स
तथोक्तस्तु
निर्भर्त्स्य
कुम्भकर्णो
महोदरम् ।
अब्रवीद्राक्षसश्रेष्ठं
भ्रातरं
रावणं
ततः ॥ १ ॥
सोऽहं
तव
भयं
घोरं
वधात्तस्य
दुरात्मनः ।
रामस्याद्य
प्रमार्जामि
निर्वैरो
हि
सुखी
भव ॥ २ ॥
गर्जन्ति
न
वृथा
शूरा
निर्जला
इव
तोयदाः ।
पश्य
सम्पाद्यमानं
तु
गर्जितं
युधि
कर्मणा ॥ ३ ॥
न
मर्षयति
चात्मानं
सम्भावयति
नात्मना ।
अदर्शयित्वा
शूरास्तु
कर्म
कुर्वन्ति
दुष्करम् ॥ ४ ॥
विक्लवानामबुद्धीनां
राज्ञा
पण्डितमानिनाम् ।
शृण्वता
सादितमिदं
त्वद्विधानां
महोदर ॥ ५ ॥
युद्धे
कापुरुषैर्नित्यं
भवद्भिः
प्रियवादिभिः ।
राजानमनुगच्छद्भिः
कृत्यमेतद्धि
सादितम् ॥ ६ ॥
राजशेषा
कृता
लङ्का
क्षीणः
कोशो
बलं
हतम् ।
राजानमिममासाद्य
सुहृच्चिह्नममित्रकम् ॥ ७ ॥
एष
निर्याम्यहं
युद्धमुद्यतः
शत्रुनिर्जये ।
दुर्नयं
भवतामद्य
समीकर्तुमिहाहवे ॥ ८ ॥
एवमुक्तवतो
वाक्यं
कुम्भकर्णस्य
धीमतः ।
प्रत्युवाच
ततो
वाक्यं
प्रहसन्
राक्षसाधिपः ॥ ९ ॥
महोदरोऽयं
रामात्तु
परित्रस्तो
न
संशयः ।
न
हि
रोचयते
तात
युद्धं
युद्धविशारद ॥ १० ॥
कश्चिन्मे
त्वत्समो
नास्ति
सौहृदेन
बलेन
च ।
गच्छ
शत्रुवधाय
त्वं
कुम्भकर्ण
जयाय
च ॥ ११ ॥
तस्मात्तु
भयनाशार्थं
भवान्
सम्बोधितो
मया ।
अयं
हि
कालः
सुहृदां
राक्षसानामरिन्दम ॥ १२ ॥
तद्गच्छ
शूलमादाय
पाशहस्त
इवान्तकः ।
वानरान्
राजपुत्रौ
च
भक्षयादित्यतेजसौ ॥ १३ ॥
समालोक्य
तु
ते
रूपं
विद्रविष्यन्ति
वानराः ।
रामलक्ष्मणोश्चापि
हृदये
प्रस्फुटिष्यतः ॥ १४ ॥
एवमुक्त्वा
महाराजः
कुम्भकर्णं
महाबलम् ।
पुनर्जातमिवात्मानं
मेने
राक्षसपुङ्गवः ॥ १५ ॥
कुम्भकर्णबलाभिज्ञो
जानंस्तस्य
पराक्रमम् ।
बभूव
मुदितो
राजा
शशाङ्क
इव
निर्मलः ॥ १६ ॥
इत्येवमुक्तः
संहृष्टो
निर्जगाम
महाबलः ।
राज्ञस्तु
वचनं
श्रुत्वा
कुम्भकर्णः
समुद्यतः ॥ १७ ॥
आददे
निशितं
शूलं
वेगाच्छत्रुनिबर्हणम् ।
सर्वकालायसं
दीप्तं
तप्तकाञ्चनभूषणम् ॥ १८ ॥
इन्द्राशनिसमं
भीमं
वज्रप्रतिमगौरवम् ।
देवदानवगन्धर्वयक्षकिन्नरसूदनम् ॥ १९ ॥
रक्तमाल्यं
महाधामस्वतश्चोद्गतपावकम् ।
आदाय
निशितं
शूलं
शत्रुशोणितरञ्जितम् ॥ २० ॥
कुम्भकर्णो
महातेजा
रावणं
वाक्यमब्रवीत् ।
अद्य
तान्
क्षुभितान्
क्रुद्धो
भक्षयिष्यामि
वानरान् ॥ २१ ॥
कुम्भकर्णवचः
श्रुत्वा
रावणो
वाक्यमब्रवीत् ।
सैन्यैः
परिवृतो
गच्छ
शूलमुद्गरपाणिभिः ॥ २२ ॥
वानरा
हि
महात्मानः
शीघ्राः
सुव्यवसायिनः ।
तस्मात्
परमदुर्धर्षैः
सैन्यैः
परिवृतो
व्रज ॥ २३ ॥
रक्षसामहितं
सर्वं
शत्रुपक्षं
निषूदय ।
अथासनात्
समुत्पत्य
स्रजं
मणिकृतान्तराम् ॥ २४ ॥
आबबन्ध
महातेजाः
कुम्भकर्णस्य
रावणः ।
अङ्गदान्यङ्गुलीवेष्टान्
वराण्याभरणानि
च ॥ २५ ॥
हारं
च
शशिसङ्काशमाबबन्ध
महात्मनः ।
दिव्यानि
च
सुगन्धीनि
माल्यदामानि
रावणः ॥ २६ ॥
श्रोत्रे
चासञ्जयामास
श्रीमती
चास्य
कुण्डले ।
काञ्चनाङ्गदकेयूरनिष्काभरणभूषितः ॥ २७ ॥
कुम्भकर्णो
बृहत्कर्णः
सुहुतोऽग्निरिवाबभौ ।
श्रोणीसूत्रेण
महता
मेचकेन
व्यराजत ॥ २८ ॥
अमृतोत्पादने
नद्धो
भुजङ्गेनेव
मन्दरः ।
स
काञ्चनं
भारसहं
निवातं
विद्युत्प्रभं
दीप्तमिवात्मभासा ॥ २९ ॥
आभध्यमानः
कवचं
रराज
सन्ध्याभ्रसंवीत
इवाद्रिराजः ।
सर्वाभरणसर्वाङ्गः
शूलपाणिः
स
राक्षसः ॥ ३० ॥
त्रिविक्रमकृतोत्साहो
नारायण
इवाबभौ ।
भ्रातरं
सम्परिष्वज्य
कृत्वा
चाभिप्रदक्षिणम् ॥ ३१ ॥
प्रणम्य
शिरसा
तस्मै
सम्प्रतस्थे
महाबलः ।
निष्पतन्तं
महाकायं
महानादं
महाबलम् ॥ ३२ ॥
तमाशीर्भिः
प्रशस्ताभिः
प्रेषयामास
रावणः ।
शङ्खदुन्दुभिनिर्घोषैः
सैन्यैश्चापि
वरायुधैः ॥ ३३ ॥
तं
गजैश्च
तुरङ्गैश्च
स्यन्दनैश्चाम्बुदस्वनैः ।
अनुजग्मुर्महात्मानं
रथिनो
रथिनां
वरम् ॥ ३४ ॥
सर्पैरुष्ट्रैः
खरैरश्वैः
सिंहद्विपमृगद्विजैः ।
अनुजग्मुश्च
तं
घोरं
कुम्भकर्णं
महाबलम् ॥ ३५ ॥
स
पुष्पवर्षैरवकीर्यमाणो
धृतातपत्रः
शितशूलपाणिः ।
मदोत्कटः
शोणितगन्धमत्तो
विनिर्ययौ
दानवदेवशत्रुः ॥ ३६ ॥
पदातयश्च
बहवो
महानादा
महाबलाः ।
अन्वयू
राक्षसा
भीमा
भीमाक्षाः
शस्त्रपाणयः ॥ ३७ ॥
रक्ताक्षाः
सुमहाकाया
नीलाञ्जनचयोपमाः ।
शूलानुद्यम्य
खड्गांश्च
निशितांश्च
परश्वधान् ॥ ३८ ॥
बहुव्यामांश्च
परिघान्
गदाश्च
मुसलानि
च ।
तालस्कन्धांश्च
विपुलान्
क्षेपणीयान्
दुरासदान् ॥ ३९ ॥
अथान्यद्वपुरादाय
दारुणं
रोमहर्षणम् ।
निष्पपात
महातेजाः
कुम्भकर्णो
महाबलः ॥ ४० ॥
धनुश्शतपरीणाहः
स
षट्छतसमुच्छ्रितः ।
रौद्रः
शकटचक्राक्षो
महापर्वतसन्निभः ॥ ४१ ॥
सन्निपत्य
च
रक्षांसि
दग्धशैलोपमो
महान् ।
कुम्भकर्णो
महावक्त्रः
प्रहसन्निदमब्रवीत् ॥ ४२ ॥
अद्य
वानरमुख्यानां
तानि
यूथानि
भागशः ।
निर्दहिष्यामि
सङ्क्रुद्धः
शलभानिव
पावकः ॥ ४३ ॥
नापराध्यन्ति
मे
कामं
वानरा
वनचारिणः ।
जातिरस्माद्विधानां
सा
पुरोद्यानविभूषणम् ॥ ४४ ॥
पुररोधस्य
मूलं
तु
राघवः
सहलक्ष्मणः ।
हते
तस्मिन्
हतं
सर्वं
तं
वधिष्यामि
संयुगे ॥ ४५ ॥
एवं
तस्य
ब्रुवाणस्य
कुम्भकर्णस्य
राक्षसाः ।
नादं
चक्रुर्महाघोरं
कम्पयन्त
इवार्णवम् ॥ ४६ ॥
तस्य
निष्पततस्तूर्णं
कुम्भकर्णस्य
धीमतः ।
बभूवुर्घोररूपाणि
निमित्तानि
समन्ततः ॥ ४७ ॥
उल्काशनियुता
मेघा
बभूवुर्गर्दभारुणाः ।
ससागरवना
चैव
वसुधा
समकम्पत ॥ ४८ ॥
घोररूपाः
शिवा
नेदुः
सज्वालकवलैर्मुखैः ।
मण्डलान्यपसव्यानि
बबन्धुश्च
विहङ्गमाः ॥ ४९ ॥
निष्पपात
च
मालेव
गृध्रोऽस्य
पथि
गच्छतः ।
प्रास्फुरन्नयनं
चास्य
सव्यो
बाहुश्च
कम्पते ॥ ५० ॥
निपपात
तदा
चोल्का
ज्वलन्ती
भीमनिस्वना ।
आदित्यो
निष्प्रभश्चासीन्न
प्रवाति
सुखोऽनिलः ॥ ५१ ॥
अचिन्तयन्
महोत्पातानुत्थितान्
रोमहर्षणान् ।
निर्ययौ
कुम्भकर्णस्तु
कृतान्तबलचोदितः ॥ ५२ ॥
स
लङ्घयित्वा
प्राकारं
पद्भ्यां
पर्वतसन्निभः ।
ददर्शाभ्रघनप्रख्यं
वानरानीकमद्भुतम् ॥ ५३ ॥
ते
दृष्ट्वा
राक्षसश्रेष्ठं
वानराः
पर्वतोपमम् ।
वायुनुन्ना
इव
घना
ययुः
सर्वा
दिशस्तदा ॥ ५४ ॥
तद्वानरानीकमतिप्रचण्डं
दिशो
द्रवद्भिन्नमिवाभ्रजालम् ।
स
कुम्भकर्णः
समवेक्ष्य
हर्षान्ननाद
भूयो
घनवद्
घनाभः ॥ ५५ ॥
ते
तस्य
घोरं
निनदं
निशम्य
यथा
निनादं
दिवि
वारिदस्य ।
पेतुर्धरण्यां
बहवः
प्लवङ्गा
निकृत्तमूला
इव
सालवृक्षाः ॥ ५६ ॥
विपुलपरिघवान्
स
कुम्भकर्णो
रिपुनिधनाय
विनिस्सृतो
महात्मा ।
कपिगणभयमाददत्
सुभीमं
प्रभुरिव
किङ्करदण्डवान्
युगान्ते ॥ ५७ ॥