभूवुर्भयविक्लवाः ।
ते
तु
धर्मात्मना
दृष्टा
राक्षसेन्द्रेण
राक्षसाः ॥ २३ ॥
विभीषणेन
तत्रस्था
निगृहीता
यदृच्छया ।
शार्दूलो
ग्राहितस्त्वेकः
पापोऽयमिति
राक्षसः ॥ २४ ॥
मोचितः
सोऽपि
रामेण
वध्यमानः
प्लवङ्गमैः ।
आनृशंस्येन
रामस्य
मोचिता
राक्षिसाः
परे ॥ २५ ॥
वानरैरर्दितास्ते
तु
विक्रान्तैर्लघुविक्रमैः ।
पुनर्लङ्कामनुप्राप्ताः
श्वसन्तो
नष्टचेतसः ॥ २६ ॥
ततो
दशग्रीवमुपस्थितास्तु
ते
चारा
बहिर्नित्यचरा
निशाचराः ।
गिरेः
सुवेलस्य
समीपवासिनं
न्यवेदयन्
भीमबलं
महाबलाः ॥ २७ ॥