ततो
रामो
भहातेजा
धनुरादाय
वीर्यवान् ।
किरीटिनं
महाकायं
कुम्भकर्णं
ददर्श
ह ॥ १ ॥
क्रममाणमिवाकाशं
पुरा
नारायणं
प्रभुम् ।
सतोयाम्बुदसङ्काशं
काञ्चनाङ्गदभूषणम् ॥ २ ॥
दृष्ट्वा
पुनः
प्रदुद्राव
वानराणां
महाचमूः ।
विद्रुतां
वाहिनीं
दृष्ट्वा
वर्धमानं
च
राक्षसम् ॥ ३ ॥
सविस्मयमिदं
रामो
विभीषणमुवाच
ह ।
कोऽसौ
पर्वतसङ्काशः
किरीटी
हरिलोचनः ॥ ४ ॥
लङ्कायां
दृश्यते
वीर
सविद्युदिव
तोयदः ।
पृथिव्याः
केतुभूतोऽसौ
महानेकोऽत्र
दृश्यते ॥ ५ ॥
यं
दृष्ट्वा
वानराः
सर्वे
विद्रवन्ति
ततस्ततः ।
आचक्ष्व
मे
महान्
कोऽसौ
रक्षो
वा
यदि
वाऽसुरः ॥ ६ ॥
न
मयैवंविधं
भूतं
दृष्टपूर्वं
कदाचन ।
स
पृष्टो
राजपुत्रेण
रामेणाक्लिष्टकर्मणा ॥ ७ ॥
विभीषणो
महाप्राज्ञः
काकुत्स्थमिदमब्रवीत् ।
सैष
विश्रवसः
पुत्रः
कुम्भकर्णः
प्रतापवान् ॥ ८ ॥
अस्य
प्रमाणात्
सदृशो
राक्षसोऽन्यो
न
विद्यते ।
एतेन
देवा
युधि
दानवाश्च
यक्षा
भुजङ्गाः
पिशिताशनाश्च ॥ ९ ॥
गन्धर्वविद्याधरकिन्नराश्च
सहस्रशो
राघव
सम्प्रभग्राः ।
शूलपाणिं
विरूपाक्षं
कुम्भकर्णं
महाबलम् ॥ १० ॥
हन्तुं
न
शेकुस्त्रिदशाः
कालोऽयमिति
मोहिताः ।
प्रकृत्या
ह्येष
तेजस्वी
कुम्भकर्णो
महाबलः ॥ ११ ॥
अन्येषां
राक्षसेन्द्राणां
वरदानकृतं
बलम् ।
एतेन
जातमात्रेण
क्षुधार्तेन
महात्मना ॥ १२ ॥
भक्षितानि
सहस्राणि
सत्त्वानां
सुबहून्यपि ।
तेषु
सम्भक्ष्यमाणेषु
प्रजा
भयनिपीडिताः ॥ १३ ॥
यान्ति
स्म
शरणं
शक्रं
तमप्यर्थं
न्यवेदयन् ।
स
कुम्भकर्णं
कुपितो
महेन्द्रो
जघान
वज्रेण
शितेन
वज्री ॥ १४ ॥
स
शक्रवज्राभिहतो
महात्मा
चचाल
कोपाच्च
भृशं
ननाद ।
तस्य
नानद्यमानस्य
कुम्भकर्णस्य
धीमतः ॥ १५ ॥
श्रुत्वाऽतिनादं
वित्रस्ता
भूयो
भूमिर्वितत्रसे ।
तत्र
कोपान्महेन्द्रस्य
कुम्भकर्णो
महाबलः ॥ १६ ॥
विकृष्यैरावताद्दन्तं
जघानोरसि
वासवम् ।
कुम्भकर्णप्रहारार्तो
विजज्वाल
स
वासवः ॥ १७ ॥
ततो
विषेदुः
सहसा
देवब्रह्मर्षिदानवाः ।
प्रजाभिः
सह
शक्रश्च
ययौ
स्थानं
स्वयम्भुवः ॥ १८ ॥
कुम्भकर्णस्य
दौरात्म्यं
शशंसुस्ते
प्रजापतेः ।
प्रजानां
भक्षणं
चापि
देवानां
चापि
धर्षणम् ॥ १९ ॥
आश्रमध्वंसनं
चापि
परस्त्रीहरणं
भृशम् ।
एवं
प्रजा
यदि
त्वेष
भक्षयिष्यति
नित्यशः ॥ २० ॥
अचिरेणैव
कालेन
शून्यो
लोको
भविष्यति ।
वासवस्य
वचः
श्रुत्वा
सर्वलोकपितामहः ॥ २१ ॥
रक्षांस्यावाहयामास
कुम्भकर्णं
ददर्श
ह ।
कुम्भकर्णं
समीक्ष्यैव
वितत्रास
प्रजापतिः ॥ २२ ॥
दृष्ट्वा
विश्वास्य
चैवेदं
स्वयम्भूरिदमब्रवीत् ।
ध्रुवं
लोकविनाशाय
पौलस्त्येनासि
निर्मितः ॥ २३ ॥
तस्मात्त्वमद्यप्रभृति
मृतकल्पः
शयिष्यसे ।
ब्रह्मशापाभिभूतोऽथ
निपपाताग्रतः
प्रभोः ॥ २४ ॥
ततः
परमसम्भ्रान्तो
रावणो
वाक्यमब्रवीत् ।
विवृद्धः
काञ्चनो
वृक्षः
फलकाले
निकृत्यते ॥ २५ ॥
न
नप्तारं
स्वकं
न्याय्यं
शप्तुमेवं
प्रजापते ।
न
मिथ्यावचनश्च
त्वं
स्वप्स्यत्येष
न
संशयः ॥ २६ ॥
कालस्तु
क्रियतामस्य
शयने
जागरे
तथा ।
रावणस्य
वचः
श्रुत्वा
स्वयम्भूरिदमब्रवीत् ॥ २७ ॥
एकेनाह्ना
त्वसौ
वीरश्चरन्
भूमिं
बुभुक्षितः ।
व्यात्तास्यो
भक्षयेल्लोकान्
सक्रुद्ध
इव
पावकः ॥ २८ ॥
सोऽसौ
व्यसनमापन्नः
कुम्भकर्णमबोधयत् ।
त्वत्पराक्रमभीतश्च
राजा
सम्प्रति
रावणः ॥ २९ ॥
स
एष
निर्गतो
वीरः
शिबिराद्भीमविक्रमः ।
वानरान्
भृशसङ्क्रुद्धो
भक्षयन्
परिधावति ॥ ३० ॥
कुम्भकर्णं
समीक्ष्यैव
हरयोऽद्य
प्रविद्रुताः ।
कथमेनं
रणे
क्रुद्धं
वारयिष्यन्ति
वानराः ॥ ३१ ॥
उच्यन्तां
वानराः
सर्वे
यन्त्रमेतत्
समुच्छ्रितम् ।
इति
विज्ञाय
हरयो
भविष्यन्तीह
निर्भयाः ॥ ३२ ॥
विभीषणवचः
श्रुत्वा
हेतुमत्
सुमुखेरितम् ।
उवाच
राघवो
वाक्यं
नीलं
सेनापतिं
तदा ॥ ३३ ॥
गच्छ
सैन्यानि
सर्वाणि
व्यूह्य
तिष्ठस्व
पावके ।
द्वाराण्यादाय
लङ्कायाश्चर्याश्चाप्यथ
सङ्क्रमान् ॥ ३४ ॥
शैलशृङ्गाणि
वृक्षांश्च
शिलाश्चाप्युपसंहर ।
तिष्ठन्तु
वानराः
सर्वे
सायुधाः
शैलपाणयः ॥ ३५ ॥
राघवेण
समादिष्टो
नीलो
हरिचमूपतिः ।
शशास
वानरानीकं
यथावत्
कपिकुञ्जरः ॥ ३६ ॥
ततो
गवाक्षः
शरभो
हनुमानङ्गदस्तथा ।
शैलशृङ्गाणि
शैलाभा
गृहीत्वा
द्वारमभ्ययुः ॥ ३७ ॥
रामवाक्यमुपश्रुत्य
हरयो
जितकाशिनः ।
पादपैरर्दयन्
वीरा
वानराः
परवाहिनीम् ॥ ३८ ॥
ततो
हरीणां
तदनीकमुग्रं
रराज
शैलोद्यतदीप्तहस्तम् ।
गिरेः
समीपानुगतं
यथैव
महन्महाम्भोधरजालमुग्रम् ॥ ३९ ॥