ततस्तमक्षोभ्यबलं
लङ्काधिपतये
चराः ।
सुवेले
राघवं
शैले
निविष्टं
प्रत्यवेदयन् ॥ १ ॥
चाराणां
रावणः
श्रुत्वा
प्राप्तं
रामं
महाबलम् ।
जातोद्वेगोऽभवत्
किञ्चिच्छार्दूलं
वाक्यमब्रवीत् ॥ २ ॥
अयथावच्च
ते
वर्णो
दीनश्चासि
निशाचर ।
नासि
कच्चिदमित्राणां
क्रुद्धानां
वशमागतः ॥ ३ ॥
इति
तेनानुशिष्टस्तु
वाचं
मन्दमुदीरयत् ।
तदा
राक्षसशार्दूलं
शार्दूलो
भयविह्वलः ॥ ४ ॥
न
ते
चारयितुं
शक्या
राजन्
वानरपुङ्गवाः ।
विक्रान्ता
बलवन्तश्च
राघवेण
च
रक्षिताः ॥ ५ ॥
नापि
सम्भाषितुं
शक्याः
सम्प्रश्नोऽत्र
न
लभ्यते ।
सर्वतो
रक्ष्यते
पन्था
वानरैः
पर्वतोपमैः ॥ ६ ॥
प्रविष्टमात्रे
ज्ञातोऽहं
बले
तस्मिन्नचारिते ।
बलादू
गृहीतो
रक्षोभिर्बहुधाऽस्मि
विचालितः ॥ ७ ॥
जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो
भृशम् ।
परिणीतोऽस्मि
हरिभिर्बलवद्भिरमर्षणैः ॥ ८ ॥
परिणीय
च
सर्वत्र
नीतोऽहं
रामसंसदम् ।
रुधिरादिग्धसर्वाङ्गो
विह्वलश्चलितेन्द्रियः ॥ ९ ॥
हरिभिर्वध्यमानश्च
याचमानः
कृताञ्जलिः ।
राघवेण
परित्रातो
जीवामीति
यदृच्छया ॥ १० ॥
एष
शैलैः
शिलाभिश्च
पूरयित्वा
महार्णवम् ।
द्वारमाश्रित्य
लङ्काया
रामस्तिष्ठति
सायुधः ॥ ११ ॥
गरुडव्यूहमास्थाय
सर्वतो
हरिभिर्वृतः ।
मां
विसृज्य
महातेजा
लङ्कामेवाभिवर्तते ॥ १२ ॥
पुरा
प्राकारमायाति
क्षिप्रमेकतरं
कुरु ।
सीतां
वाऽस्मै
प्रयच्छाशु
सुयुद्धं
वा
प्रदीयताम् ॥ १३ ॥
मनसा
तं
तदा
प्रेक्ष्य
तच्छुत्वा
राक्षसाधिपः ।
शार्दूलं
सुमहद्वाक्यमथोवाच
स
रावणः ॥ १४ ॥
यदि
मां
प्रतियुद्ध्येरन्
देवगन्धर्वदानवाः ।
नैव
सीतां
प्रदास्यामि
सर्वलोकभयादपि ॥ १५ ॥
एवमुक्त्वा
महातेजा
रावणः
पुनरब्रवीत् ।
चारिता
भवता
सेना
कोऽत्र
शूराः
प्लवङ्गमाः ॥ १६ ॥
कीदृशाः
किम्प्रभाः
सोम्य
वानरा
ये
दुरासदाः ।
कस्य
पुत्राश्च
पौत्राश्च
तत्त्वमाख्याहि
राक्षस ॥ १७ ॥
तथाऽत्र
प्रतिपत्स्यामि
ज्ञात्वा
तेषां
बलाबलम् ।
अवश्यं
बलसङ्ख्यानं
कर्तव्यं
युद्धमिच्छताम् ॥ १८ ॥
तथैवमुक्तः
शार्दूलो
रावणेनोत्तमश्चरः ।
इदं
वचनमारेभे
वक्तुं
रावणसन्निधौ ॥ १९ ॥
अथर्क्षरजसः
पुत्रो
युधि
राजा
सुदुर्जयः ।
गद्गदस्याथ
पुत्रोऽत्र
जाम्बवानिति
विश्रुतः ॥ २० ॥
गद्गदस्यैव
पुत्रोऽन्यो
गुरुपुत्रः
शतक्रतोः ।
कदनं
यस्य
पुत्रेण
कृतमेकेन
रक्षसाम् ॥ २१ ॥
सुषेणश्चापि
धर्मात्मा
पुत्रो
धर्मस्य
वीर्यवान् ।
सौम्यः
सोमात्मजश्चात्र
राजन्
दधिमुखः
कपिः ॥ २२ ॥
सुमुखो
दुर्मुखश्चात्र
वेगदर्शी
च
वानरः ।
मृत्युर्वानररूपेण
नूनं
सृष्टः
स्वयम्भुवा ॥ २३ ॥
पुत्रो
हुतवहस्याथ
नीलः
सेनापतिः
स्वयम् ।
अनिलस्य
च
पुत्रोऽत्र
हनुमानिति
विश्रुतः ॥ २४ ॥
नप्ता
शक्रस्य
दुर्धर्षो
बलवानङ्गदो
युवा ।
मैन्दश्च
द्विविदश्चोभौ
बलिनावश्विसम्भवौ ॥ २५ ॥
पुत्रा
वैवस्वतस्यात्र
पञ्च
कालान्तकोपमाः ।
गजो
गवाक्षो
गवयः
शरभो
गन्धमादनः ॥ २६ ॥
दश
वानरकोट्यश्च
शूराणां
युद्धकाङ्क्षिणाम् ।
श्रीमतां
देवपुत्राणां
शेषं
नाख्यातुमुत्सहे ॥ २७ ॥
पुत्रो
दशरथस्यैष
सिंहसंहननो
युवा ।
दूषणो
निहतो
येन
खरश्च
त्रिशिरास्तथा ॥ २८ ॥
नास्ति
रामस्य
सदृशो
विक्रमे
भुवि
कश्चन ।
विराधो
निहतो
येन
कबन्धश्चान्तकोपमः ॥ २९ ॥
वक्तुं
न
शक्तो
रामस्य
नरः
कश्चिद्
गुणान्
क्षितौ ।
जनस्थानगता
येन
यावन्ता
राक्षसा
हताः ॥ ३० ॥
लक्ष्मणश्चात्र
धर्मात्मा
मातङ्गानामिवर्षभः ।
यस्य
बाणपथं
प्राप्य
न
जीवेदपि
वासवः ॥ ३१ ॥
श्वेतो
ज्योतिर्मुखश्चात्र
भास्करस्यात्मसम्भवौ ।
वरुणस्य
च
पुत्रोऽन्यो
हेमकूटः
प्लवङ्गमः ॥ ३२ ॥
विश्वकर्मसुतो
वीरो
नलः
प्लवगसत्तमः ।
विक्रान्तो
बलवानत्र
वसुपुत्रः
सुदुर्धरः ॥ ३३ ॥
राक्षसानां
वरिष्ठश्च
तव
भ्राता
विभीषणः ।
परिगृह्य
पुरीं
लङ्कां
राघवस्य
हिते
रतः ॥ ३४ ॥
इति
सर्वं
समाख्यातं
तवेदं
वानरं
बलम् ।
सुवेलेऽधिष्ठितं
शैले
शेषकार्ये
भवान्
गतिः ॥ ३५ ॥