तदुक्तमतिकायस्य
बलिनो
बाहुशालिनः ।
कुम्भकर्णस्य
वचनं
श्रुत्वोवाच
महोदरः ॥ १ ॥
कुम्भकर्ण
कुले
जातो
धृष्टः
प्राकृतदर्शनः ।
अवलिप्तो
न
शक्नोषि
कृत्यं
सर्वत्र
वेदितुम् ॥ २ ॥
न
हि
राजा
न
जानीते
कुम्भकर्ण
नयानयौ ।
त्वं
तु
कैशोरकाद्धृष्टः
केवलं
वक्तुमिच्छसि ॥ ३ ॥
स्थानं
वृद्धिं
च
हानिं
च
देशकालविभागवित् ।
आत्मनश्च
परेषां
च
बुध्यते
राक्षसर्षभः ॥ ४ ॥
यत्तु
शक्यं
बलवता
कर्तुं
प्राकृतबुद्धिना ।
अनुपासितवृद्धेन
कः
कुर्यात्तादृशं
बुधः ॥ ५ ॥
यांस्तु
धर्मार्थकामांस्त्वं
ब्रवीषि
पृथगाश्रयान् ।
अनुबोद्धुं
स्वभावे
तान्नहि
लक्षणमस्ति
ते ॥ ६ ॥
कर्म
चैव
हि
सर्वेषां
कारणानां
प्रयोजकम् ।
श्रेयः
पापीयसां
चात्र
फलं
भवति
कर्मणाम् ॥ ७ ॥
निश्श्रेयसफलावेव
धर्मार्थावितरावपि ।
अधर्मानर्थयोः
प्राप्तिः
फलं
च
प्रत्यवायिकम् ॥ ८ ॥
एहलौकिकपारत्रं
कर्म
पुम्भिर्निषेव्यते ।
कर्माण्यपि
तु
कल्याणि
लभते
काममास्थितः ॥ ९ ॥
तत्र
क्लृप्तमिदं
राज्ञा
हृदि
कार्यं
मतं
च
नः ।
शत्रौ
हि
साहसं
यत्
स्यात्
किमिवात्रापनीयताम् ॥ १० ॥
एकस्यैवाभियाने
तु
हेतुर्यः
प्रकृतस्त्वया ।
तत्राप्यनुपपन्नं
ते
वक्ष्यामि
यदसाधु
च ॥ ११ ॥
येन
पूर्वं
जनस्थाने
बहवोऽतिबला
हताः ।
राक्षसा
राघवं
तं
त्वं
कथमेको
जयिष्यसि ॥ १२ ॥
ये
पुरा
निर्जितास्तेन
जनस्थाने
महौजसः ।
राक्षसांस्तान्
पुरे
सर्वान्
भीतानद्यापि
पश्यसि ॥ १३ ॥
तं
सिंहमिव
सङ्क्रुद्धं
रामं
दशरथात्मजम् ।
सर्पं
सुप्तमिवाबुध्य
प्रबोधयितुमिच्छसि ॥ १४ ॥
ज्वलन्तं
तेजसा
नित्यं
क्रोधेन
च
दुरासदम् ।
कस्तं
मृत्युमिवासह्यमासादयितुमर्हति ॥ १५ ॥
संशयस्थमिदं
सर्वं
शत्रोः
प्रतिसमासने ।
एकस्य
गमनं
तत्र
नहि
मे
रोचते
भृशम् ॥ १६ ॥
हीनार्थः
सुसमृद्धार्थं
को
रिपुं
प्राकृतं
यथा ।
निश्चित्य
जीवितत्यागे
वशमानेतुमिच्छति ॥ १७ ॥
यस्य
नास्ति
मनुष्येषु
सदृशो
राक्षसोत्तम ।
कथमाशंससे
योद्धुं
तुल्येनेन्द्रविवस्वतोः ॥ १८ ॥
एवमुक्त्वा
तु
संरब्धः
कुम्भकर्णं
महोदरः ।
उवाच
रक्षसां
मध्ये
रावणं
लोकरावणम् ॥ १९ ॥
लब्ध्वा
पुनस्त्वं
वैदेहीं
किमर्थं
सम्प्रजल्पसि ।
यदीच्छसि
तदा
सीता
वशगा
ते
भविष्यति ॥ २० ॥
दृष्टः
कश्चिदुपायो
मे
सीतोपस्थानकारकः ।
रुचिरश्चेत्
स्वया
बुद्ध्या
राक्षसेश्वर
तं
शृणु ॥ २१ ॥
अहं
द्विजिह्वः
संह्रादी
कुम्भकर्णो
वितर्दनः ।
पञ्च
रामवधायैते
निर्यान्तीत्यवघोषय ॥ २२ ॥
ततो
गत्वा
वयं
युद्धं
दास्यामस्तस्य
यत्नतः ।
जेष्यामो
यदि
ते
शत्रून्नोपायैः
कृत्यमस्ति
नः ॥ २३ ॥
अथ
जीवति
नः
शत्रुर्वयं
च
कृतसंयुगाः ।
ततस्तदभिपत्स्यामो
मनसा
यत्
समीक्षितम् ॥ २४ ॥
वयं
युद्धादिहैष्यामो
रुधिरेण
समुक्षिताः ।
विदार्यं
स्वतनुं
बाणै
रामनामाङ्कितैः
शितैः ॥ २५ ॥
भक्षितो
राघवोऽस्माभिर्लक्ष्मणश्चेति
वादिनः ।
तव
पादौ
ग्रहीष्यामस्त्वं
नः
कामं
प्रपूरय ॥ २६ ॥
ततोऽवघोषय
पुरे
गजस्कन्धेन
पार्थिव ।
हतो
रामः
सह
भ्रात्रा
ससैन्य
इति
सर्वतः ॥ २७ ॥
प्रीतो
नाम
ततो
भूत्वा
भृत्यानां
त्वमरिन्दम ।
भोगांश्च
परिवारांश्च
कामांश्च
वसु
दापय ॥ २८ ॥
ततो
माल्यानि
वासांसि
वीराणामनुलेपनम् ।
पेयं
च
बहु
योधेभ्यः
स्वयं
च
मुदितः
पिब ॥ २९ ॥
ततोऽस्मिन्
बहुलीभूते
कौलीने
सर्वतो
गते ।
भक्षितः
ससुहृद्रामो
राक्षसैरिति
विश्रुते ॥ ३० ॥
प्रविश्याश्वास्य
चापि
त्वं
सीतां
रहसि
सान्त्वय ।
धनधान्यैश्च
कामैश्च
रत्नैश्चैनां
प्रलोभय ॥ ३१ ॥
अनयोपधया
राजन्
भयशोकानुबन्धया ।
अकामा
त्वद्वशं
सीता
नष्टनाथा
गमिष्यति ॥ ३२ ॥
रञ्जनीयं
हि
भर्तारं
विनष्टमवगम्य
सा ।
नैराश्यात्
स्त्रीलघुत्वाच्च
त्वद्वशं
प्रतिपत्स्यते ॥ ३३ ॥
सा
पुरा
सुखसंवृद्धा
सुखार्हा
दुःखकर्शिता ।
त्वय्यधीनं
सुखं
ज्ञात्वा
सर्वथोपगमिष्यति ॥ ३४ ॥
एतत्
सुनीतं
मम
दर्शनेन
रामं
हि
दृष्ट्वैव
भवेदनर्थः ।
इहैव
ते
सेत्स्यति
मोत्सुको
भूर्महानयुद्धेन
सुखस्य
लाभः ॥ ३५ ॥
अदृष्टसैन्यो
ह्यनवाप्तसंशयो
रिपूनयुद्धेन
जयन्
नराधिपः ।
यशश्च
पुण्यं
च
महन्महीपते
श्रियं
च
कीर्तिं
च
चिरं
समश्नुते ॥ ३६ ॥