युद्ध्यतामेव
तेषां
तु
तदा
वानररक्षसाम् ।
रविरस्तं
गतो
रात्रिः
प्रवृत्ता
प्राणहारिणी ॥ १ ॥
अन्योन्यं
बद्धवैराणां
घोराणां
जयमिच्छताम् ।
सम्प्रवृत्तं
निशायुद्धं
तदा
वानररक्षसाम् ॥ २ ॥
राक्षसोऽसीति
हरयो
हरिश्चासीति
राक्षसाः ।
अन्योन्यं
समरे
जघ्नुस्तस्मिंस्तमसि
दारुणे ॥ ३ ॥
जहि
दारय
चैहीति
कथं
विद्रवसीति
च ।
एवं
सुतुमुलः
शब्दस्तस्मिंस्तमसि
शुश्रुवे ॥ ४ ॥
कालाः
काञ्चनसन्नाहास्तस्मिंस्तमसि
राक्षसाः ।
सम्प्रादृश्यन्त
शैलेन्द्रा
दीप्तौषधिवना
इव ॥ ५ ॥
तस्मिंस्तमसि
दुष्पारे
राक्षसाः
क्रोधमूर्च्छिताः ।
परिपेतुर्महावेगा
भक्षयन्तः
प्लवङ्गमान् ॥ ६ ॥
ते
हयान्
काञ्चनापीडान्
ध्वजांश्चाग्निशिखोपमान् ।
आप्लुत्य
दशनैस्तीक्ष्णैर्भीमकोपा
व्यदारयन् ॥ ७ ॥
कुञ्जरान्
कुञ्जरारोहान्
पताकाध्वजिनो
स्थान् ।
चकर्षुश्च
ददंशुश्च
दशनैः
क्रोधमूर्च्छिताः ॥ ८ ॥
लक्ष्मणश्चापि
रामश्च
शरैराशीविषोपमैः ।
दृश्यादृश्यानि
रक्षांसि
प्रवराणि
निजघ्नतुः ॥ ९ ॥
तुरङ्गखुरविध्वस्तं
रथनेमिसमुत्थितम् ।
रुरोध
कर्णनेत्राणि
युद्ध्यतां
धरणीरजः ॥ १० ॥
वर्तमाने
महाघोरे
सङ्ग्रामे
रोमहर्षणे ।
रुधिरोदा
महाघोरा
नद्यस्तत्र
प्रसुस्रुवुः ॥ ११ ॥
शङ्खवेणुस्वनोन्मिश्रः
सम्बभूवाद्भुतोपमः ।
हतानां
स्तनमानानां
राक्षसानां
च
निस्वनः ॥ १२ ॥
शस्तानां
वानराणां
च
सम्बभूवातिदारुणः ।
हतैर्वानरवीरैश्च
शक्तिशूलपरश्वधैः ॥ १३ ॥
निहतैः
पर्वताग्रैश्च
राक्षसैः
कामरूपिभिः ।
शस्त्रपुष्पोपहारा
च
तत्रासीद्युद्धमेदिनी ॥ १४ ॥
दुर्ज्ञेया
दुर्निवेशा
च
शोणितास्रावकर्दमा ।
सा
बभूव
निशा
घोरा
हरिराक्षसहारिणी ॥ १५ ॥
कालरात्रीव
भूतानां
सर्वेषां
दुरतिक्रमा ।
ततस्ते
राक्षसास्तत्र
तस्मिंस्तमसि
दारुणे ॥ १६ ॥
राममेवाभ्यवर्तन्त
संसृष्टाः
शरवृष्टिभिः ।
तेषामापततां
शब्दः
क्रुद्धानामपि
गर्जताम् ॥ १७ ॥
उद्वर्त
इव
सप्तानां
समुद्राणां
प्रशुश्रुवे ।
तेषां
रामः
शरैष्षङ्भिष्षड्
जघान
निशाचरान् ॥ १८ ॥
निमेषान्तरमात्रेण
शितैरग्निशिखोपमैः ।
यमशत्रुश्च
दुर्धर्षो
महापार्श्वमहोदरौ ॥ १९ ॥
वज्रदंष्ट्रो
महाकायस्तौ
चोभौ
शुकसारणौ ।
ते
तु
रामेण
बाणौघैः
सर्वे
मर्मसु
ताडिताः ॥ २० ॥
युद्धादपसृतास्तत्र
सावशेषायुषोऽभवन् ।
दिशश्चकार
विमलाः
प्रदिशश्च
महाबलः ॥ २१ ॥
ये
त्वन्ये
राक्षसा
भीमा
रामस्याभिमुखे
स्थिताः ।
तेऽपि
नष्टाः
समासाद्य
पतङ्ग
इव
पावकम् ॥ २२ ॥
सुवर्णपुङ्खैर्विशिखैः
सम्पतद्भिः
सहस्रशः ।
बभूव
रजनी
चित्रा
खद्योतैरिव
शारदी ॥ २३ ॥
राक्षसानां
च
निनदैर्हरीणां
चापि
निस्वनैः ।
सा
बभूव
निशा
घोरा
भूयो
घोरतरा
तदा ॥ २४ ॥
तेन
शब्देन
महता
प्रवृद्धेन
समन्ततः ।
त्रिकूटः
कन्दराकीर्णः
प्रव्याहरदिवाचलः ॥ २५ ॥
गोलाङ्गूला
महाकायास्तमसा
तुल्यवर्चसः ।
सम्परिष्वज्य
बाहुभ्यां
भक्षयन्
रजनीचरान् ॥ २६ ॥
अङ्गदस्तु
रणे
शत्रुं
निहन्तुं
समुपस्थितः ।
रावणिं
निजघानाशु
सारथिं
च
हयानपि ॥ २७ ॥
इन्द्रजित्तु
रथं
त्यक्त्वा
हताश्वो
हतसारथिः ।
अङ्गदेन
महाकायस्तत्रैवान्तरधीयत ॥ २८ ॥
तत्कर्म
वालिपुत्रस्य
सर्वे
देवाः
सहर्षिभिः ।
तुष्टुवुः
पूजनार्हस्य
तौ
चोभौ
रामलक्ष्मणौ ॥ २९ ॥
ततः
प्रहृष्टाः
कपयः
ससुग्रीवविभीषणाः ।
साधु
साध्विति
नेदुश्च
दृष्ट्वा
शत्रुं
प्रधर्षितम् ॥ ३० ॥
इन्द्रजित्तु
तदा
तेन
निर्जितो
भीमकर्मणा ।
संयुगे
वालिपुत्रेण
क्रोधं
चक्रे
सुदारुणम् ॥ ३१ ॥
एतस्मिन्नन्तरे
रामो
वानरान्
वाक्यमब्रवीत् ।
सर्वे
भवन्तस्तिष्ठन्तु
कपिराजेन
सङ्गताः ॥ ३२ ॥
भवतामर्थसिद्ध्यर्थं
कालेन
स
समागतः ।
अद्यैव
क्षमितव्यं
मे
भवन्तो
विगतज्वराः ॥ ३३ ॥
सोऽन्तर्धानगतः
पापो
रावणी
रणकर्कशः ।
अदृश्यो
निशितान्
बाणान्
मुमोचाशनिवर्चसः ॥ ३४ ॥
स
रामं
लक्ष्मणं
चैव
घोरैर्नागमयैः
शरैः ।
बिभेद
समरे
क्रुद्धः
सर्वगात्रेषु
राक्षसः ॥ ३५ ॥
अदृश्यः
सर्वभूतानां
कूटयोधी
निशाचरः ।
बबन्ध
शरबन्धेन
भ्रातरौ
रामलक्ष्मणौ ॥ ३६ ॥
तौ
तेन
पुरुषव्याघ्रौ
क्रुद्धेनाशीविषैः
शरैः ।
सहसा
निहतौ
वीरौ
तदा
प्रैक्षन्त
वानराः ॥ ३७ ॥
प्रकाशरूपस्तु
यदा
न
शक्तस्तौ
बाधितुं
राक्षसराजपुत्रः ।
मायां
प्रयोक्तुं
समुपाजगाम
बबन्ध
तौ
राजसुतौ
महात्मा ॥ ३८ ॥