तां
रात्रिमुषितास्तत्र
सुवेले
हरिपुङ्गवाः ।
लङ्कायां
ददृशुर्वीरा
वनान्युपवनानि
च ॥ १ ॥
समसौम्यानि
रम्याणि
विशालान्यायतानि
च ।
दृष्टिरम्याणि
ते
दृष्ट्वा
बभूवुर्जातविस्मयाः ॥ २ ॥
चम्पकाशोकपुन्नागसालतालसमाकुला ।
तमालवनसञ्छन्ना
नागमालासमावृता ॥ ३ ॥
हिन्तालैरर्जुनैर्नीपैः
सप्तपर्णैश्च
पुष्पितैः ।
तिलकैः
कर्णिकारैश्च
पाटलैश्च
समन्ततः ॥ ४ ॥
शुशुभे
पुष्पिताग्रैश्च
लतापरिगतैर्द्रुमैः ।
लङ्का
बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ॥ ५ ॥
विचित्रकुसुमोपेतै
रक्तकोमलपल्लवैः ।
शाद्वलैश्च
तथा
नीलैश्चित्राभिर्वनराजिभिः ॥ ६ ॥
गन्धाढ्यान्यभिरम्याणि
पुष्पाणि
च
फलानि
च ।
धारयन्त्यगमास्तत्र
भूषणानीव
मानवाः ॥ ७ ॥
तच्चैत्ररथसङ्काशं
मनोज्ञं
नन्दनोपमम् ।
वनं
सर्वर्तुकं
रम्यं
शुशुभे
षट्पदायुतम् ॥ ८ ॥
नत्यूहकोयष्टिभकैर्नृत्यमानैश्च
बर्हिभिः ।
रुतं
परभृतानां
च
शुश्रुवुर्वननिर्झरे ॥ ९ ॥
नित्यमत्तविहङ्गानि
भ्रमराचरितानि
च ।
कोकिलाकुलषण्डानि
विहगाभिरुतानि
च ॥ १० ॥
भृङ्गराजाभिगीतानि
भ्रमरैः
सेवितानि
च ।
कोणालकविधुष्टानि
सारसाभिरुतानि
च ॥ ११ ॥
विविशुस्ते
ततस्तानि
वनान्युपवनानि
च ।
हृष्टाः
प्रमुदिता
वीरा
हरयः
कामरूपिणः ॥ १२ ॥
तेषां
प्रविशतां
तत्र
वानराणां
महौजसाम् ।
पुष्पसंसर्गसुरभिर्ववौ
घ्राणसुखोऽनिलः ॥ १३ ॥
अन्ये
तु
हरिवीराणां
यूथान्निष्क्रम्य
यूथपाः ।
सुग्रीवेणाभ्यनुज्ञाता
लङ्कां
जग्मुः
पताकिनीम् ॥ १४ ॥
कम्पयन्तश्च
तां
लङ्कां
नादैस्ते
नदतां
वराः ।
कुर्वन्तस्ते
महावेगा
महीं
चरणपीडिताम् ॥ १५ ॥
रजश्च
सहसैवोर्ध्वं
जगाम
चरणोत्थितम् ।
ऋक्षाः
सिंहा
वराहाश्च
महिषा
वारणा
मृगाः ॥ १६ ॥
तेन
शब्देन
वित्रस्ता
जग्मुर्भीता
दिशो
दश ।
शिखरं
तत्
त्रिकूटस्य
प्रांशु
चैकं
दिविस्पृशम् ॥ १७ ॥
समन्तात्
पुष्पसञ्छन्नं
महारजतसन्निभम् ।
श्लक्ष्णं
श्रीमन्महच्चैव
दुष्प्रापं
शकुनैरपि ॥ १८ ॥
मनसाऽपि
दुरारोहं
किं
पुनः
कर्मणा
जनैः ।
निविष्टा
तत्र
शिखरे
लङ्का
रावणपालिता ॥ १९ ॥
शतयोजनविस्तीर्णा
त्रिंशद्योजनमायता ।
सा
पुरी
गोपुरैरुच्चैः
पाण्डराम्बुदसन्निभैः ॥ २० ॥
काञ्चनेन
च
सालेन
राजतेन
च
शोभिता ।
प्रासादैश्च
विमानैश्च
लङ्का
परमभूषिता ॥ २१ ॥
घनैरिवातपापाये
मध्यमं
वैष्णवं
पदम् ।
यस्यां
स्तम्भसहस्रैण
प्रासादः
समलङ्कृतः ॥ २२ ॥
कैलासशिखराकारो
दृश्यते
खमिवोल्लिखन् ।
चैत्यः
स
राक्षसेन्द्रस्य
बभूव
पुरभूषणम् ॥ २३ ॥
बलेन
रक्षसां
नित्यं
यः
समग्रेण
रक्ष्यते ।
मनोज्ञां
काननवतीं
पर्वतैरुपशोभिताम् ॥ २४ ॥
नानाधातुविचित्रैश्च
उद्यानैरुपशोभिताम् ।
नानाविहगसङ्घुष्टां
नानामृगनिषेविताम् ॥ २५ ॥
नानाकाननसन्तानां
नानाराक्षससेविताम् ।
तां
समृद्धां
समृद्धार्थां
लक्ष्मीवान्
लक्ष्मणाग्रजः ॥ २६ ॥
रावणस्य
पुरीं
रामो
ददर्श
सह
वानरैः ।
तां
महागृहसम्बाधां
दृष्ट्वा
लक्ष्मणपूर्वजः ॥ २७ ॥
नगरीममरप्रख्यो
विस्मयं
प्राप
वीर्यवान् ।
तां
रत्नपूर्णां
बहुसंविधानां
प्रासादमालाभिरलङ्कृतां
च ॥ २८ ॥
पुरीं
महायन्त्रकवाटमुख्यां
ददर्श
रामो
महता
बलेन ॥ २९ ॥