स
तु
राक्षसशार्दूलो
निद्रामदसमाकुलः ।
राजमार्गं
श्रिया
जुष्टं
ययौ
विपुलविक्रमः ॥ १ ॥
राक्षसानां
सहस्रैश्च
वृतः
परमदुर्जयः ।
गृहेभ्यः
पुष्पवर्षेण
कीर्यमाणस्तदा
ययौ ॥ २ ॥
स
हेमजालिविततं
भानुभास्वरदर्शनम् ।
ददर्श
विपुलं
रम्यं
राक्षसेन्द्रनिवेशनम् ॥ ३ ॥
स
तत्तदा
सूर्य
इवाभ्रजालं
प्रविश्य
रक्षोधिपतेर्निवेशम् ।
ददर्श
दूरेऽग्रजमासनस्थं
स्वयम्भुवं
शक्र
इवासनस्थम् ॥ ४ ॥
भ्रातुः
स
भवनं
गच्छन्
रक्षोगणसमन्वितम् ।
कुम्भकर्णः
पदन्यासैरकम्पयत
मेदिनीम् ॥ ५ ॥
सोऽभिगम्य
गृहं
भ्रातुः
कक्ष्यामभिविगाह्य
च ।
ददर्शोद्विग्नमासीनं
विमाने
पुष्पके
गुरुम् ॥ ६ ॥
अथ
दृष्ट्वा
दशग्रीवः
कुम्भकर्णमुपस्थितम् ।
तूर्णमुत्थाय
संहृष्टः
सन्निकर्षमुपानयत् ॥ ७ ॥
अथासीनस्य
पर्यङ्के
कुम्भकर्णो
महाबलः ।
भ्रातुर्ववन्दे
चरणौ
किं
कृत्यमिति
चाब्रवीत् ॥ ८ ॥
उत्पत्य
चैनं
मुदितो
रावणः
परिषस्वजे ।
स
भ्रात्रा
सम्परिष्वक्तो
यथावच्छाभिनन्दितः ॥ ९ ॥
स
तदासनमाश्रित्य
कुम्भकर्णो
महाबलः ।
संरक्तनयनः
कोपाद्रावणं
वाक्यमब्रवीत् ॥ १० ॥
किमर्थमहमादृत्य
त्वया
राजन्
विबोधितः ।
शंस
कस्माद्भयं
तेऽस्ति
कोऽद्य
प्रेतो
भविष्यति ॥ ११ ॥
भ्रातरं
रावणः
कुद्धं
कुम्भकर्णमवस्थितम् ।
ईषत्तु
परिवृत्ताभ्यां
नेत्राभ्यां
वाक्यमब्रवीत् ॥ १२ ॥
अद्य
ते
सुमहान्
कालः
शयानस्य
महाबल ।
सुखितस्त्वं
न
जानीषे
मम
रामकृतं
भयम् ॥ १३ ॥
एष
दाशरथी
रामः
सुग्रीवसहितो
बली ।
समुद्रं
सबलस्तीर्त्वा
मूलं
नः
परिकृन्तति ॥ १४ ॥
हन्त
पश्यस्व
लङ्कायां
वनान्युपवनानि
च ।
सेतुना
सुखमागम्य
वानरैकार्णवीकृतम् ॥ १५ ॥
ये
रक्षसां
मुख्यतमा
हतास्ते
वानरैर्युधि ।
वानराणां
क्षयं
युद्धे
न
पश्यामि
कदाचन ॥ १६ ॥
न
चापि
वानरा
युद्धे
जितपूर्वाः
कदाचन ।
तदेतद्भयमुत्पन्नं
त्रायस्वेमां
महाबल ॥ १७ ॥
नाशय
त्वमिमानद्य
तदर्थं
बोधितो
भवान् ।
सर्वक्षपितकोशं
च
स
त्वमभ्यवपद्य
माम् ॥ १८ ॥
त्रायस्वेमां
पुरीं
लङ्कां
बालवृद्धावशेषिताम् ।
भ्रातुरर्थे
महाबाहो
कुरु
कर्म
सुदुष्करम् ॥ १९ ॥
मयैवं
नोक्तपूर्वो
हि
कच्चिद्
भ्रातः
परन्तप ।
दैवासुरेषु
युद्धेषु
बहुशो
राक्षसर्षभ ॥ २० ॥
त्वया
देवाः
प्रतिव्यूह्य
निर्जिताश्चासुरा
युधि ।
तदेतत्
सर्वमातिष्ठ
वीर्यं
भीमपराक्रम ॥ २१ ॥
न
हि
ते
सर्वभूतेषु
दृश्यते
सदृशो
बली ।
कुरुष्व
मे
प्रियहितमेतदुत्तमं
यथाप्रियं
प्रियरणबान्धवप्रिय ॥ २२ ॥
स्वतेजसा
विधम
सपत्नवाहिनीं
शरद्घनं
पवन
इवोद्यतो
महान् ॥ २३ ॥