सीतां
तु
मोहितां
दृष्ट्वा
सरमा
नाम
राक्षसी ।
आससादाथ
वैदेहीं
प्रियां
प्रणयिनीं
सखीम् ॥ १ ॥
मोहितां
राक्षसेन्द्रेण
सीतां
परमदुःखिताम् ।
आश्वासयामास
तदा
सरमा
मृदुभाषिणी ॥ २ ॥
सा
हि
तत्र
कृता
मित्रं
सीतया
रक्ष्यमाणया ।
रक्षन्ती
रावणादिष्टा
सानुक्रोशा
दृढव्रता ॥ ३ ॥
सा
ददर्श
ततः
सीतां
सरमा
नष्टचेतनाम् ।
उपावृत्योत्थितां
ध्वस्तां
वडवामिव
पांसुलाम् ॥ ४ ॥
तां
समाश्वासयामास
सखी
स्नेहेन
सुव्रता ।
उक्ता
यद्रावणेन
त्वं
प्रत्युक्तं
च
स्वयं
त्वया ॥ ५ ॥
सखी
स्नेहेन
तद्भिरु
मया
सर्वं
प्रतिश्रुतम् ।
लीनया
गगने
शून्ये
भयमुत्सृज्य
रावणात् ॥ ६ ॥
तव
हेतोर्विशालाक्षि
न
हि
मे
जीवितं
प्रियम् ।
स
सम्भ्रान्तश्च
निष्क्रान्तो
यत्कृते
राक्षसाधिपः ॥ ७ ॥
तच्च
मे
विदितं
सर्वमभिनिष्क्रम्य
मैथिलि ।
न
शक्यं
सौप्तिकं
कर्तुं
रामस्य
विदितात्मनः ॥ ८ ॥
वधश्च
पुरुषव्याघ्रे
तस्मिन्नैवोपपद्यते ।
न
त्वेव
वानरा
हन्तुं
शक्याः
पादपयोधिनः ॥ ९ ॥
सुरा
देवर्षभेणेव
रामेण
हि
सुरक्षिताः ।
दीर्घवृत्तभुजः
श्रीमान्
महोरस्कः
प्रतापवान् ॥ १० ॥
धन्वी
संहननोपेतो
धर्मात्मा
भुवि
विश्रुतः ।
विक्रान्तो
रक्षिता
नित्यमात्मनश्च
परस्य
च ॥ ११ ॥
लक्ष्मणेन
सह
भ्रात्रा
कुलीनो
नयशास्त्रवित् ।
हन्ता
परबलौघानामचिन्त्यबलपौरुषः ॥ १२ ॥
न
हतो
राघवः
श्रीमान्
सीते
शत्रुनिबर्हणः ।
अयुक्तबुद्धिकृत्येन
सर्वभूतविरोधिना ॥ १३ ॥
इयं
प्रयुक्ता
रौद्रेण
माया
मायाविदा
त्वयि ।
शोकस्ते
विगतः
सर्वः
कल्याणं
त्वामुपस्थितम् ॥ १४ ॥
ध्रुवं
त्वां
भजते
लक्ष्मीः
प्रियं
प्रीतिकरं
शृणु ।
उत्तीर्य
सागरं
रामः
सह
वानरसेनया ॥ १५ ॥
सन्निविष्टः
समुद्रस्य
तीरमासाद्य
दक्षिणम् ।
दृष्टो
मे
परिपूर्णार्थः
काकुत्स्थः
सहलक्ष्मणः ॥ १६ ॥
स
हि
तैः
सागरान्तस्थैर्बलैस्तिष्ठति
रक्षितः ।
अनेन
प्रेषिता
ये
च
राक्षसा
लघुविक्रमाः ॥ १७ ॥
राघवस्तीर्ण
इत्येव
प्रवृत्तिस्तैरिहाहृता ।
स
तां
श्रुत्वा
विशालाक्षि
प्रवृत्तिं
राक्षसाधिपः ॥ १८ ॥
एष
मन्त्रयते
सर्वैः
सचिवैः
सह
रावणः ।
इति
ब्रुवाणा
सरमा
राक्षसी
सीतया
सह ॥ १९ ॥
सर्वोद्योगेन
सैन्यानां
शब्दं
शुश्राव
भैरवम् ।
दण्डनिर्घातवादिन्याः
श्रुत्वा
भेर्या
महास्वनम् ॥ २० ॥
उवाच
सरमा
सीतामिदं
मधुरभाषिणी ।
सन्नाहजननी
ह्येषा
भैरवा
भीरु
भेरिका ॥ २१ ॥
भेरीनादं
च
गम्भीरं
शृणु
तोयदनिस्वनम् ।
कल्प्यन्ते
मत्तमातङ्गा
युज्यन्ते
रथवाजिनः ॥ २२ ॥
हृष्यन्ते
तुरागारूढाः
प्रासहस्ताः
सहस्रशः ।
आपूर्यन्ते
राजमार्गाः
सैन्यैरद्भुतदर्शनैः ॥ २३ ॥
वेगवद्भिर्नदद्भिश्च
तोयौघैरिव
सागरः ।
शस्त्राणां
च
प्रसन्नानां
चर्मणां
वर्मणां
तथा ॥ २४ ॥
रथवाजिगजानां
च
भूषितानां
च
रक्षसाम् ।
प्रभां
विसृजतां
पश्य
नानावर्णां
समुत्थिताम् ॥ २५ ॥
वनं
निर्दहतो
घर्मे
यथा
रूपं
विभावसोः ।
घण्टानां
शृणु
निर्घोषं
रथानां
शृणु
निस्वनम् ॥ २६ ॥
हयानां
हेषमाणानां
शृणु
तूर्यध्वनिं
यथा ।
उद्यतायुधहस्तानां
राक्षसेन्द्रानुयायिनाम् ॥ २७ ॥
सम्भ्रमो
रक्षसामेष
तुमुलो
रोमहर्षणः ।
श्रीस्त्वां
भजति
शोकघ्नी
रक्षसां
भयमागतम् ॥ २८ ॥
विनिर्जित्य
जितक्रोधस्त्वामचिन्त्यपराक्रमः ।
रावणं
समरे
हत्वा
भर्ता
त्वाऽधिगमिष्यति ॥ २९ ॥
विक्रमिष्यति
रक्षस्सु
भर्ता
ते
सहलक्ष्मणः ।
यथा
शत्रुषु
शत्रुघ्नो
विष्णुना
सह
वासवः ॥ ३० ॥
आगतस्य
हि
रामस्य
क्षिप्रमङ्कगतां
सतीम् ।
अहं
द्रक्ष्यामि
सिद्धार्थां
त्वां
शत्रौ
विनिपातिते ॥ ३१ ॥
अश्रूण्यानन्दजानि
त्वं
वर्तयिष्यसि
शोभने ।
समागम्य
परिष्वज्य
तस्योरसि
महोरसः ॥ ३२ ॥
अचिरान्मोक्ष्यते
सीते
देवि
ते
जघनं
गताम् ।
धृतामेतां
बहून्
मासान्
वेणीं
रामो
महावलः ॥ ३३ ॥
तस्य
दृष्ट्वा
मुखं
देवि
पूर्णचन्द्रमिवोदितम् ।
मोक्ष्यसे
शोकजं
वारि
निर्मोकमिव
पन्नगी ॥ ३४ ॥
रावणं
समरे
हत्वा
न
चिरादेव
मैथिलि ।
त्वया
समग्रः
प्रियया
सुखार्हो
लप्स्यते
सुखम् ॥ ३५ ॥
समागता
त्वं
वीर्येण
मोदिष्यसि
महात्मना ।
सुवर्षेण
समायुक्ता
यथा
सस्येन
मेदिनी ॥ ३६ ॥
गिरिवरमभितोऽनुवर्तमानो
हय
इव
मण्डलमाशु
य
करोति ।
तमिह
शरणमभ्युपेहि
देवं
विदसकरं
प्रभवो
ह्ययं
प्रजानाम् ॥ ३७ ॥