स
तु
कृत्वा
सुवेलस्य
मतिमारोहणं
प्रति ।
लक्ष्मणानुगतो
रामः
सुग्रीवमिदमब्रवीत् ॥ १ ॥
विभीषणं
च
धर्मज्ञमनुरक्तं
निशाचरम् ।
मन्त्रज्ञं
च
विधिज्ञं
च
श्लक्ष्णया
परया
गिरा ॥ २ ॥
सुवेलं
साधुशैलेन्द्रमिमं
धातुशतैश्चितम् ।
अध्यारोहामहे
सर्वे
वत्स्यामोऽत्र
निशामिमाम् ॥ ३ ॥
लङ्कां
चालोकयिष्यामो
निलयं
तस्य
रक्षसः ।
येन
मे
मरणान्ताय
हृता
भार्या
दुरात्मना ॥ ४ ॥
येन
धर्मो
न
विज्ञातो
न
तद्वृत्तं
कुलं
तथा ।
राक्षस्या
नीचया
बुद्ध्या
येन
तद्
गर्हितं
कृतम् ॥ ५ ॥
तस्मिन्
मे
वर्तते
रोषः
कीर्तिते
राक्षसाधमे ।
यस्यापराधान्नीचस्य
वधं
द्रक्ष्यामि
रक्षसाम् ॥ ६ ॥
एको
हि
कुरुते
पापं
कालपाशवशं
गतः ।
नीचेनात्मापचारेण
कुलं
तेन
विनश्यति ॥ ७ ॥
एवं
सम्मन्त्रयन्नेव
सक्रोधो
रावणं
प्रति ।
रामः
सुवेलं
वासाय
चित्रसानुमुपारुहत् ॥ ८ ॥
सशरं
चापमुद्यम्य
सुमहद्विक्रमे
रतः ।
तमन्वरोहत्
सुग्रीवः
सामात्यः
स
विभीषणः ॥ ९ ॥
हनुमानङ्गदो
नीलो
मैन्दो
द्विविद
एव
च ।
गजो
गवाक्षो
गवयः
शरभो
गन्धमादनः ॥ १० ॥
पनसः
कुमुदश्चैव
हरो
रम्भश्च
यूथपः ।
जाम्बवांश्च
सुषेणश्च
ऋषभश्च
महामतिः ॥ ११ ॥
दुर्मुखश्च
महातेजास्तथा
शतवलिः
कपिः ।
ते
वायुवेगप्रवणास्तं
गिरिं
गिरिचारिणः ॥ १२ ॥
अध्यारोहन्त
शतशः
सुवेलं
यत्र
राघवः ।
ते
त्वदीर्घेण
कालेन
गिरिमारुह्य
सर्वतः ॥ १३ ॥
ददृशुः
शिखरे
तस्य
विषक्तामिव
खे
पुरीम् ।
तां
शुभां
प्रवरद्वारां
प्राकारपरिशोभिताम् ॥ १४ ॥
लङ्कां
राक्षससम्पूर्णां
ददृशुर्हरियूथपाः ।
प्राकारचयसंस्थैश्च
तदा
नीलैर्निशाचरैः ॥ १५ ॥
ददृशुस्ते
हरिश्रेष्ठाः
प्राकारमपरं
कृतम् ।
ते
दृष्ट्वा
वानराः
सर्वे
राक्षसान्
युद्धकाङ्क्षिणः ॥ १६ ॥
मुमुचुर्विविधान्नादांस्तत्र
रामस्य
पश्यतः ।
ततोऽस्तमगमत्
सूर्यः
सन्ध्यया
प्रतिरञ्जितः ॥ १७ ॥
पूर्णचन्द्रप्रदीप्ता
च
क्षपा
समभिवर्तते ।
ततः
स
रामो
हरिवाहिनीपतिर्विभिषणेन
प्रतिनन्द्य
सत्कृतः ॥ १८ ॥
सलक्ष्मणो
यूथपयूथसंवृतः
सुवेलपृष्ठे
न्यवसद्यथासुखम् ॥ १९ ॥