युद्ध्यातां
तु
ततस्तेषां
वानराणां
महात्मनाम् ।
रक्षसां
सम्बभूवाथ
बलकोपः
सुदारुणः ॥ १ ॥
ते
हयैः
काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः ।
रथैश्चादित्यसङ्काशैः
कवचैश्च
मनोरमैः ॥ २ ॥
निर्ययू
राक्षसव्याघ्रा
नादयन्तो
दिशो
दश ।
राक्षसा
भीमकर्माणो
रावणस्य
जयैषिणः ॥ ३ ॥
वानराणामपि
चमूर्बृहती
जयमिच्छताम् ।
अभ्यधावत
तां
सेनां
रक्षसां
कामरूपिणाम् ॥ ४ ॥
एतस्मिन्नन्तरे
तेषामन्योन्यमभिधावताम् ।
रक्षसां
वानराणां
च
द्वन्द्वयुद्धमवर्तत ॥ ५ ॥
अङ्गदेनेन्द्रजित्
सार्धं
वालिपुत्रेण
राक्षसः ।
अयुध्यत
महातेजास्त्र्यम्बकेण
यथाऽन्तकः ॥ ६ ॥
प्रजङ्घेन
च
सम्पातिर्नित्यं
दुर्मर्षणो
रणे ।
जम्बुमालिनमारब्धो
हनुमानपि
वानरः ॥ ७ ॥
सङ्गतः
सुमहाक्रोधो
राक्षसो
रावणानुजः ।
समरे
तीक्ष्णवेगेन
मित्रघ्नेन
विभीषणः ॥ ८ ॥
तपनेन
गजः
सार्धं
राक्षसेन
महाबलः ।
निकुम्भेन
महातेजा
नीलोऽपि
समयुद्ध्यत ॥ ९ ॥
वानरेन्द्रस्तु
सुग्रीवः
प्रघसेन
समागतः ।
सङ्गतः
समरे
श्रीमान्
विरूपाक्षेण
लक्ष्मणः ॥ १० ॥
आग्निकेतुश्च
दुर्धर्षो
रश्मिकेतुश्च
राक्षसः ।
सुप्तघ्नो
यज्ञकोपश्च
रामेण
सह
सङ्गताः ॥ ११ ॥
वज्रमुष्टिस्तु
मैन्देन
द्विविदानशनिप्रभः ।
राक्षसाभ्यां
सुघोराभ्यां
कपिमुख्यौ
समागतौ ॥ १२ ॥
वीरः
प्रतपनो
घोरो
राक्षसो
रणदुर्धरः ।
समरे
तीक्ष्णवेगेन
नलेन
समयुद्ध्यत ॥ १३ ॥
धर्मस्य
पुत्रो
बलवान्
सुषेण
इति
विश्रुतः ।
स
विद्युन्मालिना
सार्धमयुध्यत
महाकपिः ॥ १४ ॥
वानराश्चापरे
भीमा
राक्षसैरपरैः
सह ।
द्वन्द्वं
समीयुर्बहुधा
युद्धाय
बहुभिः
सह ॥ १५ ॥
तत्रासीत्
सुमहद्युद्धं
तुमुलं
रोमहर्षणम् ।
रक्षसां
वानराणां
च
वीराणां
जयमिच्छताम् ॥ १६ ॥
हरिराक्षसदेहेभ्यः
प्रभृताः
केशशाद्वलाः ।
शरीरसङ्घाटवहाः
प्रसस्रुः
शोणितापगाः ॥ १७ ॥
आजघानेन्द्रजित्
क्रुद्धो
वज्रेणेव
शतक्रतुः ।
अङ्गदं
गदया
वीरं
शत्रुसैन्यविदारणम् ॥ १८ ॥
तस्य
काञ्चनचित्राङ्गं
रथं
साश्वं
ससारथिम् ।
जघान
समरे
श्रीमानङ्गदो
वेगवान्
कपिः ॥ १९ ॥
सम्पातिस्तु
त्रिभिर्बाणैः
प्रजङ्घेन
समाहतः ।
निजघानाश्वकर्णेन
प्रजङ्घं
रणमूर्धनि ॥ २० ॥
जम्बुमाली
रथस्थस्तु
रथशक्त्या
महाबलः ।
बिभेद
समरे
क्रुद्धो
हनूमन्तं
स्तनान्तरे ॥ २१ ॥
तस्य
तं
रथमास्थाय
हनूमान्
मारुतत्मजः ।
प्रममाथ
तलेनाशु
सह
तेनैव
रक्षसा ॥ २२ ॥
नदन्
प्रतपनो
घोरो
नलं
सोऽप्यन्वधावत ।
नलः
प्रतपनस्याशु
पातयामास
चक्षुषी ॥ २३ ॥
भिन्नगात्रः
शरैस्तीक्ष्णैः
क्षिप्रहस्तेन
रक्षसा ।
ग्रसन्तमिव
सैन्यानि
प्रघसं
वानराधिपः ॥ २४ ॥
सुग्रीवः
सप्तपर्णेन
निर्बिभेद
जघान
च ।
अग्निकेतुश्च
दुर्धर्षो
रश्मिकेतुश्च
राक्षसः ॥ २५ ॥
सुप्तघ्नो
यज्ञकोपश्च
रामं
निर्बिभिदुः
शरैः ।
तेषां
चतुर्णां
रामस्तु
शिरांसि
निशितैः
शरै ॥ २६ ॥
क्रुद्धश्चतुर्भिश्चिच्छेद
घोरैरग्निशिखोपमैः ।
वज्रमुष्टिस्तु
मैन्देन
मुष्टिना
निहतो
रणे ॥ २७ ॥
पपात
सरथः
साश्वः
पुराट्ट
इव
भूतले ।
निकुम्भस्तु
रणे
नीलं
नीलाञ्जनचयप्रभम् ॥ २८ ॥
निर्बिभेद
शरैस्तीक्ष्णैः
करैर्मेघमिवांशुमान् ।
पुनः
शरशतेनाथ
क्षिप्रहस्तो
निशाचरः ॥ २९ ॥
बिभेद
समरे
नीलं
निकुम्भः
प्रजहास
च ।
तस्यैव
रथचक्रेण
नीलो
विष्णुरिवाहवे ॥ ३० ॥
शिरश्चिच्छेद
समरे
निकुम्भस्य
च
सारथेः ।
वज्राशनिसमस्पर्शो
द्विविदोऽप्यशनिप्रभम् ॥ ३१ ॥
जघान
गिरिशृङ्गेण
मिषतां
सर्वरक्षसाम् ।
द्विविदं
वानरेन्द्रं
तु
नगयोधिनमाहवे ॥ ३२ ॥
शरैरशनि
सङ्काशैः
स
विव्याधाशनिप्रभः ।
स
शरैरतिविद्धाङ्गो
द्विविदः
क्रोधमूर्च्छितः ॥ ३३ ॥
सालेन
सरथं
साश्वं
निजघानाशनिप्रभम् ।
विद्युन्माली
रथस्थस्तु
शरैः
काञ्चनभूषणैः ॥ ३४ ॥
सुषेणं
ताडयामास
ननाद
च
मुहुर्मुहुः ।
तं
रथस्थमथो
दृष्ट्वा
सुषेणो
वानरोत्तमः ॥ ३५ ॥
गिरिशृङ्गेण
महता
रथमाशु
न्यपातयत् ।
लाघवेन
तु
संयुक्तो
विद्युन्माली
निशाचरः ॥ ३६ ॥
अपक्रम्य
रथात्तूर्णं
गदापाणिः
क्षितौ
स्थितः ।
ततः
क्रोधसमाविष्टः
सुषेणो
हरिपुङ्गवः ॥ ३७ ॥
शिलां
सुमहतीं
गृह्य
निशाचरमभिद्रवत् ।
तमापतन्तं
गदया
विद्युन्माली
निशाचरः ॥ ३८ ॥
वक्षस्यभिजघानाशु
सुषेणं
हरिसत्तमम् ।
गदाप्रहारं
तं
घोरमचिन्त्य
प्लवगोत्तमः ॥ ३९ ॥
तां
शिलां
पातयामास
तस्योरसि
महामृधे ।
शिलाप्रहाराभिहतो
विद्युन्माली
निशाचरः ॥ ४० ॥
निष्पिष्टहृदयो
भूमौ
गतासुर्निपपात
ह ।
एवं
तैर्वानरैः
शूरैः
शूरास्ते
रजनीचराः ॥ ४१ ॥
द्वन्द्वे
विमृदितास्तत्र
दैत्या
इव
दिवौकसैः ।
चक्राक्षयुगदण्डैश्च
भग्नैर्धरणिसंश्रितैः\* ॥ ४२ ॥
बभूवायोधनं
घोरं
गोमायुगणसङ्कुलम्\* ।
कबन्धानि
समुत्पेतुर्दिक्षु
वानररक्षसाम् ॥ ४३ ॥
विमर्दे
तुमुले
तस्मिन्
देवासुररणोपमे ।
विदार्यमाणा
हरिपुङ्गवैस्तदा
निशाचराः
शोणितदिग्धगात्राः ॥ ४४ ॥
पुनः
सुयुद्धं
तरसा
समास्थिता
दिवाकरस्यास्तमयाभिकाङ्क्षिणः ॥ ४५ ॥