धूम्राक्षं
प्रेक्ष्य
निर्यान्तं
राक्षसं
भीमविक्रमम् ।
विनेदुर्वानराः
सर्वे
प्रहृष्टा
युद्धकाङ्क्षिणः ॥ १ ॥
तेषां
सुतुमुलं
युद्धं
सञ्जज्ञे
हरिरक्षसाम् ।
अन्योन्यं
पादपैर्घोरं
निघ्नतां
शूलमुद्गरैः ॥ २ ॥
घोरैश्च
परिघैश्चित्रैस्त्रिशूलैश्चापि
संहतैः ।
राक्षसैर्वानरा
घोरैर्विनिकृत्ताः
समन्ततः ॥ ३ ॥
राक्षसाश्चापि
सङ्क्रुद्धा
वानरान्निशितैः
शरैः ।
विव्यधुर्घोरसङ्काशैः
कङ्कपत्रैरजिह्मगैः ॥ ४ ॥
ते
गदाभिश्च
भीमाभिः
पट्टिशैः
कूटमुद्गरैः ।
विदार्यमाणा
रक्षोभिर्वानरास्ते
महाबलाः ॥ ५ ॥
अमर्षाज्जनितोद्धर्षाश्चक्रुः
कर्माण्यभीतवत् ।
शरनिर्भिन्नगात्रास्ते
शूलनिर्भिन्नदेहिनः ॥ ६ ॥
जगृहुस्ते
द्रुमांस्तत्र
शिलाश्च
हरियूथपाः ।
ते
भीमवेगा
हरयो
नर्दमानास्ततस्ततः ॥ ७ ॥
ममन्थू
राक्षसान्
भीमान्नामानि
च
बभाषिरे ।
तद्वभूवाद्भुतं
घोरं
युद्धं
वानररक्षसाम् ॥ ८ ॥
शिलाभिर्विविधाभिश्च
बहुभिश्चैव
पादपैः ।
राक्षसा
मथिताः
केचिद्वानरैर्जितकाशिभिः ॥ ९ ॥
ववमू
रुधिरं
केचिन्मुखै
रुधिरभोजनाः ।
पार्श्वेषु
दारिताः
केचित्
केचिद्राशीकृता
द्रुमैः ॥ १० ॥
शिलाभिश्चूर्णिताः
केचित्
केचिद्दन्तैर्विदारिताः ।
ध्वजैर्विमथितैर्भग्नैः
खरैश्च
विनिपातितैः ॥ ११ ॥
रथैर्विध्वंसितैश्चापि
पतितै
रजनीचरैः ।
गजेन्द्रैः
पर्वताकारैः
पर्वताग्रैर्वनौकसाम् ॥ १२ ॥
मथितैर्वाजिभिः
कीर्णं
सारोहैर्वसुधातलम् ।
वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य
वेगितैः ॥ १३ ॥
राक्षसाः
करजैस्तीक्ष्णैर्मुखेषु
विनिकर्तिताः ।
विवर्णवदना
भूयो
विप्रकीर्णशिरोरुहाः ॥ १४ ॥
मूढाः
शोणितगन्धेन
निपेतुर्धरणीतले ।
अन्ये
परमसङ्क्रुद्धा
राक्षसा
भीमनिस्वनाः ॥ १५ ॥
तलैरेवाभिधावन्ति
वज्रस्पर्शसमैर्हरीन् ।
मुष्टिभिश्चरणैर्दन्तैः
पादपैश्चावपोथिताः ॥ १६ ॥
वानरैर्हन्यमानास्ते
राक्षसा
विप्रदुद्रुवुः ।
सैन्यं
तु
विद्रुतं
दृष्ट्वा
धूम्राक्षो
राक्षसर्षभः ॥ १७ ॥
क्रोधेन
कदनं
चक्रे
वानराणां
युयुत्सताम् ।
प्रासैः
प्रमथिताः
केचिद्वानराः
शोणितस्रवाः ॥ १८ ॥
मुद्गरैराहताः
केचित्
पतिता
धरणीतले ।
परिघैर्मथिताः
केचिद्भिन्दिपालैर्विदारिताः ॥ १९ ॥
पट्टिशैराहताः
केचिद्विह्वलन्तो
गतासवः ।
केचिद्विनिहताः
शूलै
रुधिरार्द्रा
वनौकसः ॥ २० ॥
केचिद्विद्राविता
नष्टाः
सबलै
राक्षसैर्युधि ।
विभिन्नहृदयाः
केचिदेकपार्श्वेन
दारिताः ॥ २१ ॥
विदारिता
स्त्रिशूलैश्च
केचिदान्त्रैर्विनिःसृताः ।
तत्सुभीमं
महायुद्धं
हरिराक्षससङ्कुलम् ॥ २२ ॥
प्रबभौ
शब्दबहुलं
शिलापादपसङ्कुलम् ।
धनुर्ज्यातन्त्रिमधुरं
हिक्कातालसमन्वितम् ॥ २३ ॥
मन्दस्तनितसङ्गीतं
युद्धगान्धर्वमाबभौ ।
धूम्राक्षस्तु
धनुष्पाणिर्वानरान्
रणमूर्धनि ॥ २४ ॥
हसन्
विद्रावयामास
दिशस्तु
शरवृष्टिभिः ।
धूम्राक्षेणार्दितं
सैन्यं
व्यथितं
दृश्य
मारुतिः ॥ २५ ॥
अभ्यवर्तत
सङ्क्रुद्धः
प्रगृह्य
विपुलां
शिलाम् ।
क्रोधाद्द्विगुणताम्राक्षः
पितृतुल्यपराक्रमः ॥ २६ ॥
शिलां
तां
पातयामास
धूम्राक्षस्य
रथं
प्रति ।
आपतन्तीं
शिलां
दृष्ट्वा
गदामुद्यम्य
सम्भ्रमात् ॥ २७ ॥
रथादाप्लुत्य
वेगेन
वसुधायां
व्यतिष्ठत ।
सा
प्रमथ्य
रथं
तस्य
निपपात
शिला
भुवि ॥ २८ ॥
सचक्रकूबरं
साश्वं
सध्वजं
सशरासनम् ।
स
भङ्क्त्वा
तु
रथं
तस्य
हनुमान्
मारुतात्मजः ॥ २९ ॥
रक्षसां
कदनं
चक्रे
सस्कन्धविटपैर्द्रुमैः ।
विभिन्नशिरसो
भूत्वा
राक्षसाः
शोणितोक्षिताः ॥ ३० ॥
द्रुमैः
प्रव्यथिताश्चान्ये
निपेतुर्धरणीतले ।
विद्राव्य
रासक्षं
सैन्यं
हनुमान्
मारुतात्मजः ॥ ३१ ॥
गिरेः
शिखरमादाय
धूम्राक्षमभिदुद्रुवे ।
तमापतन्तं
धूम्राक्षो
गदामुद्यम्य
वीर्यवान् ॥ ३२ ॥
विनर्दमानः
सहसा
हनुमन्तमभिद्रवत् ।
ततः
क्रुद्धस्तु
वेगेन
गदां
तां
बहुकण्टकाम् ॥ ३३ ॥
पातयामास
धूम्राक्षो
मस्तके
तु
हनूमतः ।
ताडितः
स
तया
तत्र
गदया
भीमरूपया ॥ ३४ ॥
स
कपिर्मारुतबलस्तं
प्रहारमचिन्तयन् ।
धूम्राक्षस्य
शिरोमध्ये
गिरिशृङ्गमपातयत् ॥ ३५ ॥
स
विह्वलितसर्वाङ्गो
गिरिशृङ्गेण
ताडितः ।
पपात
सहसा
भूमौ
विकीर्ण
इव
पर्वतः ॥ ३६ ॥
धूम्राक्षं
निहतं
दृष्टवा
हतशेषा
निशाचराः ।
त्रस्ताः
प्रविविशुर्लङ्कां
वध्यमानाः
प्लवङ्गमैः ॥ ३७ ॥
स
तु
पवनसुतो
निहत्य
शत्रुं
क्षतजवहाः
सरितश्च
सन्निकीर्य ।
रिपुवधजनितश्रमो
महात्मा
मुदमगमत्
कपिभिश्च
पूज्यमानः ॥ ३८ ॥