अकम्पनवधं
श्रुत्वा
क्रुद्धो
वै
राक्षसेश्वरः ।
किञ्चिद्दीनमुखश्चापि
सचिवांस्तानुदैक्षत ॥ १ ॥
ततस्तु
रावणः
पूर्वदिवसे
राक्षसाधिपः ।
पुरीं
परिययौ
लङ्कां
सर्वान्
गुल्मानवेक्षितुम् ॥ २ ॥
तां
राक्षसगणैर्गुप्तां
गुल्मैर्बहुभिरावृताम् ।
ददर्श
नगरीं
लङ्कां
पताकाध्वजमालिनीम् ॥ ३ ॥
रुद्धां
तु
नगरीं
दृष्ट्वा
रावणो
राक्षसेश्वरः ।
उवाचामर्षतः
काले
प्रहस्तं
युद्धकोविदम् ॥ ४ ॥
पुरस्योपनिविष्टस्य
सहसा
पीडितस्य
वा ।
नान्यं
युद्धात्
प्रपश्यामि
मोक्षं
युद्धविशारद ॥ ५ ॥
अहं
वा
कुम्भकर्णो
वा
त्वं
वा
सेनापतिर्मम ।
इन्द्रजिद्वा
निकुम्भो
वा
वहेयुर्भारमीदृशम् ॥ ६ ॥
स
त्वं
बलमतः
शीघ्रमादाय
परिगृह्य
च ।
विजयायाभिनिर्याहि
यत्र
सर्वे
वनौकसः ॥ ७ ॥
निर्याणादेव
ते
नूनं
चपला
हरिवाहिनी ।
नर्दतां
राक्षसेन्द्राणां
श्रुत्वा
नादं
द्रविष्यति ॥ ८ ॥
चपला
ह्यविनीताश्च
चलचित्ताश्च
वानराः ।
न
सहिष्यन्ति
ते
नादं
सिंहनादमिव
द्विपाः ॥ ९ ॥
विद्रुते
च
बले
तस्मिन्
रामः
सौमित्रिणा
सह ।
अवशस्ते
निरालम्बः
प्रहस्त
वशमेष्यति ॥ १० ॥
आपत्
संशयिता
श्रेयो
न
तु
निस्संशयीकृता ।
प्रतिलोमानुलोमं
वा
यद्वा
नो
मन्यसे
हितम् ॥ ११ ॥
रावणेनैवमुक्तस्तु
प्रहस्तो
वाहिनीपतिः ।
राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥ १२ ॥
राजन्
मन्त्रितपूर्वं
नः
कुशलैः
सह
मन्त्रिभिः ।
विवादश्चापि
नो
वृत्तः
समवेक्ष्य
परस्परम् ॥ १३ ॥
प्रदानेन
तु
सीतायाः
श्रेयो
व्यवसितं
मया ।
अप्रदाने
पुनर्युद्धं
दृष्टमेतत्तथैव
नः ॥ १४ ॥
सोऽहं
दानैश्च
मानैश्च
सततं
पूजितस्त्वया ।
सान्त्वैश्च
विविधैः
काले
किं
न
कुर्यां
प्रियं
तव ॥ १५ ॥
न
हि
मे
जीवितं
रक्ष्यं
पुत्रदारधनानि
वा ।
त्वं
पश्य
मां
जुहूषन्तं
त्वदर्थं
जीवितं
युधि ॥ १६ ॥
एवमुक्त्वा
तु
भर्तारं
रावणं
वाहिनीपतिः ।
उवाचेदं
बलाध्यक्षान्
प्रहस्तः
पुरतः
स्थितान् ॥ १७ ॥
समानयत
मे
शीघ्रं
राक्षसानां
महद्बलम् ।
मद्बाणशतवेगेन
हतानां
च
रणाजिरे ॥ १८ ॥
अद्य
तृप्यन्तु
मांसादाः
पक्षिणः
काननौकसाम् ।
इत्युक्तास्ते
प्रहस्तेन
बलाध्यक्षाः
कृतत्वराः ॥ १९ ॥
बलमुद्योजयामासुस्तस्मिन्
राक्षसमन्दिरे ।
सा
बभूव
मुहूर्तेन
तिग्मनानाविधायुधैः ॥ २० ॥
लङ्का
राक्षसवीरैस्तैर्गजैरिव
समाकुला ।
हुताशनं
तर्पयतां
ब्राह्मणांश्च
नमस्यताम् ॥ २१ ॥
आज्यगन्धप्रतिवहः
सुरभिर्मारुतो
ववौ ।
स्रजश्च
विविधाकारा
जगृहुस्त्वभिमन्त्रिताः ॥ २२ ॥
सङ्ग्रामसज्जाः
संहृष्टा
धारयन्
राक्षसास्तदा ।
सधनुष्काः
कवचिनो
वेगादाप्लुत्य
राक्षसाः ॥ २३ ॥
रावणं
प्रेक्ष्य
राजानं
प्रहस्तं
पर्यवारयन् ।
अथामन्त्र्य
च
राजानं
भेरीमाहत्य
भैरवाम् ॥ २४ ॥
आरुरोह
रथं
दिव्यं
प्रहस्तः
सज्जकल्पितम् ।
हयैर्महाजवैर्युक्तं
सम्यक्
सूतसुसंयतम् ॥ २५ ॥
महाजलदनिर्घोषं
साक्षाच्चन्द्रार्कभास्वरम् ।
उरगध्वजदुर्द्धर्षं
सुवरूथं
स्वपस्करम् ॥ २६ ॥
सुवर्णजालसंयुक्तं
प्रहसन्तमिव
श्रिया ।
ततस्तं
रथमास्थाय
रावणार्पितशासनः ॥ २७ ॥
लङ्काया
निर्ययौ
तूर्णं
बलेन
महता
वृतः ।
वादित्राणां
च
निनदः
पूरयन्निव
सागरम् ॥ २८ ॥
शुश्रुवे
शङ्खशब्दश्च
प्रयाते
वाहिनीपतौ ।
निनदन्तः
स्वरान्
घोरान्
राक्षसा
जग्मुरग्रतः ॥ २९ ॥
भीमरूपा
महाकायाः
प्रहस्तस्य
पुरस्सराः ।
नरान्तकः
कुम्भहनुर्महानादः
समुन्नतः ॥ ३० ॥
प्रहस्तसचिवा
ह्येते
निर्ययुः
परिवार्य
तम् ।
व्यूढेनैव
सुघोरेण
पूर्वद्वारात्
स
निर्ययौ ॥ ३१ ॥
गजयूथनिकाशेन
बलेन
महता
वृतः ।
सागरप्रतिमौघेन
वृतस्तेन
बलेन
सः ॥ ३२ ॥
प्रहस्तो
निर्ययौ
तूर्णं
कालान्तकयमोपमः ।
तस्य
निर्याणघोषेण
राक्षसानां
च
नर्दताम् ॥ ३३ ॥
लङ्कायां
सर्वभूतानि
विनेदुर्विकृतैः
स्वरैः ।
व्यभ्रमाकाशमाविश्य
मांसशोणितभोजनाः ॥ ३४ ॥
मण्डलान्यपसव्यानि
खगाश्चक्रू
रथं
प्रति ।
वमन्त्यः
पावकज्वालाः
शिवा
घोरं
ववाशिरे ॥ ३५ ॥
अन्तरिक्षात्
पपातोल्का
वायुश्च
परुषो
ववौ ।
अन्योन्यमभिसंरब्धा
ग्रहाश्च
न
चकाशिरे ॥ ३६ ॥
मेघाश्च
खरनिर्घोषा
रथस्योपरि
रक्षसः ।
ववृषू
रुधिरं
चास्य
सिषिचुश्च
पुरस्सरान् ॥ ३७ ॥
केतुमूर्धनि
गृध्रोऽस्य
निलीनो
दक्षिणामुखः ।
तुदन्नुभयतः
पार्श्वं
समग्रामहरत्
प्रभाम् ॥ ३८ ॥
सारथेर्बहुशश्चास्य
सङ्ग्राममवगाहतः ।
प्रतोदो
न्यपतद्धस्तात्
सूतस्य
हयसादिनः ॥ ३९ ॥
निर्याणश्रीश्च
याऽस्यासीद्भास्वरा
वसुदुर्लभा ।
सा
ननाश
मुहूर्तेन
समे
च
स्खलिता
हयाः ॥ ४० ॥
प्रहस्तं
त्वभिनिर्यान्तं
प्रख्यातबलपौरुषम् ।
युधि
नानाप्रहरणा
कपिसेनाऽभ्यवर्तत ॥ ४१ ॥
अथ
घोषः
सुतुमुलो
हरीणां
समजायत ।
वृक्षानारुजतां
चैव
गुर्वीरागृह्णतां
शिलाः ॥ ४२ ॥
नदतां
राक्षसानां
च
वानराणां
च
गर्जताम् ।
उभे
प्रमुदिते
सैन्ये
रक्षोगणवनौकसाम् ॥ ४३ ॥
वेगितानां
समर्थानामन्योन्यवधकाङ्क्षिणाम् ।
परस्परं
चाह्वयतां
निनादः
श्रूयते
महान् ॥ ४४ ॥
ततः
प्रहस्तः
कपिराजवाहिनीमभिप्रतस्थे
विजयाय
दुर्मतिः ।
विवृद्धवेगां
च
विवेश
तां
चमूं
यथा
मुमूर्षुः
शलभो
विभावसुम् ॥ ४५ ॥