धूम्राक्षं
निहतं
श्रुत्वा
रावणो
राक्षसेश्वरः ।
क्रोधेन
महताऽऽविष्टो
निश्वसन्नुरगो
यथा ॥ १ ॥
दीर्घमुष्णं
विनिश्वस्य
क्रोधेन
कलुषीकृतः ।
अब्रवीद्राक्षसं
शूरं
वज्रदंष्ट्रं
महाबलम् ॥ २ ॥
गच्छ
त्वं
वीर
निर्याहि
राक्षसैः
परिवारितः ।
जहि
दाशरथिं
रामं
सुग्रीवं
वानरैः
सह ॥ ३ ॥
तथेत्युक्त्वा
द्रुततरं
मायावी
राक्षसेश्वरः ।
निर्जगाम
बलै
सार्धं
बहुभिः
परिवारितः ॥ ४ ॥
नागैरश्वैः
खरैरुष्ट्रैः
संयुक्तः
सुसामाहितः ।
पताकाध्वजचित्रैश्च
रथैश्च
समलङ्कृतः ॥ ५ ॥
ततो
विचित्रकेयूरमुकुटैश्च
विभूषितः ।
तनुत्राणि
च
संरुद्ध्य
सधनुर्निर्ययौ
द्रुतम् ॥ ६ ॥
पताकालङ्कृतं
दीप्तं
तप्तकाञ्चनभूषणम् ।
रथं
प्रदक्षिणं
कृत्वा
समारोहच्चमूपतिः ॥ ७ ॥
यष्टिभिस्तोमरैश्चित्रैः
शूलैश्च
मुसलैरपि ।
भिन्दिपालैश्च
पाशैश्च
शक्तिभिः
पट्टिशैरपि ॥ ८ ॥
पदातयश्च
निर्यान्ति
विविधाः
शस्त्रपाणयः ।
विचित्रवाससः
सर्वे
दीप्ता
राक्षसपुङ्गवाः ॥ ९ ॥
गजा
मदोत्कटाः
शूराश्चलन्त
इव
पर्वताः ।
ते
युद्धकुशलै
रूढास्तोमराङ्कुशपाणिभिः ॥ १० ॥
अन्ये
लक्षणसंयुक्ताः
शूरारूढा
महाबलाः ।
तद्राक्षसबलं
घोरं
विप्रस्थितमशोभत ॥ ११ ॥
प्रावृट्काले
यथा
मेघा
नर्दमानाः
सविद्युतः ।
निस्सृता
दक्षिणद्वारादङ्गदो
यत्र
यूथपः ॥ १२ ॥
तेषां
निष्क्रममाणानामशुभं
समजायत ।
आकाशाद्विघनात्तीव्रा
उल्काश्चाभ्यपतंस्तदा ॥ १३ ॥
वमन्त्यः
पावकज्वालाः
शिवा
घोरं
ववाशिरे ।
व्याहरन्ति
मृगा
घोरा
रक्षसां
निधनं
तदा ॥ १४ ॥
समापतन्तो
योधास्तु
प्रास्खलन्
भयमोहिताः ।
एतानौत्पातिकान्
दृष्ट्वा
वज्रदंष्ट्रो
महाबलः ॥ १५ ॥
धैर्यमालम्ब्य
तेजस्वी
निर्जगाम
रणोत्सुकः ।
तांस्तु
निष्क्रमतो
दृष्ट्वा
वानरा
जितकाशिनः ॥ १६ ॥
प्रणेदुः
सुमहानादान्
पूरयंश्च
दिशो
दश ।
ततः
प्रवृत्तं
तुमुलं
हरीणां
राक्षसैः
सह ॥ १७ ॥
घोराणां
भीमरूपाणामन्योन्यवधकाङ्क्षिणाम् ।
निष्पतन्तो
महोत्साहा
भिन्नदेहशिरोधराः ॥ १८ ॥
रुधिरोक्षितसर्वाङ्गा
न्यपतन्
जगतीतले ।
केचिदन्योन्यमासाद्य
शूराः
परिघपाणयः ॥ १९ ॥
चिक्षिपुर्विविधं
शस्त्रं
समरेष्वनिवर्तिनः ।
द्रुमाणां
च
शिलानां
च
शस्त्राणां
चापि
निस्वनः ॥ २० ॥
श्रूयते
सुमहांस्तत्र
घोरो
हृदयभेदनः ।
रथनेमिस्वनस्तत्र
धनुषश्चापि
निस्वनः ॥ २१ ॥
शङ्खभेरीमृदङ्गानां
बभूव
तुमुलः
स्वनः ।
केचिदस्त्राणि
संसृज्य
बाहुयुद्धमकुर्वत ॥ २२ ॥
जानुभिश्च
हताः
केचिद्भिन्नदेहाश्च
राक्षसाः ।
शिलाभिश्चूर्णिताः
केचिद्वानरैर्युद्धदुर्मदैः ॥ २३ ॥
वज्रदंष्ट्रो
भृशं
बाणै
रणे
वित्रासयन्
हरीन् ।
चचार
लोकसंहारे
पाशहस्त
इवान्तकः ॥ २४ ॥
बलवन्तोऽस्त्रविदुषो
नानाप्रहरणा
रणे ।
जघ्नुर्वानरसैन्यानि
राक्षसाः
क्रोधमूर्च्छिताः ॥ २५ ॥
निघ्नुतो
राक्षसान्
दृष्ट्वा
सर्वान्
वालिसुतो
रणे ।
क्रोधेन
द्विगुणाविष्टः
संवर्तक
इवानलः ॥ २६ ॥
अङ्गदः
क्रोधताम्राक्षः
सिंहः
क्षुद्रमृगानिव ।
चकार
कदनं
घोरं
शक्रतुल्यपराक्रमः ॥ २७ ॥
अङ्गदाभिहतास्तत्र
राक्षसा
भीमविक्रमाः ।
विभिन्नशिरसः
पेतुर्विकृत्ता
इव
पादपाः ॥ २८ ॥
रथैरश्वैर्ध्वजैश्चित्रैः
शरीरैर्हरिरक्षसाम् ।
रुधिरेण
च
सञ्छन्ना
भूमिर्भयकरी
तदा ॥ २९ ॥
हारकेयूरवस्त्रैश्च
शस्त्रैश्च
समलङ्कृता ।
भूमिर्भाति
रणे
तत्र
शारदीव
यथा
निशा ॥ ३० ॥
अङ्गदस्य
च
वेगेन
तद्राक्षसबलं
महत् ।
प्राकम्पत
तदा
तत्र
पवनेनाम्बुदो
यथा ॥ ३१ ॥