प्रतिप्रविष्टे
लङ्कां
तु
कृतार्थे
रावणात्मजे ।
राघवं
परिवार्यार्ता
ररक्षुर्वानरर्षभाः ॥ १ ॥
गजो
गवाक्षो
गवयः
शरभो
गन्धमादनः ।
जाम्बवानृषभः
स्कन्धो
रम्भः
शतवलिः
पृथुः ॥ २ ॥
वीक्षमाणा
दिशः
सर्वास्तिर्यगूर्ध्वं
च
वानराः ।
तृणेष्वपि
च
चेष्टत्सु
राक्षसा
इति
मेनिरे ॥ ३ ॥
रावणश्चापि
संहृष्टो
विसृज्येन्द्रजितं
सुतम् ।
आजुहाव
ततः
सीतारक्षिणी
राक्षसीस्तदा ॥ ४ ॥
राक्षस्यस्त्रिजटा
चैव
शासनात्
समुपस्थिताः ।
ता
उवाच
ततो
हृष्टो
राक्षसी
राक्षसाधिपः ॥ ५ ॥
हताविन्द्रजिताऽऽख्यात
वैदेह्या
रामलक्ष्मणौ ।
पुष्पकं
च
समारोप्य
दर्शयध्वं
हतौ
रणे ॥ ६ ॥
यदाश्रयादवष्टब्धा
नेयं
मामुपतिष्ठति ।
सोऽस्या
भर्त्ता
सह
भ्रात्रा
निरस्तो
रणमूर्धनि ॥ ७ ॥
निर्विशङ्का
निरुद्विग्ना
निरपेक्षा
च
मैथिली ।
मामुपस्थास्यते
सीता
सर्वाभरणभूषिता ॥ ८ ॥
अवेक्ष्य
विनिवृत्ताशा
चान्यां
गतिमपश्यती ।
निरपेक्षा
विशालाक्षी
मामुपस्थास्यते
स्वयम् ॥ ९ ॥
तस्य
तद्वचनं
च
श्रुत्वा
रावणस्य
दुरात्मनः ।
राक्षस्यस्तास्तथेत्युक्त्वा
जग्मुर्वै
यत्र
पुष्पकम् ॥ १० ॥
ततः
पुष्पकमादाय
राक्षस्यो
रावणाज्ञया ।
अशोकवनिकास्थां
तां
मैथिलीं
समुपानयन् ॥ ११ ॥
तामादाय
तु
राक्षस्यो
भर्तृशोकपराजिताम् ।
सीतामारोपयामासुर्विमानं
पुष्पकं
तदा ॥ १२ ॥
ततः
पुष्पकमारोप्य
सीतां
त्रिजटया
सह ।
जग्मुर्दर्शयितुं
तस्यै
राक्षस्यो
रामलक्ष्मणौ ॥ १३ ॥
प्राघोषयत
हृष्टश्च
लङ्कायां
राक्षसेश्वरः ।
राघवो
लक्ष्मणश्चैव
हताविन्द्रजिता
रणे ॥ १४ ॥
विमानेनापि
सीता
तु
गत्वा
त्रिजटया
सह ।
ददर्श
वानराणां
तु
सर्वं
सैन्यं
निपातितम् ॥ १५ ॥
प्रहृष्टमनसश्चापि
ददर्श
पिशिताशनान् ।
वानरांश्चापि
दुःखार्तान्
रामलक्ष्मणपार्श्वतः ॥ १६ ॥
ततः
सीता
ददर्शोभौ
शयानौ
शरतल्पयोः ।
लक्ष्मणं
चापि
रामं
च
विसञ्ज्ञौ
शरपीडितौ ॥ १७ ॥
विध्वस्तकवचौ
वीरौ
विप्रविद्धशरासनौ ।
सायकैश्छिन्नसर्वाङ्गौ
शरस्तम्बमयौ
क्षितौ ॥ १८ ॥
तौ
दृष्ट्वा
भ्रातरौ
तत्र
वीरौ
सा
पुरुषर्षभौ ।
शयानौ
पुण्डरीकाक्षौ
कुमाराविव
पावकी ॥ १९ ॥
शरतल्पगतौ
वीरौ
तथाभूतौ
नरर्षभौ ।
दुःखार्ता
सुभृशं
सीता
सुचिरं
विललाप
ह ॥ २० ॥
भर्तारमनवद्याङ्गी
लक्ष्मणं
चासितेक्षणा ।
प्रेक्ष्य
पांसुषु
वेष्टन्तौ
रुरोद
जनकात्मजा ॥ २१ ॥
सा
बाष्पशोकाभिहता
समीक्ष्य
तौ
भ्रातरौ
देवसमप्रभावौ ।
वितर्कयन्ती
निधनं
तयोः
सा
दुःखान्विता
वाक्यमिदं
जगाद ॥ २२ ॥