ततस्तमक्षोभ्यबलं
लङ्काधिपतये
चराः ।
सुवेले
राघवं
शैले
निविष्टं
प्रत्यवेदयन् ॥ १ ॥
चाराणां
रावणः
श्रुत्वा
प्राप्तं
रामं
महाबलम् ।
जातोद्वेगोऽभवत्
किञ्चित्
सचिवानिदमब्रवीत् ॥ २ ॥
मन्त्रिणः
शीघ्रमायान्तु
सर्वे
वै
सुसमाहिताः ।
अयं
नो
मन्त्रकालो
हि
सम्प्राप्त
इति
राक्षसाः ॥ ३ ॥
तस्य
तच्छासनं
श्रुत्वा
मन्त्रिणोऽभ्यागमन्
द्रुतम् ।
ततः
स
मन्त्रयामास
सचिवै
राक्षसैः
सह ॥ ४ ॥
मन्त्रयित्वा
स
दुर्धर्षः
क्षमं
यत्
समनन्तरम् ।
विसर्जयित्वा
सचिवान्
प्रविवेश
स्वमालयम् ॥ ५ ॥
ततो
राक्षसमाहूय
विद्युज्जिह्वं
महाबलम् ।
मायाविदं
महामायः
प्राविशद्यत्र
मैथिली ॥ ६ ॥
विद्युज्जिह्वं
च
मायाज्ञमब्रवीद्राक्षसाधिपः ।
मोहयिष्यावहे
सीतां
मायया
जनकात्मजाम् ॥ ७ ॥
शिरो
मायामयं
गृह्य
राघवस्य
निशाचर ।
त्वं
मां
समुपतिष्ठस्व
महच्च
सशरं
धनुः ॥ ८ ॥
अशोकवनिकायां
तु
सीतादर्शनलालसः ।
नैर्ऋतानामधिपतिः
संविवेश
महाबलः ॥ ९ ॥
ततो
दीनामदैन्यार्हां
ददर्श
धनदानुजः ।
अधोमुखीं
शोकपरामुपविष्टां
महीतले ॥ १० ॥
भर्तारमेव
ध्यायन्तीमशोकवनिकां
गताम् ।
उपास्यामानां
घोराभी
राक्षसीभिरितस्ततः
* ॥ ११ ॥
उपसृत्य
ततः
सीतां
प्रहर्षं
नाम
कीर्तयन् ।
इदं
च
वचनं
धृष्टमुवाच
जनकात्मजाम् ॥ १२ ॥
सान्त्व्यमाना
मया
भद्रे
यमुपाश्रित्य
वल्गसे ।
खरहन्ता
स
ते
भर्ता
राघवः
समरे
हतः ॥ १३ ॥
छिन्नं
ते
सर्वतो
मूलं
दर्पस्ते
विहतो
मया ।
व्यसनेनात्मनः
सीते
मम
भार्या
भविष्यसि ॥ १४ ॥
विसृजेमां
मतिं
मूढे
किं
मृतेन
करिष्यसि ।
भवस्व
भद्रे
भार्याणां
सर्वासामीश्वरी
मम ॥ १५ ॥
अल्पपुण्ये
निवृत्तार्थे
मूढे
पण्डितमानिनि ।
शृणु
भर्तृवधं
सीते
घोरं
वृत्रवधं
यथा ॥ १६ ॥
समायातः
समुद्रान्तं
मां
हन्तुं
किल
राघवः ।
वानरेन्द्रप्रणीतेन
बलेन
महता
वृतः ॥ १७ ॥
स
निविष्टः
समुद्रस्य
पीड्य
तीरमथोत्तरम् ।
बलेन
महता
रामो
व्रजत्यस्तं
दिवाकरे ॥ १८ ॥
अथाध्वनि
परिश्रान्तमर्धरात्रे
स्थितं
बलम् ।
सुखसंसुप्तमासाद्य
चारितं
प्रथमं
चरैः ॥ १९ ॥
तत्प्रहस्तप्रणीतेन
बलेन
महता
मम ।
बलमस्य
हतं
रात्रौ
यत्र
रामः
सलक्ष्मणः ॥ २० ॥
पट्टिशान्
परिघांश्चक्रान्
दण्डान्
खड्गान्
महायसान् ।
बाणजालानि
शूलानि
भास्वरान्
कूटमुद्गरान् ॥ २१ ॥
यष्टिश्च
तोमरान्
शक्तीश्चक्राणि
मुसलानि
च ।
उद्यम्योद्यम्य
रक्षोभिर्वानरेषु
निपातिताः ॥ २२ ॥
अथ
सुप्तस्य
रामस्य
प्रहस्तेन
प्रमाथिना ।
असक्तं
कृतहस्तेन
शिरश्छिन्नं
महासिना ॥ २३ ॥
विभीषणः
समुत्पत्य
निगृहीतो
यदृच्छया ।
दिशः
प्रव्राजितः
सर्वैर्लक्ष्मणः
प्लवगैः
सह ॥ २४ ॥
सुग्रीवो
ग्रीवया
सीते
भग्नया
प्लवगाधिपः ।
निरस्तहनुकः
शेते
हनुमान्
राक्षसैर्हतः ॥ २५ ॥
जाम्बवानथ
जानुभ्यामुत्पतन्निहतो
युधि ।
पट्टिशैर्बहुभिश्छिन्नो
निकृत्तः
पादपो
यथा ॥ २६ ॥
निश्वसन्तौ
रुदन्तौ
च
रुधिरेण
परिप्लुतौ ।
असिना
व्यायतौ
छिन्नौ
मध्ये
ह्यरिनिषूदनौ ॥ २७ ॥
अनुतिष्ठति
मेदिन्यां
पनसः
पनसो
यथा ।
नाराचैर्बहुभिश्छिन्नः
शेते
दर्यां
दरीमुखः ॥ २८ ॥
कुमुदस्तु
महातेजा
निष्कूजः
सायकैः
कृतः ।
अङ्गदो
बहुभिश्छिन्नः
शरैरासाद्य
राक्षसैः ॥ २९ ॥
पतितो
रुधिरोद्गारी
क्षितौ
निपतिताङ्गदः ।
हरयो
मथिता
नागै
रथजातैस्तथाऽपरे ॥ ३० ॥
शायिता
मृदिताश्चाश्वैर्वायुवेगैरिवाम्बुदाः ।
प्रहृताश्चापरे
त्रस्ता
हन्यमाना
जघन्यतः ॥ ३१ ॥
अभिद्रुतास्तु
रक्षोभिः
सिंहैरिव
महाद्विपाः ।
सागरे
पतिताः
केचित्
केचिद्गगनमाश्रिताः ॥ ३२ ॥
ऋक्षा
वृक्षानुपारूढा
वानरीं
वृत्तिमाश्रिताः ।
सागरस्य
च
तीरेषु
शैलेषु
च
वनेषु
च ॥ ३३ ॥
पिङ्गलास्ते
विरूपाक्षैर्बहुभिर्बहवो
हताः ।
एवं
तव
हतो
भर्ता
ससैन्यो
मम
सेनया ॥ ३४ ॥
क्षतजार्द्रं
रजोध्वस्तमिदं
चास्याहृतं
शिरः ।
ततः
परमदुर्धर्षो
रावणो
राक्षसाधिपः ॥ ३५ ॥
सीतायामुपशृण्वन्त्यां
राक्षसीमिदमब्रवीत् ।
राक्षसं
क्रूरकर्माणं
विद्युज्जिह्वं
त्वमानय ॥ ३६ ॥
येन
तद्राघवशिरः
सङ्ग्रामात्
स्वयमाहृतम् ।
विद्युज्जिह्वस्ततो
गृह्य
शिरस्तत्
सशरासनम् ॥ ३७ ॥
प्रणामं
शिरसा
कृत्वा
रावणस्याग्रतः
स्थितः ।
तमब्रवीत्ततो
राजा
रावणो
राक्षसं
स्थितम् ॥ ३८ ॥
विद्युज्जिह्वं
महाजिह्वं
समीपपरिवर्त्तिनम् ।
अग्रतः
कुरु
सीतायाः
शीघ्रं
दाशरथेः
शिरः ॥ ३९ ॥
अवस्थां
पश्चिमां
भर्तुः
कृपणा
साधु
पश्यतु ।
एवमुक्तं
तु
तद्रक्षः
शिरस्तत्
प्रियदर्शनम् ॥ ४० ॥
उपनिक्षिप्य
सीतायाः
क्षिप्रमन्तरधीयत ।
रावणश्चापि
चिक्षेप
भास्वरं
कार्मुकं
महत् ॥ ४१ ॥
त्रिषु
लोकेषु
विख्यातं
सीतामिदमुवाच
च ।
इदं
तत्तव
रामस्य
कार्मुकं
ज्यासमायुतम् ॥ ४२ ॥
इह
प्रहस्तेनानीतं
हत्वा
तं
निशि
मानुषम् ।
स
विद्युजिह्वेन
सहैव
तच्छिरो
धनुश्च
भूमौ
विनीकीर्य
रावणः ॥ ४३ ॥
विदेहराजस्य
सुतां
यशस्विनीं
ततोऽब्रवीत्तां
भव
मे
वशानुगा ॥ ४४ ॥