वज्रदंष्ट्रं
हतं
श्रुत्वा
वालिपुत्रेण
रावणः ।
बलाध्यक्षमुवाचेदं
कृताञ्जलिमवस्थितम् ॥ १ ॥
शीघ्रं
निर्यान्तु
दुर्धर्षा
राक्षसा
भीमविक्रमाः ।
अकम्पनं
पुरस्कृत्य
सर्वशस्त्रप्रकोविदम् ॥ २ ॥
एष
शास्ता
च
गोप्ता
च
नेता
च
युधि
सम्मतः ।
भूतिकामश्च
मे
नित्यं
नित्यं
च
समरप्रियः ॥ ३ ॥
एष
जेष्यति
काकुत्स्थौ
सुग्रीवं
च
महाबलम् ।
वानरांश्चापरान्
घोरान्
हनिष्यति
परन्तपः ॥ ४ ॥
परिगृह्य
स
तामाज्ञां
रावणस्य
महाबलः ।
बलं
सन्त्वरयामास
तदा
लघुपराक्रमः ॥ ५ ॥
ततो
नानाप्रहरणा
भीमाक्षा
भीमदर्शनाः ।
निष्पेतू
रक्षसां
मुख्या
बलाध्यक्षप्रचोदिताः ॥ ६ ॥
मेघाभो
मेघवर्णश्च
मेघस्वनमहास्वनः ।
राक्षसैः
संवृतो
भीमैस्तदा
निर्यात्यकम्पनः ॥ ७ ॥
न
हि
कम्पयितुं
शक्यः
सुरैरपि
महामृधे ।
अकम्पनस्ततस्तेषामादित्य
इव
तेजसा ॥ ८ ॥
तस्य
निर्धावमानस्य
संरब्धस्य
युयत्सया ।
अकस्माद्दैन्यमागच्छद्धयानां
रथवाहिनाम् ॥ ९ ॥
व्यस्फुरन्नयनं
चास्य
सव्यं
युद्धाभिनन्दिनः ।
विवर्णो
मुखवर्णश्च
गद्गदश्चाभवत्
स्वनः ॥ १० ॥
अभवत्
सुदिने
चापि
दुर्दिनं
रूक्षमारुतम् ।
ऊचुः
खगा
मृगाः
सर्वे
वाचः
क्रूरा
भयावहाः ॥ ११ ॥
स
सिंहोपचितस्कन्धः
शार्दूलसमविक्रमः ।
तानुत्पातानचिन्त्यैव
निर्जगाम
रणाजिरम् ॥ १२ ॥
तदा
निर्गच्छतस्तस्य
रक्षसः
सह
राक्षसैः ।
बभूव
सुमहान्नादः
क्षोभयन्निव
सागरम् ॥ १३ ॥
तेन
शब्देन
वित्रस्ता
वानराणां
महाचमूः ।
द्रुमशैलप्रहरणा
योद्धुं
समवतिष्ठत ॥ १४ ॥
तेषां
युद्धं
महारौद्रं
सञ्जज्ञे
हरिरक्षसाम् ।
रामरावणयोरर्थे
समभित्यक्तजीविनाम् ॥ १५ ॥
सर्वे
ह्यति
बलाः
शूराः
सर्वे
पर्वतसन्निभाः ।
हरयो
राक्षसाश्चैव
परस्परजिघांसवः ॥ १६ ॥
तेषां
विनर्दतां
शब्दः
संयुगेऽतितरस्विनाम् ।
सुश्रुवे
सुमहान्
क्रोधादन्योन्यमभिगर्जताम् ॥ १७ ॥
रजश्चारुणवर्णाभं
सुभीममभवद्भृशम् ।
उद्भूतं
हरिरक्षोभिः
संरुरोध
दिशो
दश ॥ १८ ॥
अन्योन्यं
रजसा
तेन
कौशेयोद्धूतपाण्डुना ।
संवृतानि
च
भूतानि
ददृशुर्न
रणाजिरे ॥ १९ ॥
न
ध्वजा
न
पताका
वा
चर्म
वा
तुरगोऽपि
वा ।
आयुधं
स्यन्दनं
वाऽपि
ददृशे
तेन
रेणुना ॥ २० ॥
शब्दश्च
सुमहांस्तेषां
नर्दतामभिधावताम् ।
श्रूयते
तुमुले
युद्धे
न
रूपाणि
चकाशिरे ॥ २१ ॥
हरीनेव
सुसङ्क्रुद्धा
हरयो
जघ्नुराहवे ।
राक्षसाश्चापि
रक्षांसि
निजघ्नुस्तिमिरे
तदा ॥ २२ ॥
परांश्चैव
विनिघ्नन्तः
स्वांश्च
वानरराक्षसाः ।
रुधिरार्द्रां
तदा
चक्रुर्महीं
पङ्कानुलेपनाम् ॥ २३ ॥
ततस्तु
रुधिरौघेण
सिक्तं
व्यपगतं
रजः ।
शरीरशवसङ्कीर्णा
बभूव
च
वसुन्धरा ॥ २४ ॥
द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः ।
हरयो
राक्षसाश्चैव
जघ्नुरन्योन्यमोजसा ॥ २५ ॥
बाहुभिः
परिघाकारैर्युद्ध्यन्तः
पर्वतोपमाः ।
हरयो
भीमकर्माणो
राक्षसान्
जघ्नुराहवे ॥ २६ ॥
राक्षसास्त्वपि
सङ्क्रुद्धाः
प्रासतोमरपाणयः ।
कपीन्निजघ्निरे
तत्र
शस्त्रैः
परमदारुणैः ॥ २७ ॥
अकम्पनः
सुसङ्क्रुद्धो
राक्षसानां
चमूपतिः ।
संहर्षयति
तान्
सर्वान्
राक्षसान्
भीमविक्रमान् ॥ २८ ॥
हरयस्त्वपि
सक्षांसि
महाद्रुममहाश्मभिः ।
विदारयन्त्यभिक्रम्य
शस्त्राण्याच्छिद्य
वीर्यतः ॥ २९ ॥
एतस्मिन्नन्तरे
वीरा
हरयः
कुमुदो
नलः ।
मैन्दश्च
द्विविदः
क्रुद्धाश्चक्रुर्वेगमनुत्तमम् ॥ ३० ॥
कदनं
सुमहच्चक्रुर्लीलया
हरियूथपाः ।
ममन्थू
राक्षसान्
सर्वे
वानरा
गणशो
भृशम् ॥ ३१ ॥