तेषां
सुतुमुलं
शब्दं
वानराणां
तरस्विनाम् ।
नदतां
राक्षसैः
सार्धं
तदा
शुश्राव
रावणः ॥ १ ॥
स्निग्धगम्भीरनिर्घोषं
श्रुत्वा
स
निनदं
भृशम् ।
सचिवानां
ततस्तेषां
मध्ये
वचनमब्रवीत् ॥ २ ॥
बहूनां
सुमहानादो
मेघानामिव
गर्जताम् ।
व्यक्तं
सुमहती
प्रीतिरेतेषां
नात्र
संशयः ॥ ३ ॥
तथा
हि
विपुलैर्नादश्चुक्षुभे
वरुणालयः ।
तौ
तु
बद्धौ
शरैस्तीक्ष्णैर्भ्रातरौ
रामलक्ष्मणौ ॥ ४ ॥
अयं
च
सुमहान्नादः
शङ्कां
जनयतीव
मे ।
एतत्तु
वचनं
चोक्त्वा
मन्त्रिणो
राक्षसेश्वरः ॥ ५ ॥
उवाच
नैर्ऋतांस्तत्र
समीपपरिवर्तिनः ।
ज्ञायतां
तूर्णमेतेषां
सर्वेषां
वनचारिणाम् ॥ ६ ॥
शोककाले
समुत्पन्ने
हर्षकारणमुत्थितम् ।
तथोक्तास्तेन
सम्भ्रान्ताः
प्राकारमधिरुह्य
ते ॥ ७ ॥
ददृशुः
पालितां
सेनां
सुग्रीवेण
महात्मना ।
तो
च
मुक्तौ
सुघोरेण
शरबन्धेन
राघवौ ॥ ८ ॥
समुत्थितौ
महावेगौ
विषेदुः
प्रेक्ष्य
राक्षसाः ।
सन्त्रस्तहृदयाः
सर्वे
प्राकारादवरुह्य
ते ॥ ९ ॥
विषण्णवदना
घोरा
राक्षसेन्द्रमुपस्थिताः ।
तदप्रियं
दीनमुखा
रावणस्य
निशाचराः ॥ १० ॥
कृत्स्नं
निवेदयामासुर्यथावद्वाक्यकोविदाः ।
यौ
ताविन्द्रजिता
युद्धे
भ्रातरौ
रामलक्ष्मणौ ॥ ११ ॥
निबद्धौ
शरबन्धेन
निष्प्रकम्पभुजौ
कृतौ ।
विमुक्तौ
शरबन्धेन
तौ
दृश्येते
रणाजिरे ॥ १२ ॥
पाशानिव
गजौ
छित्त्वा
गजेन्द्रसमविक्रमौ ।
तच्छ्रुत्वा
वचनं
तेषां
राक्षसेन्द्रो
महाबलः ॥ १३ ॥
चिन्ताशोकसमाक्रान्तो
विषण्णवदनोऽब्रवीत् ।
घोरैर्दत्तवरैर्बद्धौ
शरैराशीविषोपमैः ॥ १४ ॥
अमोघैः
सूर्यसङ्काशैः
प्रमथ्येन्द्रजिता
युधि ।
तदस्त्रबन्धमासाद्य
यदि
मुक्तौ
रिपू
मम ॥ १५ ॥
संशयस्थमिदं
सर्वमनुपश्याम्यहं
बलम् ।
निष्फलाः
खलु
संवृत्ताः
शरा
वासुकितेजसः ॥ १६ ॥
आदत्तं
यैः
सुसङ्ग्रामे
रिपूणां
मम
जीवितम् ।
एवमुक्त्वा
तु
सङ्क्रुद्धो
निःश्वसन्नुरगो
यथा ॥ १७ ॥
अब्रवीद्रक्षसां
मध्ये
धूम्राक्षं
नाम
राक्षसम् ।
बलेन
महता
युक्तो
रक्षसां
भीमविक्रम ॥ १८ ॥
त्वं
वधायाभिनिर्याहि
रामस्य
सह
वानरैः ।
एवमुक्तस्तु
धूम्राक्षो
राक्षसेन्द्रेण
धीमता ॥ १९ ॥
कृत्वा
प्रणामं
संहृष्टो
निर्जगाम
नृपालयात् ।
अभिनिष्कम्य
तद्द्वारं
बलाध्यक्षमुवाच
ह ॥ २० ॥
त्वरयस्व
बलं
तूर्णं
किं
चिरेण
युयुत्सतः ।
धूम्राक्षवचनं
श्रुत्वा
बलाध्यक्षो
बलानुगः ॥ २१ ॥
बलमुद्योजयामास
रावणस्याज्ञया
द्रुतम् ।
विगर्जमानाः
संहृष्टा
धूम्राक्षं
पर्यवारयन् ॥ २२ ॥
विविधायुधहस्ताश्च
शूलमुद्गरपाणयः ।
गदाभिः
पट्टिशैर्दण्डैरायसैर्मुसलैर्भृशम् ॥ २३ ॥
परिघैर्बिन्दिपालैश्च
भल्लैः
प्रासैः
परश्वधैः ।
निर्ययू
राक्षसा
दिग्भ्योनर्दन्तो
जलदा
यथा ॥ २४ ॥
रथैः
कवचिनस्त्वन्ये
ध्वजैश्च
समलङ्कृतैः ।
सुवर्णजालविहितैः
खरैश्च
विविधाननैः ॥ २५ ॥
हयैः
परमशीघ्रैश्च
गजैन्द्रैश्च
मदोत्कटैः ।
निर्ययू
राक्षसव्याघ्रा
व्याघ्रा
इव
दुरासदाः ॥ २६ ॥
वृकसिंहमुखैर्युक्तं
खरैः
कनकभूषणैः ।
आरुरोह
रथं
दिव्यं
धूम्राक्षः
खरनिस्वनः ॥ २७ ॥
प्रहसन्
पश्चिमद्वारं
हनूमान्
यत्र
यूथपः ।
रथप्रवरमास्थाय
खरयुक्तं
खरस्वनम् ॥ २८ ॥
प्रयान्तं
तु
महाघोरं
राक्षसं
भीमविक्रमम् ।
अन्तरिक्षगता
घोराः
शकुनाः
प्रत्यवारयन् ॥ २९ ॥
रथशीर्षे
महान्
भीमो
गृध्रश्च
निपपात
ह ।
ध्वजाग्रे
ग्रथिताश्चैव
निपेतुः
कुणपाशनाः ॥ ३० ॥
रुधिरार्द्रो
महान्
श्वेतः
कबन्धः
पतितो
भुवि ।
विस्वरं
चोत्सृजन्नादं
धूम्नाक्षस्य
समीपतः ॥ ३१ ॥
ववर्ष
रुधिरं
देवः
सञ्चचाल
च
मेदिनी ।
प्रतिलोभं
ववौ
वायुर्निर्घातसमनिस्वनः ॥ ३२ ॥
तिमिरौघावृतास्तत्र
दिशश्च
न
चकाशिरे ।
स
तूत्पातांस्तदा
दृष्ट्वा
राक्षसानां
भयावहान् ॥ ३३ ॥
प्रादुर्भूतान्
सुघोरांश्च
धूम्राक्षो
व्यथितोऽभवत् ।
मुमुहू
राक्षसाः
सर्वे
धूम्राक्षस्य
पुरस्सराः ॥ ३४ ॥
ततः
सुभीमो
बहुभिर्निशाचरैर्वृतोऽभिनिष्क्रम्य
रणोत्सुको
बली ।
ददर्श
तां
राघवबाहुपालितां
महौघकल्पां
बहुवानरीं
चमूम् ॥ ३५ ॥