कुम्भकर्णं
हतं
दृष्ट्वा
राघवेण
महात्मना ।
राक्षसा
राक्षसेन्द्राय
रावणाय
न्यवेदयन् ॥ १ ॥
राजन्
स
कालसङ्काशः
संयुक्तः
कालकर्मणा ।
विद्राव्य
वानरीं
सेनां
भक्षयित्वा
च
वानरान् ॥ २ ॥
प्रतपित्वा
मुहूर्तं
च
प्रशान्तो
राम
तेजसा ।
कायेनार्धप्रविष्टेन
समुद्रं
भीमदर्शनम् ॥ ३ ॥
निकृत्तकण्ठोरुभुजो
विक्षरन्
रुधिरं
बहु ।
रुद्ध्वा
द्वारं
शरीरेण
लङ्कायाः
पर्वतोपमः ॥ ४ ॥
कुम्भकर्णस्तव
भ्राता
काकुत्स्थशरपीडितः ।
लगण्डभूतो
विकृतो
दावदग्ध
इव
द्रुमः ॥ ५ ॥
तं
श्रुत्वा
निहतं
सङ्ख्ये
कुम्भकर्णं
महाबलम् ।
रावणः
शोकसन्तप्तो
मुमोह
च
पपात
च ॥ ६ ॥
पितृव्यं
निहतं
दृष्ट्वा
देवान्तकनरान्तकौ ।
त्रिशिराश्चातिकायश्च
रुरुदुः
शोकपीडिताः ॥ ७ ॥
भ्रातरं
निहतं
दृष्ट्वा
रामेणाक्लिष्टकर्मणा ।
महोदरमहापार्श्वौ
शोकाक्रान्तौ
बभूवतुः ॥ ८ ॥
ततः
कृच्छ्रात्
समासाद्य
सञ्ज्ञां
राक्षसपुङ्गवः ।
कुम्भकर्णवधाद्दीनो
विललाप
स
रावणः ॥ ९ ॥
हा
वीर
रिपुदर्पघ्न
कुम्भकर्ण
महाबल ।
त्वं
मां
विहाय
वै
दैवाद्यातोऽसि
यमसादनम् ॥ १० ॥
मम
शल्यमनुद्धत्य
बान्धवानां
महाबल ।
शत्रुसैन्यं
प्रताप्यैकस्त्वं
मां
सन्त्यज्य
गच्छसि ॥ ११ ॥
इदानीं
खल्वहं
नास्मि
यस्य
मे
दक्षिणो
भुजः ।
पतितो
यं
समाश्रित्य
न
बिभेमि
सुरासुरात् ॥ १२ ॥
कथमेवंविधो
वीरो
देवदानवदर्पहा ।
कालाग्निरुद्रप्रतिमो
रणे
रामेण
वै
हतः ॥ १३ ॥
यस्य
ते
वज्रनिष्पेषो
न
कुर्याद्व्यसनं
सदा ।
स
कथं
रामबाणार्तः
प्रसुप्तोऽसि
महीतले ॥ १४ ॥
एते
देवगणाः
सार्धमृष्टिभिर्गगने
स्थिताः ।
निहतं
त्वां
रणे
दृष्ट्वा
निनदन्ति
प्रहर्षिताः ॥ १५ ॥
ध्रुवमद्यैव
संहृष्टा
लब्धलक्षाः
प्लवङ्गमाः ।
आरोक्ष्यन्ति
हि
दुर्गाणि
लङ्काद्वाराणि
सर्वशः ॥ १६ ॥
राज्येन
नास्ति
मे
कार्यं
किं
करिष्यामि
सीतया ।
कुम्भकर्णविहीनस्य
जीविते
नास्ति
मे
रतिः ॥ १७ ॥
यद्यहं
भ्रातृहन्तारं
न
हन्मि
युधि
राघवम् ।
ननु
मे
मरणं
श्रेयो
न
चेदं
व्यर्थजीवितम् ॥ १८ ॥
अद्यैव
तं
गमिष्यामि
देशं
यत्रानुजो
मम ।
नहि
भ्रातॄन्
समुत्सृज्य
क्षणं
जीवितुमुत्सहे ॥ १९ ॥
देवा
हि
मां
हसिष्यन्ति
दृष्ट्वा
पूर्वापकारिणम् ।
कथमिन्द्रं
जयिष्यामि
कुम्भकर्ण
हते
त्वयि ॥ २० ॥
तदिदं
मामनुप्राप्तं
विभीषणवचः
शुभम् ।
यदज्ञानान्मया
तस्य
न
गृहीतं
महात्मनः ॥ २१ ॥
विभीषणवचो
यावत्
कुम्भकर्णप्रहस्तयोः ।
विनाशोऽयं
समुत्पन्नो
मां
व्रीडयति
दारुणः ॥ २२ ॥
तस्यायं
कर्मणः
प्राप्तो
विपाको
मम
शोकदः ।
यन्मया
धार्मिकः
श्रीमान्
स
निरस्तो
विभीषणः ॥ २३ ॥
इति
बहुविधमाकुलान्तरात्मा
कृपणमतीव
विलप्य
कुम्भकर्णम् ।
न्यपतदथ
दशाननो
भृशार्तस्तमनुजमिन्द्ररिपुं
हतं
विदित्वा ॥ २४ ॥