तत्तु
माल्यवतो
वाक्यं
हितमुक्तं
दशाननः ।
न
मर्षयति
दुष्टात्मा
कालस्य
वशमागतः ॥ १ ॥
स
बद्ध्वा
भ्रुकुटिं
वक्त्रे
क्रोधस्य
वशमागतः ।
अमर्षात्
परिवृत्ताक्षो
माल्यवन्तमथाब्रवीत् ॥ २ ॥
हितबुद्ध्या
यदहितं
वचः
परुषमुच्यते ।
परपक्षं
प्रविश्यैव
नैतच्छ्रोत्रं
गतं
मम ॥ ३ ॥
मानुषं
कृपणं
राममेकं
शाखामृगाश्रयम् ।
समर्थं
मन्यसे
केन
त्यक्तं
पित्रा
वनालयम् ॥ ४ ॥
रक्षसामीश्वरं
मां
च
देवतानां
भयङ्करम् ।
हीनं
मां
मन्यसे
केन
ह्यहीनं
सर्वविक्रमैः ॥ ५ ॥
वीरद्वेषेण
वा
शङ्के
पक्षपातेन
वा
रिपोः ।
त्वयाऽहं
परुषाण्युक्तः
परप्रोत्साहनेन
वा ॥ ६ ॥
प्रभवन्तं
पदस्थं
हि
परुषं
कोऽभिधास्यति ।
पण्डितः
शास्त्रतत्त्वज्ञो
विना
प्रोत्साहनाद्रिपोः ॥ ७ ॥
आनीय
च
वनात्
सीतां
पद्महीनामिव
श्रियम् ।
किमर्थं
प्रतिदास्यामि
राघवस्य
भयादहम् ॥ ८ ॥
वृतं
वानरकोटीभिः
ससुग्रीवं
सलक्ष्मणम् ।
पश्य
कैश्चिदहोभिस्त्वं
राघवं
निहतं
मया ॥ ९ ॥
द्वन्द्वे
यस्य
न
तिष्ठन्ति
दैवतान्यपि
संयुगे ।
स
कस्माद्रावणो
युद्धे
भयमाहारयिष्यति ॥ १० ॥
द्विधा
भज्येयमप्येवं
न
नमेयं
तु
कस्यचित् ।
एष
मे
सहजो
दोषः
स्वभावो
दुरतिक्रमः ॥ ११ ॥
यदि
तावत्
समुद्रे
तु
सेतुर्बद्धो
यदृच्छया ।
रामेण
विस्मयः
कोत्र
येन
ते
भयमागतम् ॥ १२ ॥
स
तु
तीर्त्वार्णवं
रामः
सह
वानरसेनया ।
प्रतिजानामि
ते
सत्यं
न
जीवन्
प्रतियास्यति ॥ १३ ॥
एवं
ब्रुवाणं
संरब्धं
रुष्टं
विज्ञाय
रावणम् ।
व्रीडितो
माल्यवान्
वाक्यं
नोत्तरं
प्रत्यपद्यत ॥ १४ ॥
जयाशिषा
च
राजानं
वर्धयित्वा
यथोचितम् ।
माल्यवानभ्यनुज्ञातो
जगाम
स्वं
निवेशनम् ॥ १५ ॥
रावणस्तु
सहामात्यो
मन्त्रयित्वा
विमृश्य
च ।
लङ्कायामतुलां
गुप्तिं
कारयामास
राक्षसः ॥ १६ ॥
स
व्यादिदेश
पूर्वस्यां
प्रहस्तं
द्वारि
राक्षसम् ।
दक्षिणस्यां
महावीर्यौ
महापार्श्वमहोदरौ ॥ १७ ॥
पश्चिमायामथो
द्वारि
पुत्रमिन्द्रजितं
तथा ।
व्यादिदोश
महामायं
बहुभी
राक्षसैर्वृतम् ॥ १८ ॥
उत्तरस्यां
पुरद्वारि
व्यादिश्य
शुकसारणौ ।
स्वयं
चात्र
भविष्यामि
मन्त्रिणस्तानुवाच
ह ॥ १९ ॥
राक्षसं
तु
विरूपाक्षं
महावीर्यपराक्रमम् ।
मध्यमेऽस्थापयद्
गुल्मे
बहुभिः
सह
राक्षसैः ॥ २० ॥
एवं
विधानं
लङ्कायाः
कृत्वा
राक्षसपुङ्गवः ।
कृतकृत्यमिवात्मानं
मन्यते
कालचोदितः ॥ २१ ॥
विसर्जयामास
ततः
स
मन्त्रिणो
विधानमाज्ञाप्य
पुरस्य
पुष्कलम् ।
जयाशिषा
मन्त्रिगणेन
पूजितो
विवेश
चान्तःपुरमृद्धिमन्महत् ॥ २२ ॥