घोरेण
शरबन्धेन
बद्धौ
दशरथात्मजौ ।
निश्वसन्तौ
यथा
नागौ
शयानौ
रुधिरोक्षितौ ॥ १ ॥
सर्वे
ते
वानरश्रेष्ठाः
ससुग्रीवा
महाबलाः ।
परिवार्य
महात्मानौ
तस्थुः
शोकपरिप्लुताः ॥ २ ॥
एतस्मिन्नन्तरे
रामः
प्रत्यबुध्यत
वीर्यवान् ।
स्थिरत्वात्
सत्त्वयोगाच्च
शरैः
सन्दानितोऽपि
सन् ॥ ३ ॥
ततो
दृष्ट्वा
सरुधिरं
विषण्णं
गाढमर्पितम् ।
भ्रातरं
दीनवदनं
पर्यदेवयदातुरः ॥ ४ ॥
किं
नु
मे
सीतया
कार्यं
किं
कार्यं
जीवितेन
वा ।
शयानं
योऽद्य
पश्यामि
भ्रातरं
युधि
निर्जितम् ॥ ५ ॥
शक्या
सीतासमा
नारी
मर्त्यलोके
विचिन्वता ।
न
लक्ष्मणसमो
भ्राता
सचिवः
साम्परायिकः ॥ ६ ॥
परित्यक्ष्याम्यहं
प्राणं
वानराणां
तु
पश्यताम् ।
यदि
पञ्चत्वमापन्नः
सुमित्रानन्दवर्धनः ॥ ७ ॥
किं
नु
वक्ष्यामि
कौसल्यां
मातरं
किं
नु
कैकयीम् ।
कथमम्भां
सुमित्रां
च
पुत्रदर्शनलालसाम् ॥ ८ ॥
विवत्सां
वेपमानां
च
क्रोशन्तीं
कुररीमिव ।
कथमाश्वासयिष्यामि
यदा
यास्यामि
तं
विना ॥ ९ ॥
कथं
वक्ष्यामि
शत्रुघ्नं
भरतं
च
यशस्विनम् ।
मया
सह
वनं
यातो
विना
तेन
गतः
पुनः ॥ १० ॥
उपालम्भं
न
शक्ष्यामि
सोढुं
बत
सुमित्रया ।
इहैव
देहं
त्यक्ष्यामि
न
हि
जीवितुमुत्सहे ॥ ११ ॥
धिङ्मां
दुष्कृतकर्माणमनार्यं
यत्कृते
ह्यसौ ।
लक्ष्मणः
पतितः
शेते
शरतल्पे
गतासुवत् ॥ १२ ॥
त्वं
नित्यं
स
विषण्णं
मामाश्वासयसि
लक्ष्मण ।
गतासुर्नाद्य
शक्नोषि
मामार्तमभिभाषितुम् ॥ १३ ॥
येनाद्य
निहता
युद्धे
राक्षसा
विनिपातिताः ।
तस्यमेव
क्षितौ
वीरः
स
शेते
निहतः
परैः ॥ १४ ॥
शयानः
शरतल्पेऽस्मिन्
स्वशोणितपरिप्लुतः ।
शरजालैश्चितो
भाति
भास्करोऽस्तमिव
व्रजन् ॥ १५ ॥
बाणाभिहतमर्मत्वान्न
शक्नोत्यभिभाषितुम् ।
रुजा
चाब्रुवतोऽप्यस्य
दृष्टिरागेण
सूच्यते ॥ १६ ॥
यथैव
मां
वनं
यान्तमनुयातो
महाद्युतिः ।
अहमप्यनुयास्यामि
तथैवैनं
यमक्षयम् ॥ १७ ॥
इष्टबन्धुजनो
नित्यं
मां
च
नित्यमनुव्रतः ।
इमामद्य
गतोऽवस्थां
ममानार्यस्य
दुर्नयैः ॥ १८ ॥
सुरुष्टेनापि
वीरेण
लक्ष्मणेन
न
संस्मरे ।
परुषं
विप्रियं
वापि
श्रावितं
तु
कदाचन ॥ १९ ॥
विससर्जैकवेगेन
पञ्चबाणशतानि
यः ।
इष्वस्त्रेष्वधिकस्तस्मात्
कार्तवीर्याच्च
लक्ष्मणः ॥ २० ॥
अस्त्रैरस्त्राणि
यो
हन्याच्छक्रस्यापि
महात्मनः ।
सोऽयमुर्व्यां
हतः
शेते
महार्हशयनोचितः ॥ २१ ॥
यन्मया
न
कृतो
राजा
राक्षसानां
विभीषणः ।
तच्च
मिथ्याप्रलप्तं
मां
प्रधक्ष्यति
न
संशयः ॥ २२ ॥
अस्मिन्मुहूर्ते
सुग्रीव
प्रतियातुमितोऽर्हसि ।
मत्वा
हीनं
मया
राजन्
रावणोऽभिद्रवेद्बली ॥ २३ ॥
अङ्गदं
तु
पुरस्कृत्य
ससैन्यः
ससुहृज्जनः ।
सागरं
तर
सुग्रीव
नीलेन
च
नलेन
च ॥ २४ ॥
कृतं
हनुमता
कार्यं
यदन्यैर्दुष्करं
रणे ।
ऋक्षराजेन
तुष्यामि
गोलाङ्गूलाधिपेन
च ॥ २५ ॥
अङ्गदेन
कृतं
कर्म
मैन्देन
द्विविदेन
च ।
युद्धं
केसरिणा
सङ्ख्ये
घोरं
सम्पातिना
कृतम् ॥ २६ ॥
अन्यैश्च
हरिभिर्युद्धं
मदर्थे
त्यक्तजीवितैः ।
न
चातिक्रमितुं
शक्यं
दैवं
सुग्रीवमानुषैः ॥ २७ ॥
यत्तु
शक्यं
वयस्येन
सुहृदा
च
परन्तप ।
कृतं
सुग्रीव
तत्सर्वं
भवता
धर्मभीरुणा ॥ २८ ॥
मित्रकार्यं
कृतमिदं
भवद्भिर्वानरर्षभाः ।
अनुज्ञाता
मया
सर्वे
यथेष्टं
गन्तुमर्हथ ॥ २९ ॥
शुश्रुवस्तस्य
ते
सर्वे
वानराः
परिदेवनम् ।
वर्तयाञ्चकुरश्रूणि
नेत्रैः
कृष्णेतरेक्षणाः ॥ ३० ॥
ततः
सर्वाण्यनीकानि
स्थापयित्वा
विभीषणः ।
आजगाम
गदापाणिस्त्वरितो
यत्र
राघवः ॥ ३१ ॥
तं
दृष्ट्वा
त्वरितं
यान्तं
नीलाञ्जनचयोपमम् ।
वानरा
दुद्रुवुः
सर्वे
मन्यमानास्तु
रावणिम्
* ॥ ३२ ॥