तस्य
राक्षसराजस्य
निशम्य
परिदेवितम् ।
कुम्भकर्णो
बभाषेदं
वचनं
प्रजहास
च ॥ १ ॥
दृष्टो
दोषो
हि
योऽस्माभिः
पुरा
मन्त्रविनिर्णये ।
हितेष्वनभिरक्तेन
सोऽयमासादितस्त्वया ॥ २ ॥
शीघ्रं
खल्वभ्युपेतं
त्वां
फलं
पापस्य
कर्मणः ।
निरयेष्वेव
पतनं
यथा
दुष्कृतकर्मणः ॥ ३ ॥
प्रथमं
वै
महाराज
कृत्यमेतदचिन्तितम् ।
केवलं
वीर्यदर्पेण
नानुबन्धो
विचारितः ॥ ४ ॥
यः
पश्चात्
पूर्वकार्याणि
कुर्यादैश्वर्यमास्थितः ।
पूर्वं
चापरकार्याणि
न
स
वेद
नयानयौ ॥ ५ ॥
देशकालविहीनानि
कर्माणि
विपरीतवत् ।
क्रियमाणानि
दुष्यन्ति
हवींष्यप्रयतेष्विव ॥ ६ ॥
त्रयाणां
पञ्चधा
योगं
कर्मणां
यः
प्रपश्यति ।
सचिवैः
समयं
कृत्वा
स
सभ्ये
वर्तते
पथि ॥ ७ ॥
यथागमं
च
यो
राजा
समयं
विचिकीर्षति ।
बुध्यते
सचिवान्
बुद्ध्या
सुहृदश्चानुपश्यति ॥ ८ ॥
धर्ममर्थं
च
कामं
च
सर्वान्
वा
रक्षसां
पते ।
भजेत
पुरुषः
काले
त्रीणि
द्वन्द्वानि
वा
पुनः ॥ ९ ॥
त्रिषु
चैतेषु
यच्छ्रेष्ठं
श्रुत्वा
तन्नावबुध्यते ।
राजा
वा
राजमात्रो
वा
व्यर्थं
तस्य
बहुश्रुतम् ॥ १० ॥
उपप्रदानं
सान्त्वं
वा
भेदं
काले
च
विक्रमम् ।
योगं
च
रक्षसां
श्रेष्ठ
तावुभौ
च
नयानयौ ॥ ११ ॥
काले
धर्मार्थकामान्
यः
सम्मन्त्र्य
सचिवैः
सह ।
निषेवेतात्मवान्
लोके
न
स
व्यसनमाप्नुयात् ॥ १२ ॥
हितानुबन्धमालोच्य
कार्याकार्यमिहात्मनः ।
राजा
सहार्थतत्त्वज्ञैः
सचिवैः
स
हि
जीवति ॥ १३ ॥
अनभिज्ञाय
शास्त्रार्थान्
पुरुषाः
पशुबुद्धयः ।
प्रागल्भ्याद्वक्तुमिच्छन्ति
मन्त्रेष्वभ्यन्तरीकृताः ॥ १४ ॥
अशास्त्रविदुषां
तेषां
न
कार्यमहितं
वचः ।
अर्थशास्त्रानभिज्ञानां
विपुलां
श्रियमिच्छताम् ॥ १५ ॥
अहितं
च
हिताकारं
धार्ष्ट्याज्जल्पन्ति
ये
नराः ।
अवेक्ष्य
मन्त्रबाह्यास्ते
कर्तव्याः
कृत्यदूषणाः ॥ १६ ॥
विनाशयन्तो
भर्तारं
सहिताः
शत्रुभिर्बुधैः ।
विपरीतानि
कृत्यानि
कारयन्तीह
मन्त्रिणः ॥ १७ ॥
तान्
भर्ता
मित्रसङ्काशानमित्रान्
मन्त्रनिर्णये ।
व्यवहारेण
जानीयात्
सचिवानुपसंहितान् ॥ १८ ॥
चपलस्येह
कृत्यानि
सहसानुप्रधावतः ।
छिद्रमन्ये
प्रपद्यन्ते
क्रौञ्चस्य
स्वमिव
द्विजाः ॥ १९ ॥
यो
हि
शत्रुमविज्ञाय
नात्मानमभिरक्षति ।
अवाप्नोति
हि
सोऽनर्थान्
स्थानाच्च
व्यवरोप्यते ॥ २० ॥
यदुक्तमिह
ते
पूर्वं
क्रियतामनुजेन
च ।
तदेव
नो
हितं
कार्यं
यदिच्छसि
च
तत्
कुरु ॥ २१ ॥
तत्तु
श्रुत्वा
दशग्रीवः
कुम्भकर्णस्य
भाषितम् ।
भ्रुकुटिं
चैव
सञ्चक्रे
क्रुद्धश्चैनमभाषत ॥ २२ ॥
मान्यो
गुरुरिवाचार्यः
किं
मां
त्वमनुशाससि ।
किमेवं
वाक्छ्रमं
कृत्वा
युक्तं
विधीयताम् ॥ २३ ॥
विभ्रमाच्चित्तमोहाद्वा
बलवीर्याश्रयेण
वा ।
नाभिपन्नमिदानीं
यद्व्यर्थास्तस्य
पुनः
कथाः ॥ २४ ॥
अस्मिन्
काले
तु
यद्युक्तं
तदिदानीं
विधीयताम् ।
गतं
तु
नानुशोचन्ति
गतं
तु
गतमेव
हि ॥ २५ ॥
यदि
खल्वस्ति
मे
स्नेहो
विक्रमं
वाऽवगच्छसि ।
यदि
वा
कार्यमेतत्ते
हृदि
कार्यतमं
मतम् ॥ २६ ॥
स
सुहृद्
यो
विपन्नार्थं
दीनमभ्यवपद्यते ।
स
बन्धुर्योऽपनीतेषु
साहाय्यायोपकल्पते ॥ २७ ॥
तमथैवं
ब्रुवाणं
तु
वचनं
धीरदारुणम् ।
रुष्टोऽयमिति
विज्ञाय
शनैः
श्लक्ष्णमुवाच
ह ॥ २८ ॥
अतीव
हि
समालक्ष्य
भ्रातरं
क्षुभितेन्द्रियम् ।
कुम्भकर्णः
शनैर्वाक्यं
बभाषे
परिसान्त्वयन् ॥ २९ ॥
अलं
राक्षसराजेन्द्र
सन्तापमुपपद्य
ते ।
रोषं
च
सम्परित्यज्य
स्वस्थो
भवितुमर्हसि ॥ ३० ॥
नैतन्मनसि
कर्तव्यं
मयि
जीवति
पार्थिव ।
तमहं
नाशयिष्यामि
यत्कृते
परितप्यसे ॥ ३१ ॥
अवश्यं
तु
हितं
वाच्यं
सर्वावस्थं
मया
तव ।
बन्धुभावादभिहितं
भ्रातृस्नेहाच्च
पार्थिव ॥ ३२ ॥
सदृशं
यत्तु
कालेऽस्मिन्
कर्तुं
स्निग्धेन
बन्धुना ।
शत्रूणां
कदनं
पश्य
क्रियमाणं
मया
रणे ॥ ३३ ॥
अद्य
पश्य
महाबाहो
मया
समरमूर्धनि ।
हते
रामे
सह
भ्रात्रा
द्रवन्तीं
परवाहिनीम् ॥ ३४ ॥
अद्य
रामस्य
तद्
दृष्ट्वा
मयाऽऽनीतं
रणाच्छिरः ।
सुखी
भव
महाबाहो
सीता
भवतु
दुःखिता ॥ ३५ ॥
अद्य
रामस्य
पश्यन्तु
निधनं
सुमहत्
प्रियम् ।
लङ्कायां
राक्षसाः
सर्वे
ये
ते
निहतबान्धवाः ॥ ३६ ॥
अद्य
शोकपरीतानां
स्वबन्धुवधकारणात् ।
शत्रोर्युधि
विनाशेन
करोम्यास्रप्रमार्जनम् ॥ ३७ ॥
अद्य
पर्वतसङ्काशं
ससूर्यमिव
तोयदम् ।
विकीर्णं
पश्य
समरे
सुग्रीवं
प्लवगोत्तमम् ॥ ३८ ॥
कथं
त्वं
राक्षसैरेभिर्मया
च
परिरक्षितः ।
जिघांसुभिर्दाशरथिं
वध्यसे
त्वमिहानघ ॥ ३९ ॥
अथ
पूर्वं
हते
तेन
मयि
त्वां
हन्ति
राघवः ।
नाहमात्मनि
सन्तापं
गच्छेयं
राक्षसाधिप ॥ ४० ॥
कामं
त्विदानीमपि
मां
व्यादिश
त्वं
परन्तप ।
न
परः
प्रेषणीयस्ते
युद्धायातुलविक्रम ॥ ४१ ॥
अहमुत्सादयिष्यामि
शत्रूंस्तव
महाबल ।
यदि
शक्रो
यदि
यमो
यदि
पावकमारुतौ ॥ ४२ ॥
तानहं
योधयिष्यामि
कुबेरवरुणावपि ।
गिरिमात्रशरीरस्य
शितशूलधरस्य
मे ॥ ४३ ॥
नर्दतस्तीक्ष्णदंष्ट्रस्य
बिभीयाच्च
पुरन्दरः ।
अथवा
त्यक्तशस्त्रस्य
मृद्नतस्तरसा
रिपून् ॥ ४४ ॥
न
मे
प्रतिमुखे
स्थातुं
कश्चिच्छक्तो
जिजीविषुः ।
नैव
शक्त्या
न
गदया
नासिना
निशितैः
शरैः ॥ ४५ ॥
हस्ताभ्यामेव
संरब्धो
हनिष्याम्यपि
वज्रिणम् ।
यदि
मे
मुष्टिवेगं
स
राघवोऽद्य
सहिष्यते ॥ ४६ ॥
ततः
पास्यन्ति
बाणौघा
रुधिरं
राघवस्य
तु ।
चिन्तया
बाध्यसे
राजन्
किमर्थं
मयि
तिष्ठति ॥ ४७ ॥
सोऽहं
शत्रुविनाशाय
तव
निर्यातुमुद्यतः ।
राघवं
लक्ष्मणं
चैव
सुग्रीवं
च
महाबलम् ॥ ४८ ॥
हनुमन्तं
च
रक्षोघ्नं
लङ्का
येन
प्रदीपिता ।
हरींश्चापि
हनिष्यामि
संयुगे
समवस्थितान् ॥ ४९ ॥
असाधारणमिच्छामि
तव
दातुं
महद्यशः ।
यदि
चेन्द्राद्भयं
राजन्
यदि
वापि
स्वयम्भुवः ॥ ५० ॥
यमं
च
शमयिष्यामि
भक्षयिष्यामि
पावकम् ।
आदित्यं
पातयिष्यामि
सनक्षत्रं
महीतले ॥ ५१ ॥
शतक्रतुं
वधिष्यामि
पास्यामि
वरुणालयम् ।
पर्वतांश्चूर्णयिष्यामि
दारयिष्यामि
मेदिनीम् ॥ ५२ ॥
दीर्घकालं
प्रसुप्तस्य
कुम्भकर्णस्य
विक्रमम् ।
अद्य
पश्यन्तु
भूतानि
भक्ष्यमाणानि
सर्वशः ॥ ५३ ॥
नन्विदं
त्रिदिवं
सर्वमाहारस्य
न
पूर्यते ।
वधेन
ते
दाशरथेः
सुखार्हं
सुखं
समाहर्तुमहं
व्रजामि ॥ ५४ ॥
निहत्य
रामं
सह
लक्ष्मणेन
खादामि
सर्वान्
हरियूथमुख्यान् ।
रमस्व
कामं
पिब
चाग्र्यवारुणीं
कुरुष्व
कृत्यानि
विनीयतां
ज्वरः ॥ ५५ ॥
मयाऽद्य
रामे
गमिते
यमक्षयं
चिराय
सीता
वशगा
भविष्यति ॥ ५६ ॥