स
तस्य
गतिमन्विच्छन्
राजपुत्रः
प्रतापवान् ।
दिदेशातिबलो
रामो
दश
वानरयूथपान् ॥ १ ॥
द्वौ
सुषेणस्य
दायादौ
नीलं
च
प्लवगर्षभम् ।
अङ्गदं
वालिपुत्रं
च
शरभं
च
तरस्विनम् ॥ २ ॥
विनतं
जाम्बवन्तं
च
सानुप्रस्थं
महाबलम् ।
ऋषभं
चर्षभस्कन्धमादिदेश
परन्तपः ॥ ३ ॥
ते
सम्प्रहृष्टा
हरयो
भीमानुद्यम्य
पादपान् ।
आकाशं
विविशुः
सर्वे
मार्गमाणा
दिशो
दश ॥ ४ ॥
तेषां
वेगवतां
वेगमिषुभिर्वेगवत्तरैः ।
अस्त्रवित्
परमास्त्रैस्तु
वारयामास
रावणिः ॥ ५ ॥
तं
भीमवेगा
हरयो
नाराचैः
क्षतविग्रहाः ।
अन्धकारे
न
ददृशुर्मेघैः
सूर्यमिवावृतम् ॥ ६ ॥
रामलक्ष्मणयोरेव
सर्वदेहभिदः
शरान् ।
भृशमावेशयामास
रावणिः
समितिञ्जयः ॥ ७ ॥
निरन्तरशरीरौ
तौ
भ्रातरौ
रामलक्ष्णौ ।
क्रुद्धेनेन्द्रजिता
वीरौ
पन्नगैः
शरतां
गतैः ॥ ८ ॥
तयोः
क्षतजमार्गेण
सुस्राव
रुधिरं
बहु ।
तावुभौ
च
प्रकाशेते
पुष्पिताविव
किंशुकौ ॥ ९ ॥
ततः
पर्यन्तरक्ताक्षो
भिन्नाञ्जनचयोपमः ।
रावणिर्भ्रातरौ
वाक्यमन्तर्धानगतोऽब्रवीत् ॥ १० ॥
युद्ध्यमानमनालक्ष्यं
शक्रोऽपि
त्रिदशेश्वरः ।
द्रष्टुमासादितुं
वापि
न
शक्तः
किं
पुनर्युवाम् ॥ ११ ॥
प्रावृताविषुजालेन
राघवौ
कङ्कपत्रिणा ।
एष
रोषपरीतात्मा
नयामि
यमसादनम् ॥ १२ ॥
एवमुक्त्वा
तु
धर्मज्ञौ
भ्रातरौ
रामलक्ष्मणौ ।
निर्बिभेद
शितैर्बाणैः
प्रजहर्ष
ननाद
च ॥ १३ ॥
भिन्नाञ्जनचयश्यामो
विस्फार्य
विपुलं
धनुः ।
भूयो
भूयः
शरान्
घोरान्
विससर्ज
महामृधे ॥ १४ ॥
ततो
मर्मसु
मर्मज्ञो
मज्जयन्निशितान्
शरान् ।
रामलक्ष्मणयोर्वीरो
ननाद
च
मुहुर्मुहुः ॥ १५ ॥
बद्धौ
तु
शरबन्धेन
तावुभौ
रणमूर्धनि ।
निमेषान्तरमात्रेण
न
शेकतुरुदीक्षितुम् ॥ १६ ॥
ततो
विभिन्नसर्वाङ्गौ
शरशल्याचितावुभौ ।
ध्वजाविव
महेन्द्रस्य
रज्जुमुक्तौ
प्रकम्पितौ ॥ १७ ॥
तौ
सम्प्रचलितौ
वीरौ
मर्मभेदेन
कर्शितौ ।
निपेततुर्महेष्वासौ
जगत्यां
जगतीपती ॥ १८ ॥
तौ
वीरशयने
वीरौ
शयानौ
रुधिरोक्षितौ ।
शरवेष्टितसर्वाङ्गावार्तौ
परमपीडितौ ॥ १९ ॥
न
ह्यविद्धं
तयोर्गात्रे
बभूवाङ्गुलमन्तरम् ।
नानिर्भिन्नं
न
चास्तब्धमाकराग्रादजिह्मगैः ॥ २० ॥
तौ
तु
क्रूरेण
निहतौ
रक्षसा
कामरूपिणा ।
असृक्
सुस्रुवतुस्तीव्रं
जलं
प्रस्रवणाविव ॥ २१ ॥
पपात
प्रथमं
रामो
विद्धो
मर्मसु
मार्गणैः ।
क्रोधादिन्द्रजिता
येन
पुरा
शक्रो
विनिर्जितः ॥ २२ ॥
नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि ।
विव्याध
वत्सदन्तैश्च
सिंहदंष्ट्रैः
क्षुरैस्तथा ॥ २३ ॥
स
वीरशयने
शिश्ये
विज्यमादाय
कार्मुकम् ।
भिन्नमुष्टिपरीणाहं
त्रिनतं
रत्नभूषितम् ॥ २४ ॥
बाणपातान्तरे
रामं
पतितं
पुरुषर्षभम् ।
स
तत्र
लक्ष्मणो
दृष्ट्वा
निराशो
जीवितेऽभवत् ॥ २५ ॥
रामं
कमलपत्राक्षं
शरबन्धपरिक्षतम् ।
शुशोच
भ्रातरं
दृष्ट्वा
पतितं
घरणीतले ॥ २६ ॥
हरयश्चापि
तं
दृष्ट्वा
सन्तापं
परमं
गताः ।
बद्धौ
तु
वीरौ
पतितौ
शयानौ
तौ
वानराः
सम्परिवार्य
तस्थुः ॥ २७ ॥
समागता
वायुसुतप्रमुख्या
विषादमार्ताः
परमं
च
जग्मुः ॥ २८ ॥