स
लङ्घयित्वा
प्राकारं
गिरिकूटोपमो
महान् ।
निर्ययौ
नगरात्तूर्णं
कुम्भकर्णो
महाबलः ॥ १ ॥
स
ननाद
महानादं
समुद्रमभिनादयन् ।
जनयन्निव
निर्घातान्
विधमन्निव
पर्वतान् ॥ २ ॥
तमवध्यं
मधवता
यमेन
वरुणेन
वा ।
प्रेक्ष्य
भीमाक्षमायान्तं
वानरा
विप्रदुद्रुवुः ॥ ३ ॥
तांस्तु
विप्रद्रुतान्
दृष्ट्वा
वालिपुत्रोऽङ्गदोऽब्रवीत् ।
नलं
नीलं
गवाक्षं
च
कुमुदं
च
महाबलम् ॥ ४ ॥
आत्मानमत्र
विस्मृत्य
वीर्याण्यभिजनानि
च ।
क्व
गच्छत
भयत्रस्ताः
प्राकृता
हरयो
यथा ॥ ५ ॥
साधु
सौम्या
निवर्तध्वं
किं
प्राणान्
परिरक्षथ ।
नालं
युद्धाय
वै
रक्षो
महतीयं
बिभीषिका ॥ ६ ॥
महतीमुत्थितामेनां
राक्षसानां
बिभीषिकाम् ।
विक्रमाद्विधमिष्यामो
निवर्तध्वं
प्लवङ्गमाः ॥ ७ ॥
कृच्छ्रेण
तु
समाश्वस्य
सङ्गम्य
च
ततस्ततः ।
वृक्षाद्रिहस्ता
हरयः
सम्प्रतस्थू
रणाजिरम् ॥ ८ ॥
ते
निवृत्य
तु
सङ्क्रुद्धाः
कुम्भकर्णं
वनौकसः ।
निजघ्नुः
परमक्रुद्धाः
समदा
इव
कुञ्जराः ॥ ९ ॥
प्रांशुभिर्गिरिशृङ्गैश्च
शिलाभिश्च
महाबलः ।
पादपैः
पुष्पिताग्रैश्च
हन्यमानो
न
कम्पते ॥ १० ॥
तस्य
गात्रेषु
पतिता
भिद्यन्ते
शतशः
शिलाः ।
पादपाः
पुष्पिताग्राश्च
भग्नाः
पेतुर्महीतले ॥ ११ ॥
सोऽपि
सैन्यानि
सङ्क्रुद्धो
वानराणां
महौजसाम् ।
ममन्थ
परमायत्तो
वनान्यग्निरिवोत्थितः ॥ १२ ॥
लोहितार्द्रास्तु
बहवः
शेरते
वानरर्षभाः ।
निरस्ताः
पतिता
भूमौ
ताम्रपुष्पा
इव
द्रुमाः ॥ १३ ॥
लङ्घयन्तः
प्रधावन्तो
वानरा
नावलोकयन् ।
केचित्समुद्रे
पतिताः
केचिद्गगनमाश्रिताः ॥ १४ ॥
वध्यमानास्तु
ते
वीरा
राक्षसेन
बलीयसा ।
सागरं
येन
ते
तीर्णाः
पथा
तेन
प्रदुद्रुवुः ॥ १५ ॥
ते
स्थलानि
तथा
निम्नं
विषण्णवदना
भयात् ।
ऋक्षा
वृक्षान्
समारूढाः
केचित्
पर्वतमाश्रिताः ॥ १६ ॥
भग्नानां
वो
न
पश्यामि
परिगम्य
महीमिमाम् ।
स्थानं
सर्वे
निवर्तध्वं
किं
प्राणान्
परिरक्षथ ॥ १७ ॥
निरायुधानां
द्रवतामसङ्गगतिपौरुषाः ।
दारा
ह्यपहसिष्यन्ति
स
वै
घातस्तु
जीविनाम् ॥ १८ ॥
कुलेषु
जाताः
सर्वे
स्म
विस्तीर्णेषु
महत्सु
च ।
क्व
गच्छथ
भयत्रस्ता
हरयः
प्राकृता
यथा ॥ १९ ॥
अनार्याः
खलु
यद्भीतास्त्यक्त्वा
वीर्यं
प्रधावत ।
विकत्थनानि
वो
यानि
तदा
वै
जनसंसदि ॥ २० ॥
तानि
वः
क्व
नु
यातानि
सोदग्राणि
महान्ति
च ।
भीरुप्रवादाः
श्रूयन्ते
यस्तु
जीविति
धिक्कृतः ॥ २१ ॥
मार्गः
सत्पुरुषैर्जुष्टः
सेव्यतां
त्यज्यतां
भयम् ।
शयामहेऽथ
निहताः
पृथिव्यामल्पजीविताः ॥ २२ ॥
दुष्प्रापं
ब्रह्मलोकं
वा
प्राप्नुमो
युधि
सूदिताः ।
सम्प्राप्नुयामः
कीर्तिं
वा
निहत्वा
शत्रुमाहवे ॥ २३ ॥
जीवितं
वीरलोकस्य
मोक्ष्यामो
वसु
वानराः ।
न
कुम्भकर्णः
काकुत्स्थं
दृष्ट्वा
जीवन्
गमिष्यति ॥ २४ ॥
दीप्यमानमिवासाद्य
पतङ्गो
ज्वलनं
यथा ।
पलायनेन
चोद्दिष्टाः
प्राणान्
रक्षामहे
वयम् ॥ २५ ॥
एकेन
बहवो
भग्ना
यशो
नाशं
गमिष्यति ।
एवं
ब्रुवाणं
तं
शूरमङ्गदं
कनकाङ्गदम् ॥ २६ ॥
द्रवमाणास्ततो
वाक्यमूचुः
शूरविगर्हितम् ।
कृतं
नः
कदनं
घोरं
कुम्भकर्णेन
रक्षसा ॥ २७ ॥
न
स्थानकालो
गच्छामो
दयितं
जीवितं
हि
नः ।
एतावदुक्त्वा
वचनं
सर्वे
ते
भेजिरे
दिशः ॥ २८ ॥
भीमं
मीमाक्षमायान्तं
दृष्ट्वा
वानरयूथपाः ।
द्रवमाणास्तु
ते
वीरा
अङ्गदेन
वलीमुखाः ॥ २९ ॥
सान्त्वैश्चैवानुमानैश्च
ततः
सर्वे
निवर्तिताः ।
प्रहर्षमुपनीताश्च
वालिपुत्रेण
धीमता ॥ ३० ॥
आज्ञाप्रतीक्षास्तस्थुश्च
सर्वे
वानरयूथपाः ।
ऋषभशरभमैन्दधूम्रनीलाः
कुमुदसुषेणगवाक्षरम्भताराः ॥ ३१ ॥
द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं
रणं
प्रयाताः ॥ ३२ ॥