ते
निवृत्ता
महाकायाः
श्रुत्वाऽङ्गदवचस्तदा ।
नैष्ठिकीं
बुद्धिमासाद्य
सर्वे
सङ्ग्रामकाङ्क्षिणः ॥ १ ॥
समुदीरितवीर्याश्च
समारोपितविक्रमाः ।
पर्यवस्थापिता
वाक्यैरङ्गदेन
वलीमुखाः ॥ २ ॥
प्रयाताश्च
गता
हर्षं
मरणे
कृतनिश्चयाः ।
चक्रुः
सुतुमुलं
युद्धं
वानरास्त्यक्तजीविताः ॥ ३ ॥
अथ
वृक्षान्
महाकायाः
सानूनि
सुमहान्ति
च ।
वानरास्तूर्णमुद्यम्य
कुम्भकर्णमभिद्रुताः ॥ ४ ॥
स
कुम्भकर्णः
सङ्क्रुद्धो
गदामुद्यम्य
वीर्यवान् ।
अर्दयन्
सुमहाकायः
समन्ताद्व्यक्षिपद्रिपून् ॥ ५ ॥
शतानि
सप्त
चाष्टौ
च
सहस्राणि
च
वानराः ।
प्रकीर्णाः
शेरते
भूमौ
कुम्भकर्णेन
पोथिताः ॥ ६ ॥
परिक्षिप्य
च
बाहुभ्यां
खादन्
विपरिधावति ।
भक्षयन्
भृशसङ्क्रुद्धो
गरुडः
पन्नगानिव ॥ ७ ॥
कृच्छ्रेण
च
समाश्वस्ताः
सङ्गम्य
च
ततस्ततः ।
वृक्षाद्रिहस्ता
हरयस्तस्थुः
सङ्ग्राममूर्धनि ॥ ८ ॥
ततः
पर्वतमुत्पाट्य
द्विविदः
प्लवगर्षभः ।
दुद्राव
गिरिशृङ्गाभं
विलम्ब
इव
तोयदः ॥ ९ ॥
तं
समुत्पत्य
चिक्षेप
कुम्भकर्णस्य
वानरः ।
तमप्राप्तो
महाकायं
तस्य
सैन्येऽपतत्तदा ॥ १० ॥
ममर्दाश्वान्
गजांश्चापि
रथांश्चैव
नगोत्तमः ।
तानि
चान्यानि
रक्षांसि
पुनश्चान्यद्गिरेः
शिरेः ॥ ११ ॥
तच्छैलशृङ्गाभिहतं
हताश्वं
हतसारथि ।
रक्षसां
रुधिरक्लिन्नं
बभूवायोधनं
महत् ॥ १२ ॥
रथिनो
वानरेन्द्राणां
शरैः
कालान्तकोपमैः ।
शिरांसि
नदतां
जह्रुः
सहसा
भीमनिस्वनाः ॥ १३ ॥
वानराश्च
महात्मानः
समुत्पाट्य
महाद्रुमान् ।
रथानश्वान्
गजानुष्ट्रान्
राक्षसानभ्यसूदयन् ॥ १४ ॥
हनुमान्
शैलशृङ्गाणि
वृक्षांश्च
विविधान्
बहून् ।
ववर्ष
कुम्भकर्णस्य
शिरस्यम्बरमास्थितः ॥ १५ ॥
तानि
पर्वतशृङ्गाणि
शूलेन
स
बिभेद
ह ।
बभञ्ज
वृक्षवर्षं
च
कुम्भकर्णो
महाबलः ॥ १६ ॥
ततो
हरीणां
तदनीकमुग्रं
दुद्राव
शूलं
निशितं
प्रगृह्य ।
तस्थौ
ततोऽस्यापततः
पुरस्तान्महीधराग्रं
हनुमान्
प्रगृह्य ॥ १७ ॥
स
कुम्भकर्णं
कुपितो
जघान
वेगेन
शैलोत्तमभीमकायम् ।
स
चुक्षुभे
तेन
तदाऽभिभूतो
मेदार्द्रगात्रो
रुधिरावसिक्तः ॥ १८ ॥
स
शूलमाविध्य
तडित्प्रकाशं ।
गिरिं
यथा
प्रज्वलिताग्रशृङ्गम् ॥ १९ ॥
बाह्वन्तरे
मारुतिमाजघान ।
गुहोऽचलं
क्रौञ्चमिवोग्रशक्त्या ॥ २० ॥
स
शूलनिर्भिन्नमहाभूजान्तरः
प्रविह्वलः
शोणितमुद्वमन्
मुखात् ।
ननाद
भीमं
हनुमान्
महाहवे
युगान्तमेघस्तनितस्वनोपमम् ॥ २१ ॥
ततो
विनेदुः
सहसा
प्रहृष्टा
रक्षोगणास्तं
व्यथितं
समीक्ष्य ।
प्लवङ्गमास्तु
व्यथिता
भयार्ताः
प्रदुद्रुवुः
संयति
कुम्भकर्णात् ॥ २२ ॥
ततस्तु
नीलो
बलवान्
पर्यवस्थापयन्
बलम् ।
प्रविचिक्षेप
शैलाग्रं
कुम्भकर्णाय
धीमते ॥ २३ ॥
तमापतन्तं
सम्प्रेक्ष्य
मुष्टिनाऽभिजघान
ह ।
मुष्टिप्रहाराभिहतं
तच्छैलाग्रं
व्यशीर्यत ॥ २४ ॥
सविस्फुलिङ्गं
सज्वालं
निपपात
महीतले ।
ऋषभः
शरभो
नीलो
गवाक्षो
गन्धमादनः ॥ २५ ॥
पञ्च
वानरशार्दूलाः
कुम्भकर्णमुपाद्रवन् ।
शैलैर्वृक्षैस्तलैः
पादैर्मुष्टिभिश्च
महाबलाः ॥ २६ ॥
कुम्भकर्णं
महाकायं
सर्वतोऽभिप्रदुद्रुवुः ।
स्पर्शानिव
प्रहारांस्तान्
वेदयानो
न
विव्यथे ॥ २७ ॥
ऋषभं
तु
महावेगं
बाहुभ्यां
परिषस्वजे ।
कुम्भकर्णभुजाभ्यां
तु
पीडितो
वानरर्षभः ॥ २८ ॥
निपपातर्षभो
भीमः
प्रमुखाद्वान्तशोणितः ।
मुष्टिना
शरभं
हत्वा
जानुना
नीलमाहवे ॥ २९ ॥
आजघान
गवाक्षं
तु
तलेनेन्द्ररिपुस्तदा ।
पादेनाभ्यहनत्
क्रुद्धस्तरसा
गन्धमादनम् ॥ ३० ॥
दत्तप्रहारव्यथिता
मुमुहुः
शोणितोक्षिताः ।
तेषु
वानरमुख्येषु
पतितेषु
महात्मसु ॥ ३१ ॥
वानराणां
सहस्राणि
कुम्भकर्णं
प्रदुद्रुवुः ।
तं
शैलमिव
शैलाभाः
सर्वे
ते
प्लवगर्षभाः ॥ ३२ ॥
समारुह्य
समुत्पत्य
ददंशुश्च
महाबलाः ।
तं
नखैर्दशनैश्चापि
मुष्टिभिर्जानुभिस्तथा ॥ ३३ ॥
कुम्भकर्णं
महाकायं
ते
जघ्नुः
प्लवगर्षभाः ।
स
वानरसहस्रैस्तैराचितः
पर्वतोपमः ॥ ३४ ॥
रराज
राक्षसव्याघ्रो
गिरिरात्मरुहैरिव ।
बाहुभ्यां
वानरान्
सर्वान्
प्रगृह्य
सुमहाबलः ॥ ३५ ॥
भक्षयामास
सङ्क्रुद्धो
गरुडः
पन्नगानिव ।
प्रक्षिप्ताः
कुम्भकर्णेन
वक्त्रे
पातालसन्निभे ॥ ३६ ॥
नासापुटाभ्यां
निर्जग्मुः
कर्णाभ्यां
चैव
वानराः ।
भक्षयन्
भृशसङ्क्रुद्धो
हरीन्
पर्वतसन्निभः ॥ ३७ ॥
बभञ्ज
वानरान्
सर्वान्
सङ्क्रुद्धो
राक्षसोत्तमः ।
मांसशोणितसङ्क्लेदां
भूमिं
कुर्वन्
स
राक्षसः ॥ ३८ ॥
चचार
हरिसैन्येषु
कालाग्निरिव
मूर्च्छितः ।
वज्रहस्तो
यथा
शक्रः
पाशहस्त
इवान्तकः ॥ ३९ ॥
शूलहस्तो
बभौ
सङ्ख्ये
कुम्भकर्णो
महाबलः ।
यथा
शुष्काण्यरण्यानि
ग्रीष्मे
दहति
पावकः ॥ ४० ॥
तथा
वानरसैन्यानि
कुम्भकर्णो
विनिर्दहत् ।
ततस्ते
वध्यमानास्तु
हतयूथा
विनायकाः ॥ ४१ ॥
वानरा
भयसंविग्ना
विनेदुर्विस्वरं
भृशम् ।
अनेकशो
वध्यमानाः
कुम्भकर्णेन
वानराः ॥ ४२ ॥
राघवं
शरणं
जग्मुर्व्यथिताः
खिन्नचेतसः ।
प्रभग्नान्
वानरान्
दृष्ट्वा
वज्रहस्तसुतात्मजः ॥ ४३ ॥
अभ्यधावत
वेगेन
कुम्भकर्णं
महाहवे ।
शैलशृङ्गं
महद्गृह्य
विनदंश्च
मुहुर्मुहुः ॥ ४४ ॥
त्रासयन्
राक्षसान्
सर्वान्
कुम्भकर्णपदानुगान् ।
चिक्षेप
शैलशिखरं
कुम्भकर्णस्य
मूर्धनि ॥ ४५ ॥
स
तेनाभिहतोऽत्यर्थं
गिरिशृङ्गेण
मूर्धनि ।
कुम्भकर्णः
प्रजज्वाल
कोपेन
महता
तदा ॥ ४६ ॥
सोऽभ्यधावत
वेगेन
वालिपुत्रममर्षणः ।
कुम्भकर्णो
महानादस्त्रासयन्
सर्ववानरान् ॥ ४७ ॥
शूलं
ससर्ज
वै
रोषादङ्गदे
स
महावलः ।
तमापतन्तं
बुद्ध्वा
तु
युद्धमार्गविशारदः ॥ ४८ ॥
लाघवान्मोचयामास
बलवान्
वानरर्षभः ।
उत्पत्य
चैनं
सहसा
तलेनोरस्यताडयत् ॥ ४९ ॥
स
तेनाभिहतः
कोपात्
प्रमुमोहाचलोपमः ।
स
लब्धसञ्ज्ञो
बलवान्
मुष्टिमावर्त्त्य
राक्षसः ॥ ५० ॥
अपहासेन
चिक्षेप
विसञ्ज्ञः
स
पपात
ह ।
तस्मिन्
प्लवगशार्दूले
विसञ्ज्ञे
पतिते
भुवि ॥ ५१ ॥
तच्छूलं
समुपादाय
सुग्रीवमभिदुद्रुवे ।
तमापतन्तं
सम्प्रेक्ष्य
कुम्भकर्णं
महाबलम् ॥ ५२ ॥
उत्पपात
तदा
वीरः
सुग्रीवो
वानराधिपः ।
पर्वताग्रं
समुत्क्षिप्य
समाविध्य
महाकपिः ॥ ५३ ॥
अभिदुद्राव
वेगेन
कुम्भकर्णं
महाबलम् ।
तमापतन्तं
सम्प्रेक्ष्य
कुम्भकर्णः
प्लवङ्गमम् ॥ ५४ ॥
तस्थौ
विकृतसर्वाङ्गो
वानरेन्द्रसमुन्मुखः ।
कपिशोणितदिग्धाङ्गं
भक्षयन्तं
प्लवङ्गमान् ॥ ५५ ॥
कुम्भकर्णं
स्थितं
दृष्ट्वा
सुग्रीवो
वाक्यमब्रवीत् ।
पातिताश्च
त्वया
वीराः
कृतं
कर्म
सुदुष्करम् ॥ ५६ ॥
भक्षितानि
च
सैन्यानि
प्राप्तं
ते
परमं
यशः ।
त्यज
तद्वानरानीकं
प्राकृतैः
किं
करिष्यसि ॥ ५७ ॥
सह
स्वैकनिपातं
मे
पर्वतस्यास्य
राक्षस ।
तद्वाक्यं
हरिराजस्य
सत्त्वधैर्यसमन्वितम् ॥ ५८ ॥
श्रुत्वा
राक्षसशार्दूलः
कुम्भकर्णोऽब्रवीद्वचः ।
प्रजापतेस्तु
पौत्रस्त्वं
तथैवर्क्षरजस्सुतः ॥ ५९ ॥
श्रुतपौरुषसम्पन्नः
कस्माद्गर्जसि
वानर ।
स
कुम्भकर्णस्य
वचो
निशम्य
व्याविध्य
शैलं
सहसा
मुमोच ॥ ६० ॥
तेनाजघानोरसि
कुम्भकर्णं
शैलेन
वज्राशनिसन्निभेन ।
तच्छैलशृङ्गं
सहसा
विशीर्णं
भुजान्तरे
तस्य
तदा
विशाले ॥ ६१ ॥
ततो
विषेदुः
सहसा
प्लवङ्गा
रक्षोगणाश्चापि
मुदा
विनेदुः ।
स
शैलशृङ्गाभिहतश्चुकोप
ननाद
कोपाच्च
विवृत्य
वक्त्रम् ॥ ६२ ॥
व्याविध्य
शूलं
च
तडित्प्रकाशं
चिक्षेप
हर्यृक्षपतेर्वधाय ।
तत्
कुम्भकर्णस्य
भुजप्रविद्धं
शूलं
शितं
काञ्चनधामजुष्टम् ॥ ६३ ॥
क्षिप्रं
समुत्पत्य
निगृह्य
दोर्भ्यां
बभञ्ज
वेगेन
सुतोऽनिलस्य ।
कृतं
भारसहस्रस्य
शूलं
कालायसं
महत् ॥ ६४ ॥
बभञ्ज
जानुन्यारोप्य
प्रहृष्टः
प्लवगर्षभः ।
शूलं
भग्नं
हनुमता
दृष्ट्वा
वानरवाहिनी ॥ ६५ ॥
हृष्टा
ननाद
बहुशः
सर्वतश्चापि
दुद्रुवे ।
सिंहनादं
च
ते
चक्रुः
प्रहृष्टा
वनगोचराः ॥ ६६ ॥
मारुतिं
पूजयाञ्चक्रुर्दृष्ट्वा
शूलं
तथागतम् ।
स
तत्तदा
भग्नमवेक्ष्य
शूलं
चुकोप
रक्षोधिपतिर्महात्मा ॥ ६७ ॥
उत्पाट्य
लङ्कामलयात्
स
शृङ्गं
जघान
सुग्रीवमुपेत्य
तेन ।
स
शैलशृङ्गाभिहतो
विसञ्ज्ञः
पपात
भूमौ
युधि
वानरेन्द्रः ॥ ६८ ॥
तं
प्रेक्ष्य
भूमौ
पतितं
विसञ्ज्ञं
नेदुः
प्रहृष्टास्त्वथ
यातुधानाः ।
तमभ्युपेत्याद्भुतघोरवीर्यं
स
कुम्भकर्णो
युधि
वानरेन्द्रम् ॥ ६९ ॥
जहार
सुग्रीवमभिप्रगृह्य
यथाऽनिलो
मेघमतिप्रचण्डः ।
स
तं
महामेघनिकाशरूपमुत्पाट्य
गच्छन्
युधि
कुम्भकर्णः ॥ ७० ॥
रराज
मेरुप्रतिमानरूपो
मेरुर्यथाऽभ्युच्छ्रितघोरशृङ्गः ।
ततस्तमुत्पाट्य
जगाम
वीरः
संस्तूयमानो
युधि
राक्षसेन्द्रैः ॥ ७१ ॥
शृण्वन्निनादं
त्रिदशालयानां
प्लवङ्गराजग्रहविस्मितानाम् ।
ततस्
तम्
आदाय
तदा
स
मेने ॥ ७२ ॥
हरीन्द्रम्
इन्द्रोपमम्
इन्द्रवीर्यः ।
अस्मिन्
हृते
सर्वमिदं
हृतं
स्यात् ॥ ७३ ॥
सराघवं
सैन्यम्
इतीन्द्रशत्रुः ।
विद्रुतां
वाहिनीं
दृष्ट्वा
वानराणां
ततस्ततः ॥ ७४ ॥
कुम्भकर्णेन
सुग्रीवं
गृहीतं
चापि
वानरम् ।
हनुमांश्चिन्तयामास
मतिमान्
मारुतात्मजः ॥ ७५ ॥
एवं
गृहीते
सुग्रीवे
किं
कर्तव्यं
मया
भवेत् ।
यद्वै
न्याय्यं
मया
कर्तुं
तत्
करिष्यामि
सर्वथा ॥ ७६ ॥
भूत्वा
पर्वतसङ्काशो
नाशयिष्यामि
राक्षसम् ।
मया
हते
संयति
कुम्भकर्णे
महाबले
मुष्टिविकीर्णदेहे ॥ ७७ ॥
विमोचिते
वानरपार्थिवे
च
भवन्तु
हृष्टाः
प्लवगाः
समस्ताः ।
अथवा
स्वयमप्येष
मोक्षं
प्राप्स्यति
पार्थिवः ॥ ७८ ॥
गृहीतोऽयं
यदि
भवेत्त्रिदशैः
सासुरोरगैः ।
मन्ये
न
तावदात्मानं
बुद्ध्यते
वानराधिपः ॥ ७९ ॥
शैलप्रहाराभिहतः
कुम्भकर्णेन
संयुगे ।
अयं
मुहूर्तात्
सुग्रीवो
लब्धसञ्ज्ञो
महाहवे ॥ ८० ॥
आत्मनो
वानराणां
च
यत्
पथ्यं
तत्
करिष्यति ।
मया
तु
मोक्षितस्यास्य
सुग्रीवस्य
महात्मनः ॥ ८१ ॥
अप्रीतिश्च
भवेत्
कष्टा
कीर्तिनाशश्च
शाश्वतः ।
तस्मान्मुहूर्तं
काङ्क्षिष्ये
विक्रमं
पार्थिवस्य
तु ॥ ८२ ॥
भिन्नं
च
वानरानीकं
तावदाश्वासयाम्यहम् ।
इत्येवं
चिन्तयित्वा
तु
हनुमान्
मारुतात्मजः ॥ ८३ ॥
भूयः
संस्तम्भयामास
वानराणां
महाचमूम् ।
स
कुम्भकर्णोऽथ
विवेश
लङ्कां
स्फुरन्तमादाय
महाकपिं
तम् ॥ ८४ ॥
विमानचर्यागृहगोपुरस्थैः
पुष्पाग्र्यवर्षैरवकीर्यमाणः ।
लाजगन्धोदवर्षैस्तु
सिच्यमानः
शनैःशनैः ॥ ८५ ॥
राजमार्गस्य
शीतत्वात्
सञ्ज्ञामाप
महाबलः ।
ततः
स
सञ्ज्ञामुपलभ्य
कृच्छ्राद्वलीयसस्तस्य
भुजान्तरस्थः ॥ ८६ ॥
अवेक्षमाणः
पुरराजमार्गं
विचिन्तयामास
मुहुर्महात्मा ।
एवं
गृहीतेन
कथं
नु
नाम
शक्यं
मया
सम्प्रतिकर्तुमद्य ॥ ८७ ॥
तथा
करिष्यामि
यथा
हरीणां
भविष्यतीष्टं
च
हितं
च
कार्यम् ।
ततः
कराग्रैः
सहसा
समेत्य
राजा
हरीणाममरेन्द्रशत्रुम् ॥ ८८ ॥
खरैश्च
कर्णौ
दशनैश्च
नासां
ददंश
पार्श्वेषु
च
कुम्भकर्णम् ।
स
कुम्भकर्णो
हृतकर्णनासो
विदारितस्तेन
विमर्दितश्च ॥ ८९ ॥
रोषाभिभूतः
क्षतजार्द्रगात्रः
सुग्रीवमाविध्य
पिपेष
भूमौ ।
स
भूतले
भीमबलाभिपिष्टः
सुरारिभिस्तैरभिहन्यमानः ॥ ९० ॥
जगाम
खं
वेगवदभ्युपेत्य
पुनश्च
रामेण
समाजगाम ।
कर्णनासाविहीनस्तु
कुम्भकर्णो
महाबलः ॥ ९१ ॥
रराज
शोणितैः
सिक्तो
गिरिः
प्रस्रवणैरिव ।
शोणितार्द्रो
महाकायो
राक्षसो
भीमविक्रमः ॥ ९२ ॥
युद्धायाभिमुखो
भूयो
मनश्चके
महाबलः ।
अमर्षाच्छोणितोद्गरी
शुशुभे
रावणानुजः ॥ ९३ ॥
नीलाञ्जनचयप्रख्यः
ससन्ध्य
इव
तोयदः ।
गते
तु
तस्मिन्
सुरराजशत्रुः
क्रोधात्
प्रदुद्राव
रणाय
भूयः ॥ ९४ ॥
अनायुधोऽस्मीति
विचिन्त्य
रौद्रो
घोरं
तदा
मुद्गरमाससाद ।
ततः
स
पुर्याः
सहसा
महौजा
निष्क्रम्य
तद्वानरसैन्यमुग्रम् ॥ ९५ ॥
बभक्ष
रक्षो
युधि
कुम्भकर्णः
प्रजा
युगान्ताग्निरिव
प्रदीप्तः ।
बुभुक्षितः
शोणितमांसगृध्नुः
प्रविश्य
तद्वानरसैन्यमुग्रम् ॥ ९६ ॥
चखाद
रक्षांसि
हरीन्
पिशाचानृक्षांश्च
मोहाद्युधि
कुम्भकर्णः ।
यथैव
मृत्युर्हरते
युगान्ते
स
भक्षयामास
हरींश्च
मुख्यान् ॥ ९७ ॥
एकं
द्वे
त्रीन्
बहून्
क्रुद्धो
वानरान्
सह
राक्षसैः ।
समादायैकहस्तेन
प्रचिक्षेप
त्वरन्
मुखे ॥ ९८ ॥
सम्प्रस्रवंस्तदा
मेदः
शोणितं
च
महाबलः ।
वध्यमानो
नगेन्द्राग्रैर्भक्षयामास
वानरान् ॥ ९९ ॥
ते
भक्ष्यमाणा
हरयो
रामं
जग्मुस्तदा
गतिम् ।
कुम्भकर्णो
भृशं
क्रुद्धः
कपीन्
खादन्
प्रधावति ॥ १०० ॥
शतानि
सप्त
चाष्टौ
च
विंशत्त्रिंशत्तथैव
च ।
सम्परिष्वज्य
बाहुभ्यां
खादन्
विपरिधावति ॥ १०१ ॥
तस्मिन्
काले
सुमित्रायाः
पुत्रः
परबलार्दनः ।
चकार
लक्ष्मणः
क्रुद्धो
युद्धं
परपुरञ्जयः ॥ १०२ ॥
स
कुम्भकर्णस्य
शरान्
शरीरे
सप्त
वीर्यवान् ।
निचखानाददे
बाणान्
विससर्ज
च
लक्ष्मणः ॥ १०३ ॥
अतिक्रम्य
च
सौमित्रिं
कुम्भकर्णो
महाबलः ।
राममेवाभिदुद्राव
दारयन्निव
मेदिनीम् ॥ १०४ ॥
अथ
दाशरथी
रामो
रौद्रमस्त्रं
प्रयोजयन् ।
कुम्भकर्णस्य
हृदये
ससर्ज
निशितान्
शरान् ॥ १०५ ॥
तस्य
रामेण
विद्धस्य
सहसाऽभिप्रधावतः ।
अङ्गारमित्राः
क्रुद्धस्य
मुखान्निश्चेरुरर्चिषः ॥ १०६ ॥
रामास्त्रविद्धो
घोरं
वै
नदन्
राक्षसपुङ्गवः ।
अभ्यधावत
सङ्क्रुद्धो
हरीन्
विद्रावयन्
रणे ॥ १०७ ॥
हस्ताच्चापि
परिभ्रष्टा
पपातोर्व्यां
महागदा ।
आयुधानि
च
सर्वाणि
विप्रकीर्यन्त
भूतले ॥ १०८ ॥
स
निरायुधमात्मानं
यदा
मेने
महाबलः ।
मुष्टिभ्यां
चरणाभ्यां
च
चकार
कदनं
महत् ॥ १०९ ॥
स
बाणैरतिविद्धाङ्गः
क्षतजेन
समुक्षितः ।
रुधिरं
प्रतिसुस्राव
गिरिः
प्रस्रवणं
यथा ॥ ११० ॥
स
तीर्वेण
च
कोपेन
रुधिरेण
च
मूर्च्छितः ।
वानरान्
राक्षसानृक्षान्
खादन्
विपरिधावति ॥ १११ ॥
अथ
शृङ्गं
समाविध्य
भीमं
भीमपराक्रमः ।
चिक्षेप
राममुद्दिश्य
बलवानन्तकोपमः ॥ ११२ ॥
अप्राप्तमन्तरा
रामः
सप्तभिस्तैरजिह्मगैः ।
शरैः
काञ्चनचित्राङ्गैश्चिच्छेद
पुरुषर्षभः ॥ ११३ ॥
तन्मेरुशिखराकारं
द्योतमानमिव
श्रिया ।
द्वे
शते
वानरेन्द्राणां
पतमानमपातयत् ॥ ११४ ॥
तस्मिन्
काले
स
धर्मात्मा
लक्ष्मणो
वाक्यमब्रवीत् ।
कुम्भकर्णवधे
युक्तो
योगान्
परिमृशन्
बहून् ॥ ११५ ॥
नैवायं
वानरान्
राजन्नापि
जानाति
राक्षसान् ।
मत्तः
शोणितगन्धेन
स्वान्
परांश्चैव
खादति ॥ ११६ ॥
साध्वेनमधिरोहन्तु
सर्वे
ते
वानरर्षभाः ।
यूथपाश्च
यथा
मुख्यास्तिष्ठन्त्वस्य
समन्ततः ॥ ११७ ॥
अप्ययं
दुर्मतिः
काले
गुरुभारप्रपीडितः ।
प्रपतन्
राक्षसो
भूमौ
नान्यान्
हन्यात्
प्लवङ्गमान् ॥ ११८ ॥
तस्य
तद्वचनं
श्रुत्वा
राजपुत्रस्य
धीमतः ।
ते
समारुरुहुर्हृष्टाः
कुम्भकर्णं
प्लवङ्गमाः ॥ ११९ ॥
कुम्भकर्णस्तु
सङ्क्रुद्धः
समारूढः
प्लवङ्गमैः ।
व्यधूनयत्तान्
वेगेन
दुष्टहस्तीव
हस्तिपान् ॥ १२० ॥
तान्
दृष्ट्वा
निर्धुतान्
रामो
दुष्टोऽयमिति
राक्षसः ।
सुमुत्पपात
वेगेन
धनुरुत्तममाददे ॥ १२१ ॥
राघवो
राक्षसं
रोषादभिदुद्राव
वेगितः ।
यूथपान्
हर्षयन्
सर्वान्
कुम्भकर्णभयार्दितान् ॥ १२२ ॥
स
चापमादाय
भुजङ्गकल्पं
दृढज्यमुग्रं
तपनीयचित्रम् ।
हरीन्
समाश्वास्य
समुत्पपात
रामो
निबद्धोत्तमतूणबाणः ॥ १२३ ॥
स
वानरगणैस्तैस्तु
वृतः
परमदुर्जयः ।
लक्ष्मणानुचरो
रामः
सम्प्रतस्थे
महावलः ॥ १२४ ॥
स
ददर्श
महात्मानं
किरीटिनमरिन्दमम् ।
शोणिताप्लुतसर्वाङ्गं
कुम्भकर्णं
महाबलम् ॥ १२५ ॥
सर्वान्
समभिधावन्तं
यथा
रुष्टं
दिशागजम् ।
मार्गमाणं
हरीन्
क्रुद्धं
राक्षसैः
परिवारितम् ॥ १२६ ॥
विन्ध्यमन्दरसङ्काशं
काञ्चनाङ्गदभूषणम् ।
स्रवन्तं
रुधिरं
वक्त्राद्वर्षमेघमिवोत्थितम् ॥ १२७ ॥
जिह्वया
परिलिह्यन्तं
शोणितं
शोणितेक्षणम् ।
मृद्नन्तं
वानरानीकं
कालान्तकयमोपमम् ॥ १२८ ॥
तं
दृष्ट्वा
राक्षसश्रेष्ठं
प्रदीप्तानलवर्चसम् ।
विस्फारयामास
तदा
कार्मुकं
पुरुषर्षभः ॥ १२९ ॥
स
तस्य
चापनिर्घोषात्
कुपितो
राक्षसर्षभः ।
अमृष्यमाणस्तं
घोषमभिदुद्राव
राघवम् ॥ १३० ॥
ततस्तु
वातोद्धतमेघकल्पं
भुजङ्गराजोत्तमभोगबाहुम् ।
तमापतन्तं
धरणीधराभमुवाच
रामो
युधि
कुम्भकर्णम् ॥ १३१ ॥
आगच्छ
रक्षोधिप
मा
विषादमवस्थितोऽहं
प्रगृहीतचापः ।
अवेहि
मां
शक्रसपत्न
रामं
मया
मुहूर्ताद्भविता
विचेताः ॥ १३२ ॥
रामोऽयमिति
विज्ञाय
जहास
विकृतस्वनम् ।
अभ्यधावत
सङ्क्रुद्धो
हरीन्
विद्रावयन्
रणे ॥ १३३ ॥
पातयन्निव
सर्वेषां
हृदयानि
वनौकसाम् ।
प्रहस्य
विकृतं
भीमं
स
मेघस्तनितोपमम् ॥ १३४ ॥
कुम्भकर्णो
महातेजा
राघवं
वाक्यमब्रवीत् ।
नाहं
विराधो
विज्ञेयो
न
कबन्धः
खरो
न
च ॥ १३५ ॥
न
वाली
न
च
मारीचः
कुम्भकर्णोऽहमागतः ।
पश्य
मे
मुद्गरं
घोरं
सर्वकालायसं
महत् ॥ १३६ ॥
अनेन
निर्जिता
देवा
दानवाश्च
पुरा
मया ।
विकर्णनास
इति
मां
नावज्ञातुं
त्वमर्हसि ॥ १३७ ॥
स्वल्पाऽपि
हि
न
मे
पीडा
कर्णनासाविनाशनात् ।
दर्शयेक्ष्वाकुशार्दूल
वीर्यं
गात्रेषु
मे
लघु ॥ १३८ ॥
ततस्त्वां
भक्षयिष्यामि
दृष्टपौरुषविक्रमम् ।
स
कुम्भकर्णस्य
वचो
निशम्य
रामः
सुपुङ्खान्
विससर्ज
बाणान् ॥ १३९ ॥
तैराहतो
वज्रसमग्रवेगैर्न
चुक्षुभे
न
व्यथते
सुरारिः ।
यैः
सायकैः
सालवरा
निकृत्ता
वाली
हतो
वानरपुङ्गवश्च ॥ १४० ॥
ते
कुम्भकर्णस्य
तदा
शरीरे
वज्रोपमा
न
व्यथयाम्प्रचक्रुः ।
स
वारिधारा
इव
सायकांस्तान्
पिबन्
शरीरेण
महेन्द्रशत्रुः ॥ १४१ ॥
जघान
रामस्य
शरप्रवेगं
व्याविध्य
तं
मुद्गरमुग्रवेगम् ।
ततस्तु
रक्षः
क्षतजानुलिप्तं
वित्रासनं
देवमहाचमूनाम् ॥ १४२ ॥
विव्याध
तं
मुद्गरमुग्रवेगं
विद्रावयामास
चमूं
हरीणाम् ।
वायव्यमादाय
ततो
वरास्त्रं
रामः
प्रचिक्षेप
निशाचराय ॥ १४३ ॥
समुद्गरं
तेन
जघान
बाहुं
स
कृत्तबाहुस्तुमुलं
ननाद ।
स
तस्य
बाहुर्गिरिशृङ्गकल्पः
समुद्गरो
राघवबाणकृत्तः ॥ १४४ ॥
पपात
तस्मिन्
हरिराजसैन्ये
जघान
तां
वानरवाहनीं
च ।
ते
वानरा
भग्नहतावशेषाः
पर्यन्तमाश्रित्य
तदा
विषण्णाः ॥ १४५ ॥
प्रवेपिताङ्गं
ददृशुः
सुघोरं
नरेन्द्ररक्षोधिपसन्निपातम् ।
स
कुम्भकर्णोऽस्त्रनिकृत्तबाहुर्महान्निकृत्ताग्र
इवाचलेन्द्रः ॥ १४६ ॥
उत्पाटयामास
करेण
वृक्षं
ततोऽभिदुद्राव
रणे
नरेन्द्रम् ।
स
तस्य
बाहुं
सहसालवृक्षं
समुद्यतं
पन्नगभोगकल्पम् ॥ १४७ ॥
ऐन्द्रास्त्रयुक्तेन
जघान
रामो
बाणेन
जाम्बूनदचित्रितेन ।
स
कुम्भकर्णस्य
भुजो
निकृत्तः
पपात
भूमौ
गिरिसन्निकाशः ॥ १४८ ॥
विवेष्टमानोऽभिजघान
वृक्षान्
शैलान्
शिला
वानरराक्षसांश्च ।
तं
छिन्नबाहुं
समवेक्ष्य
रामः
समापतन्तं
सहसा
नदन्तम् ॥ १४९ ॥
द्वावर्धचन्द्रौ
निशितौ
प्रगृह्य
चिच्छेद
पादौ
युधि
राक्षसस्य ।
तौ
तस्य
पादौ
प्रदिशो
दिशश्च
गिरीन्
गुहाश्चैव
महार्णवं
च ॥ १५० ॥
लङ्कां
च
सेनां
कपिराक्षसानां
विनादयन्तौ
विनिपेततुश्च ।
निकृत्तबाहुर्विनिकृत्तपादो
विदार्य
वक्त्रं
वडवामुखाभम् ॥ १५१ ॥
दुद्राव
रामं
सहसाऽभिगर्जन्
राहुर्यथा
चन्द्रमिवान्तरिक्षे ।
अपूरयत्तस्य
मुखं
शिताग्रै
रामः
शरैर्हेमपिनद्धपुङ्खैः ॥ १५२ ॥
स
पूर्णवक्त्रो
न
शशाक
वक्तुं
चुकूज
कृच्छ्रेण
मुमोह
चापि ।
अथाददे
सूर्यमरीचिकल्पं
स
ब्रह्मदण्डान्तककालकल्पम् ॥ १५३ ॥
अरिष्टमैन्द्रं
निशितं
सुपुङ्खं
रामः
शरं
मारुततुल्यवेगम् ।
तं
वज्रजाम्बूनदचारुपुङ्खं
प्रदीप्तसूर्यज्वलनप्रकाशम् ॥ १५४ ॥
महेन्द्रवज्राशनितुल्यवेगं
रामः
प्रचिक्षेप
निशाचराय ।
स
सायको
राघवबाहुचोदितो
दिशः
स्वभासा
दश
सम्प्रकाशयन् ॥ १५५ ॥
सधूमवैश्वानरदीप्तदर्शनो
जगाम
शक्राशनिवीर्यविक्रमः ।
स
तन्महापर्वतकूटसन्निभं
विवृत्तदंष्ट्रं
चलचारुकुण्डलम् ॥ १५६ ॥
चकर्त
रक्षोधिपतेः
शिरस्तथा
यथैव
वृत्रस्य
पुरा
पुरन्दरः ।
कुम्भकर्णशिरो
भाति
कुण्डलालङ्कृतं
महत् ॥ १५७ ॥
आदित्येऽभ्युदिते
रात्रौ
मध्यस्थ
इव
चन्द्रमाः ।
तद्रामबाणाभिहतं
पपात
रक्षश्शिरःपर्वतसन्निकाशम् ॥ १५८ ॥
बभञ्ज
चर्यागृहगोपुराणि
प्राकारमुच्चं
तमपातयच्च ।
न्यपतत्
कुम्भकर्णोऽथ
स्वकायेन
निपातयन् ॥ १५९ ॥
प्लवङ्गमानां
कोट्यश्च
परितः
सम्प्रधावताम् ।
तच्चाति
कायं
हिमवत्प्रकाशं
रक्षस्ततस्तोयनिधौ
पपात ॥ १६० ॥
ग्राहान्
वरान्
मीनवरान्
भुजङ्गान्
ममर्द
भूमिं
च
तदा
विवेश ।
तस्मिन्
हते
ब्राह्मणदेवशत्रौ
महाबले
संयति
कुम्भकर्णे ॥ १६१ ॥
चचाल
भूर्भूमिधराश्च
सर्वे
हर्षाच्च
देवास्तुमुलं
प्रणेदुः ।
ततस्तु
देवर्षिमहर्षिपन्नगाः
सुराश्च
भूतानि
सुपर्णगुह्यकाः ॥ १६२ ॥
सयक्षगन्धर्वगणा
नभोगताः
प्रहर्षिता
रामपराक्रमेण ।
ततस्तु
ते
तस्य
वधेन
भूरिणा
मनस्विनो
नैर्ऋतराजबान्धवाः ॥ १६३ ॥
विनेदुरुच्चैर्व्यथिता
रघूत्तमं
हरिं
समीक्ष्यैव
यथा
सुरार्दिताः ।
स
देवलोकस्य
तमो
निहत्य
सूर्यो
यथा
राहुमुखाद्विमुक्तः ॥ १६४ ॥
तथा
व्यभासीद्भुवि
वानरौघे
निहत्य
रामो
युधि
कुम्भकर्णम् ।
प्रहर्षमीयुर्बहवस्तु
वानराः
प्रबुद्धपद्मप्रतिमैरिवाननैः ॥ १६५ ॥
अपूजयन्
राघवमिष्टभागिनं
हते
रिपौ
भीमबले
दुरासदे ।
स
कुम्भकर्णं
सुरसङ्घमर्दनं
महत्सु
युद्धेषु
पराजितश्रमम् ॥ १६६ ॥
ननन्द
हत्वा
भरताग्रजो
रणे
महासुरं
वृत्रमिवामराधिपः ॥ १६७ ॥