अथोवाच
महातेजा
हरिराजो
महाबलः ।
किमियं
व्यथिता
सेना
मूढवातेव
नौर्जले ॥ १ ॥
सुग्रीवस्य
वचः
श्रुत्वा
वालिपुत्रोऽङ्गदोऽब्रवीत् ।
शरजालाचितौ
वीरावुभौ
दशरथात्मजौ ॥ २ ॥
शरतल्पे
महात्मानौ
शयानौ
रुधिरोक्षितौ ।
अथाब्रवीद्वानरेन्द्रः
सुग्रीवः
पुत्रमङ्गदम् ॥ ३ ॥
नानिमित्तमिदं
मन्ये
भवितव्यं
भयेन
तु ।
विषण्णवदना
ह्येते
त्यक्तप्रहरणा
दिशः ॥ ४ ॥
प्रपलायन्ति
हरयस्त्रासादुत्फुल्ललोचनाः ।
अन्योन्यस्य
न
लज्जन्ते
न
निरीक्षन्ति
पृष्ठतः ॥ ५ ॥
विप्रकर्षन्ति
चान्योन्यं
पतितं
लङ्घयन्ति
च ।
एतस्मिन्नन्तरे
वीरो
गदापाणिर्विभीषणः ॥ ६ ॥
सुग्रीवं
वर्धयामास
राघवं
च
निरैक्षत ।
विभीषणं
तं
सुग्रीवो
दृष्ट्वा
वानरभीषणम् ॥ ७ ॥
ऋक्षराजं
समीपस्थं
जाम्बवन्तमुवाच
ह ।
विभीषणोऽयं
सम्प्रप्तो
यं
दृष्ट्वा
वानरर्षभाः ॥ ८ ॥
विद्रवन्ति
परित्रस्ता
रावणात्मजशङ्कया ।
शीघ्रमेतान्
सुसन्त्रस्तान्
बहुधा
विप्रधावितान् ॥ ९ ॥
प्रर्यवस्थापयाख्याहि
विभीषणमुपस्थितम् ।
सुग्रीवेणैवमुक्तस्तु
जाम्बवानृक्षपार्थिवः ॥ १० ॥
वानरान्
सान्त्वयामास
सन्निरुध्य
प्रधावतः ।
ते
निवृत्ताः
पुनः
सर्वे
वानरास्त्यक्तसम्भ्रमाः ॥ ११ ॥
ऋक्षराजवचः
श्रुत्वा
तं
च
दृष्ट्वा
विभीषणम् ।
विभीषणस्तु
रामस्य
दृष्ट्वा
गात्रं
शरैश्चितम् ॥ १२ ॥
लक्ष्मणस्य
च
धर्मात्मा
बभूव
व्यथितेन्द्रियः ।
जलक्लिन्नेन
हस्तेन
तयोर्नेत्रे
प्रमृज्य
च ॥ १३ ॥
शोकसम्पीडितमना
रुरोद
विललाप
च ।
इमौ
तौ
सत्त्वसम्पन्नौ
विक्रान्तौ
प्रियसंयुगौ ॥ १४ ॥
इमामवस्थां
गमितौ
राक्षसैः
कूटयोधिभिः ।
भ्रातुः
पुत्रेण
मे
तेन
दुष्पुत्रेण
दुरात्मना ॥ १५ ॥
राक्षस्या
जिह्मया
बुद्ध्या
चालितावृजुविक्रमौ ।
शरैरिमावलं
विद्धौ
रुधिरेण
समुक्षितौ ॥ १६ ॥
वसुधायामिमौ
सुप्तौ
दृश्येते
शल्यकाविव ।
ययोर्वीर्यमुपाश्रित्य
प्रतिष्ठा
काङ्क्षिता
मया ॥ १७ ॥
तावुभौ
देहनाशाय
प्रसुप्तौ
पुरुषर्षभौ ।
जीवन्नद्य
विपन्नोऽस्मि
नष्टराज्यमनोरथः ॥ १८ ॥
प्राप्तप्रतिज्ञश्च
रिपुः
सकामो
रावणः
कृतः ।
एवं
विलपमानं
तं
परिष्वज्य
विभीषणम् ॥ १९ ॥
सुग्रीवः
सत्त्वसम्पन्नो
हरिराजोऽब्रवीदिदम् ।
राज्यं
प्राप्स्यसि
धर्मज्ञ
लङ्कायां
नात्र
संशयः ॥ २० ॥
रावणः
सह
पुत्रेण
सकामं
नेह
लप्स्यते ।
न
रुजा
पीडितावेतावुभौ
राघवलक्ष्मणौ ॥ २१ ॥
त्यक्त्वा
मोहं
वधिष्येते
सगणं
रावणं
रणे ।
तमेनं
सान्त्वयित्वा
तु
समाश्वास्य
च
राक्षसम् ॥ २२ ॥
सुषेणं
श्वशुरं
पार्श्वे
सुग्रीवस्तमुवाच
ह ।
सह
शूरैर्हरिगणैर्लब्धसञ्ज्ञावरिन्दमौ ॥ २३ ॥
गच्छ
त्वं
भ्रातरौ
गृह्य
किष्किन्धां
रामलक्ष्मणौ ।
मैथिलीमानयिष्यामि
शक्रो
नष्टामिव
श्रियम् ॥ २४ ॥
श्रुत्वैतद्वानरेन्द्रस्य
सुषेणो
वाक्यमब्रवीत् ।
दैवासुरं
महद्युद्धमनुभूतं
सुदारुणम् ॥ २५ ॥
तदा
स्म
दानवा
देवान्
शरसंस्पर्शकोविदाः ।
निजघ्नुः
शस्त्रविदुषश्छादयन्तो
मुहुर्मुहुः ॥ २६ ॥
तानार्तान्नष्टसञ्ज्ञांश्च
परासूंश्च
बृहस्पतिः ।
विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति ॥ २७ ॥
जवेन
वानराः
शीघ्रं
सम्पातिपनसादयः ।
हरयस्तु
विजानन्ति
पार्वतीस्ता
महौषधीः ॥ २८ ॥
सञ्जीवकरणीं
दिव्यां
विशल्यां
देवनिर्मिताम् ।
चन्द्रश्च
नाम
द्रोणश्च
क्षीरोदे
सागरोत्तमे ॥ २९ ॥
अमृतं
यत्र
मथितं
तत्र
ते
परमौषधी ।
अयं
वायुसुतो
राजन्
हनुमांस्तत्र
गच्छतु ॥ ३० ॥
एतस्मिन्नन्तरे
वायुर्मेघांश्चापि
सविद्युतः ।
पर्यस्यन्
सागरे
तोयं
कम्पयन्निव
मेदिनीम् ॥ ३१ ॥
महता
पक्षवातेन
सर्वद्वीपमहाद्रुमाः ।
निपेतुर्भिन्नविटपाः
समूला
लवणाम्भसि ॥ ३२ ॥
अभवन्
पन्नगास्त्रस्ता
भोगिनस्तत्रवासिनः ।
शीघ्रं
सर्वाणि
यादांसि
जग्मुश्च
लवणार्णवम् ॥ ३३ ॥
ततो
मुहूर्ताद्गरुडं
वैनतेयं
महाबलम् ।
वानरा
ददृशुः
सर्वेज्वलन्तमिव
पावकम् ॥ ३४ ॥
तमागतमभिप्रेक्ष्य
नागास्ते
विप्रदुद्रुवुः ।
यैस्तौ
सत्पुरुषौ
बद्धौ
शरभूतैर्महाबलौ ॥ ३५ ॥
ततः
सुपर्णः
काकुत्स्थौ
दृष्ट्वा
प्रत्यभिनन्दितः ।
विममर्श
च
पाणिभ्यां
मुखे
चन्द्रसमप्रभे ॥ ३६ ॥
वैनतेयेन
संस्पृष्टास्तयोः
संरुरुहुर्व्रणाः ।
सुवर्णे
च
तनू
स्निग्धे
तयोराशु
बभूवतुः ॥ ३७ ॥
तेजो
वीर्यं
बलं
चौज
उत्साहश्च
महागुणः ।
प्रदर्शनं
च
बुद्धिश्च
स्मृतिश्च
द्विगुणं
तयोः ॥ ३८ ॥
तावुत्थाप्य
महावीर्यौ
गरुडो
वासवोपमौ ।
उभौ
तौ
सस्वजे
हृष्टौ
रामश्चैनमुवाच
ह ॥ ३९ ॥
भवत्प्रसादाद्व्यसनं
रावणिप्रभवं
महत् ।
आवामिह
व्यतिक्रान्तौ
पूर्ववद्बलिनौ
कृतौ ॥ ४० ॥
यथा
तातं
दशरथं
यथाऽजं
च
पितामहम् ।
तथा
भवन्तमासाद्य
हृदयं
मे
प्रसीदति ॥ ४१ ॥
को
भवान्
रूपसम्पन्नो
दिव्यस्रगनुलेपनः ।
वसानो
विरजे
वस्त्रे
दिव्याभरणभूषितः ॥ ४२ ॥
तमुवाच
महातेजा
वैनतेयो
महाबलः ।
पतत्रिराजः
प्रीतात्मा
हर्षपर्याकुलेक्षणः ॥ ४३ ॥
अहं
सखा
ते
काकुत्स्थ
प्रियः
प्राणो
बहिश्चरः ।
गरुत्मानिह
सम्प्राप्तो
युवाभ्यां
साह्यकारणात् ॥ ४४ ॥
असुरा
वा
महावीर्या
दानवा
वा
महाबलाः ।
सुराश्चापि
सगन्धर्वाः
पुरस्कृत्य
शतक्रतुम् ॥ ४५ ॥
नेमं
मोक्षयितुं
शक्ताः
शरबन्धं
सुदारुणम् ।
मायाबलादिन्द्रजिता
निर्मितं
क्रूरकर्मणा ॥ ४६ ॥
एते
नागाः
काद्रवेया
स्तीक्ष्णदंष्ट्रा
विषोल्बणाः ।
रक्षोमायाप्रभावेन
शरा
भूत्वा
त्वदाश्रिताः ॥ ४७ ॥
सभाग्यश्चासि
धर्मज्ञ
राम
सत्यपराक्रम ।
लक्ष्मणेन
सह
भ्रात्रा
समरे
रिपुघातिना ॥ ४८ ॥
इमं
श्रुत्वा
तु
वृत्तान्तं
त्वरमाणोऽहमागतः ।
सहसा
युवयोः
स्नेहात्
सखित्वमनुपालयन् ॥ ४९ ॥
मोक्षितौ
च
महाघोरादस्मात्
सायकबन्धनात् ।
अप्रमादश्च
कर्तव्यो
युवाभ्यां
नित्यमेव
हि ॥ ५० ॥
प्रकृत्या
राक्षसाः
सर्वे
सङ्ग्रामे
कूटयोधिनः ।
शूराणां
शुद्धभावानां
भवतामार्जवं
बलम् ॥ ५१ ॥
तन्न
विश्वसितव्यं
वो
राक्षसानां
रणाजिरे ।
एतेनैवोपमानेन
नित्यं
जिह्मा
हि
राक्षसाः ॥ ५२ ॥
एवमुक्त्वा
ततो
रामं
सुपर्णः
सुमहाबलः ।
परिष्वज्य
सुहृत्
स्निग्धमाप्रष्टुमुपचक्रमे ॥ ५३ ॥
सखे
राघव
धर्मज्ञ
रिपूणामपि
वत्सल ।
अभ्यनुज्ञातुमिच्छामि
गमिष्यामि
यथागतम् ॥ ५४ ॥
न
च
कौतूहलं
कार्यं
सखित्वं
प्रति
राघव ।
कृतकर्मा
रणे
वीरः
सखित्वमनुवेत्स्यसि ॥ ५५ ॥
बालवृद्धावशेषां
तु
लङ्कां
कृत्वा
शरोर्मिभिः ।
रावणं
च
रिपुं
हत्वा
सीतां
समुपलप्स्यसे ॥ ५६ ॥
इत्येवमुक्त्वा
वचनं
सुपर्णः
शीघ्रविक्रमः ।
रामं
च
विरुजं
कृत्वा
मध्ये
तेषां
वनौकसाम् ॥ ५७ ॥
प्रदक्षिणं
ततः
कृत्वा
परिष्वज्य
च
वीर्यवान् ।
जगामाकाशमाविश्य
सुपर्णः
पवनो
यथा ॥ ५८ ॥
विरुजौ
राघवौ
दृष्ट्वा
ततो
वानरयूथपाः ।
सिंहनादांस्तदा
नेदुर्लाङ्गूलान्
दुधुवुस्तदा ॥ ५९ ॥
ततो
भेरीः
समाजघ्नुर्मृदङ्गांश्चाप्यनादयन् ।
दध्मुः
शङ्खान्
सम्प्रहृष्टाः
क्ष्वेलन्त्यपि
यथापुरम् ॥ ६० ॥
आस्फोट्यास्फोट्य
विक्रान्ता
वानरा
नगयोधिनः ।
द्रुमानुत्पाट्य
विविधांस्तस्थुः
शतसहस्रशः ॥ ६१ ॥
विसृजन्तो
महानादांस्त्रासयन्तो
निशाचरान् ।
लङ्काद्वारण्युपाजग्मुर्योद्धुकामाः
प्लवङ्गमाः ॥ ६२ ॥
ततस्तु
भीमस्तुमुलो
निनादो
बभूव
शाखामृगयूथपानाम् ।
क्षये
निदाघस्य
यथा
घनानां
नादः
सुभीमो
नदतां
निशीथे ॥ ६३ ॥