ततो
द्यां
पृथिवीं
चैव
वीक्षमाणा
वनौकसः ।
ददृशुः
सन्ततौ
बाणैर्भ्रातरौ
रामलक्ष्मणौ ॥ १ ॥
वृष्ट्वेवोपरते
देवे
कृतकर्मणि
राक्षसे ।
आजगामाथ
तं
देशं
ससुग्रीवो
विभीषणः ॥ २ ॥
नीलद्विविदमैन्दाश्च
सुषेणकुमुदाङ्गदाः ।
तूर्णं
हनुमता
सार्धमन्वशोचन्त
राघवौ ॥ ३ ॥
अचेष्टौ
मन्दनिश्वासौ
शोणितौघपरिप्लुतौ ।
शरजालाचितौ
स्तब्धौ
शयानौ
शरतल्पयोः ॥ ४ ॥
निश्वसन्तौ
यथा
सर्पौ
निश्चेष्टौ
मन्दविक्रमौ ।
रुधिरस्रावदिग्धाङ्गौ
तापनीयाविव
ध्वजौ ॥ ५ ॥
तौ
वीरशयने
वीरौ
शयनौ
मन्दचेष्टितौ ।
यूथपैस्तैः
परिवृतौ
बाष्पव्याकुललोचनैः ॥ ६ ॥
राघवौ
पतितौ
दृष्ट्वा
शरजालसमावृतौ ।
बभूवुर्व्यथिताः
सर्वे
वानराः
सविभीषणाः ॥ ७ ॥
अन्तरिक्षं
निरीक्षन्तो
दिशः
सर्वाश्च
वानराः ।
न
चैनं
मायया
च्छन्नं
ददृशू
रावणिं
रणे ॥ ८ ॥
त
तु
मायाप्रतिच्छन्नं
माययैव
विभीषणः ।
वीक्षमाणो
ददर्शाथ
भ्रातुः
पुत्रमवस्थितम् ॥ ९ ॥
तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ।
ददर्शान्तर्हितं
वीरं
वरदानाद्विभीषणः ॥ १० ॥
तेजसा
यशसा
चैव
विक्रमेण
च
संयुतम् ।
इन्द्रजित्त्वात्मनः
कर्म
तौ
शयानौ
समीक्ष्य
च ॥ ११ ॥
उवाच
परमप्रीतो
हर्षयन्
सर्वनैर्ऋतान् ।
दूषणस्य
च
हन्तारौ
खरस्य
च
महाबलौ ॥ १२ ॥
सादितौ
मामकैर्बाणैर्भ्रातरौ
रामलक्ष्णौ ।
नेमौ
मोक्षयितुं
शक्यावेतस्मादिषुबन्धनात् ॥ १३ ॥
सर्वैरपि
समागम्य
सर्षिसङ्घैः
सुरासुरैः ।
यत्कृते
चिन्तयानस्य
शोकार्तस्य
पितुर्मम ॥ १४ ॥
अस्पृष्ट्वा
शयनं
गात्रैस्त्रियामा
याति
शर्वरी ।
कृत्स्नेयं
यत्कृते
लङ्का
नदी
वर्षास्विवाकुला ॥ १५ ॥
सोऽयं
मूलहरोऽनर्थः
सर्वेषां
निहतो
मया ।
रामस्य
लक्ष्मणस्यापि
सर्वेषां
च
वनौकसाम् ॥ १६ ॥
विक्रमा
निष्फलाः
सर्वे
यथा
शरदि
तोयदाः ।
एवमुक्त्वा
तु
तान्
सर्वान्
राक्षसान्
परिपार्श्वतः ॥ १७ ॥
यूथपानपि
तान्
सर्वांस्ताडयामास
रावणिः ।
नीलं
नवभिराहत्य
मैन्दं
च
द्विविदं
तथा ॥ १८ ॥
त्रिभिस्त्रिभिरमित्रघ्नस्तताप
प्रवरेषुभिः ।
जाम्बवन्तं
महेष्वासो
विद्ध्वा
बाणेन
वक्षसि ॥ १९ ॥
हनूमतो
वेगवतो
विससर्ज
शरान्
दश ।
गवाक्षं
शरभं
चैव
द्वावप्यमिततेजसौ ॥ २० ॥
द्वाभ्यां
द्वाभ्यां
महावेगो
विव्याध
युधि
रावणिः ।
गोलाङ्गूलेश्वरं
चैव
वालिपुत्रमथाङ्गदम् ॥ २१ ॥
विव्याध
बहुभिर्बाणैस्त्वरमाणोऽथ
रावणिः ।
तान्
वानरवरान्
भित्त्वा
शरैरग्निशिखोपमैः ॥ २२ ॥
ननाद
बलवांस्तत्र
महासत्त्वः
स
रावणिः ।
तानर्दयित्वा
बाणौघैस्त्रासयित्वा
च
वानरान् ॥ २३ ॥
प्रजहास
महाबाहुर्वचनं
चेदमब्रवीत् ।
शरबन्धेन
घोरेण
मया
बद्धौ
चमूमुखे ॥ २४ ॥
सहितौ
भ्रातरावेतौ
निशामयत
राक्षसाः ।
एवमुक्तास्तु
ते
सर्वे
राक्षसाः
कूटयोधिनः ॥ २५ ॥
परं
विस्मयमाजग्मुः
कर्मणा
तेन
हर्षिताः ।
विनेदुश्च
महानादान्
सर्वतो
जलदोपमाः ॥ २६ ॥
हतो
राम
इति
ज्ञात्वा
रावणिं
समपूजयन् ।
निष्पन्दौ
तु
तदा
दृष्ट्वा
तावुभौ
रामलक्ष्मणौ ॥ २७ ॥
वसुधायां
निरुच्छ्वासौ
हतावित्यन्वमन्यत ।
हर्षेण
तु
समाविष्ट
इन्द्रजित्
समितिञ्जयः ॥ २८ ॥
प्रविवेश
पुरीं
लङ्कां
हर्षयन्
सर्वराक्षसान् ।
रामलक्ष्मणयोर्द्दष्ट्वा
शरीरे
सायकैश्चिते ॥ २९ ॥
सर्वाणि
चाङ्गोपाङ्गानि
सुग्रीवं
भयमाविशत् ।
तमुवाच
परित्रस्तं
वानरेन्द्रं
विभीषणः ॥ ३० ॥
सबाष्पवदनं
दीनं
शोकव्याकुललोचनम् ।
अलं
त्रासेन
सुग्रीव
बाष्पवेगो
निगृह्यताम् ॥ ३१ ॥
एवं
प्रायाणि
युद्धानि
विजयो
नास्ति
नैष्ठिकः ।
सशेषभाग्यताऽस्माकं
यदि
वीर
भविष्यति ॥ ३२ ॥
मोहमेतौ
प्रहास्येते
महात्मानौ
महाबलौ ।
पर्यवस्थापयात्मानमनाथं
मां
च
वानर ॥ ३३ ॥
सत्यधर्माभिरक्तानां
नास्ति
मृत्युकृतं
भयम् ।
एवमुक्त्वा
ततस्तस्य
जलक्लिन्नेन
पाणिना ॥ ३४ ॥
सुग्रीवस्य
शुभे
नेत्रे
प्रममार्ज
विभिषणः ।
ततः
सलिलमादाय
विद्यया
परिजप्य
च ॥ ३५ ॥
सुग्रीवनेत्रे
धर्मात्मा
स
ममार्ज
विभीषणः ।
प्रमृज्य
वदनं
तस्य
कपिराजस्य
धीमतः ॥ ३६ ॥
अब्रवीत्
कालसम्प्राप्तमसम्भ्रममिदं
वचः ।
न
कालः
कपिराजेन्द्र
वैक्लव्यमनुवर्तितुम् ॥ ३७ ॥
अतिस्नेहोऽप्यकालेऽस्मिन्
मरणायोपकल्पते ।
तस्मादुत्सृज्य
वैक्लव्यं
सर्वकार्यविनाशनम् ॥ ३८ ॥
हितं
रामपुरोगाणां
सैन्यानामनुचिन्त्यताम् ।
अथवा
रक्ष्यतां
रामो
यावत्
सञ्ज्ञाविपर्ययः ॥ ३९ ॥
लब्धसञ्ज्ञौ
हि
काकुत्स्थौ
भयं
नो
व्यपनेष्यतः ।
नैतत्
किञ्चन
रामस्य
न
च
रामो
मुमूर्षति ॥ ४० ॥
न
ह्येनं
हास्यते
लक्ष्मीर्दुर्लभा
या
गतायुषाम् ।
तस्मादाश्वासयात्मानं
बलं
चाश्वासय
स्वकम् ॥ ४१ ॥
यावत्
कार्याणि
सर्वाणि
पुनः
संस्थापयाम्यहम् ।
एते
हि
फुल्लनयनास्त्रासादागतसाध्वसाः ॥ ४२ ॥
कर्णे
कर्णे
प्रकथिता
हरयो
हरिसत्तम ।
मां
तु
दृष्ट्वा
प्रधावन्तमनीकं
सम्प्रहर्षितुम् ॥ ४३ ॥
त्यजन्तु
हरयस्त्रासं
भुक्तपूर्वामिव
स्रजम् ।
समाश्वास्य
तु
सुग्रीवं
राक्षसेन्द्रो
विभीषणः ॥ ४४ ॥
विद्रुतं
वानरानीकं
तत्समाश्वासयत्
पुनः ।
इन्द्रजित्तु
महामायः
सर्वसैन्यसमावृतः ॥ ४५ ॥
विवेश
नगरीं
लङ्कां
पितरं
चाभ्युपागमत् ।
तत्र
रावणमासीनमभिवाद्य
कृताञ्जलिः ॥ ४६ ॥
आचचक्षे
प्रियं
पित्रे
निहतौ
रामलक्ष्मणौ ।
रावणो
रक्षसां
मध्ये
श्रुत्वा
शत्रू
निपातितौ ॥ ४७ ॥
उपाघ्राय
स
मूर्ध्न्येनं
पप्रच्छ
प्रीतमानसः ।
पृच्छते
च
यथावृत्तं
पित्रे
सर्वं
न्यवेदयत् ॥ ४८ ॥
यथा
तौ
शरबन्धेन
निश्चेष्टौ
निष्प्रभौ
कृतौ ।
स
हर्षवेगानुगतान्तरात्मा
श्रुत्वा
वचस्तस्य
महारथस्य ॥ ४९ ॥
जहौ
ज्वरं
दाशरथेः
समुत्थितं
प्रहृष्य
वाचाऽभिननन्द
पुत्रम् ॥ ५० ॥