नरान्तकं
हतं
दृष्ट्वा
चुक्रुशुर्नैर्ऋतर्षभाः ।
देवान्तकस्त्रिमूर्धा
च
पौलस्त्यश्च
महोदरः ॥ १ ॥
आरूढो
मेघसङ्काशं
वारणेन्द्रं
महोदरः ।
वालिपुत्रं
महावीर्यमभिदुद्राव
वीर्यवान् ॥ २ ॥
भ्रातृव्यसनसन्तप्तस्तथा
देवान्तको
बली ।
आदाय
परिघं
दीप्तमङ्गदं
समभिद्रवत् ॥ ३ ॥
रथमादित्यसङ्काशं
युक्तं
परमवाजिभिः ।
आस्थाय
त्रिशिरा
वीरो
वालिपुत्रमथाभ्ययात् ॥ ४ ॥
स
त्रिभिर्देवदर्पघ्नैर्नैर्ऋतेन्द्रैरभिद्रुतः ।
वृक्षमुत्पाटयामास
महाविटपमङ्गदः ॥ ५ ॥
देवान्तकाय
तं
वीरश्चिक्षेप
सहसाऽङ्गदः ।
महावृक्षं
महाशाखं
शक्रो
दीप्तमिवाशनिम् ॥ ६ ॥
त्रिशिरास्तं
प्रचिच्छेद
शरैराशीविषोपमैः ।
स
वृक्षं
कृत्तमालोक्य
उत्पपात
तदाऽङ्गदः ॥ ७ ॥
स
ववर्ष
ततो
वृक्षान्
शैलांश्च
कपिकुञ्जरः ।
तान्
प्रचिच्छेद
सङ्क्रुद्धस्त्रिशिरा
निशितैः
शरैः ॥ ८ ॥
परिघाग्रेण
तान्
वृक्षान्
बभञ्ज
च
सुरान्तकः ।
त्रिशिराश्चाङ्गदं
वीरमबिदुद्राव
सायकैः ॥ ९ ॥
गजेन
समभिद्रुत्य
वालिपुत्रं
महोदरः ।
जघानोरसि
सङ्क्रुद्धस्तोमरैर्वज्रसन्निभैः ॥ १० ॥
देवान्तकश्च
सङ्क्रुद्धः
परिघेण
तदाऽङ्गदम् ।
उपगम्याभिहत्याशु
व्यपचक्राम
वेगवान् ॥ ११ ॥
स
त्रिभिर्नैर्ऋतश्रेष्ठैर्युगपत्
समभिद्रुतः ।
न
विव्यथे
महातेजा
वालिपुत्रः
प्रतापवान् ॥ १२ ॥
स
वेगवान्
महावेगं
कृत्वा
परमदुर्जयः ।
तलेन
भृशमुत्पत्य
जघानास्य
महागजम् ॥ १३ ॥
तस्य
तेन
प्रहारेण
नागराजस्य
संयुगे ।
पेततुर्लोचने
तस्य
विननाद
स
वारणः ॥ १४ ॥
विषाणं
चास्य
निष्कृष्य
वालिपुत्रो
महाबलः ।
देवान्तकमभिप्लुत्य
ताडयामास
संयुगे ॥ १५ ॥
स
विह्वलितसर्वाङ्गो
वातोद्धूत
इव
द्रुमः ।
लाक्षारससवर्णं
च
सुस्राव
रुधिरं
मुखात् ॥ १६ ॥
अथाश्वास्य
महातेजाः
कृच्छ्राद्देवान्तको
बली ।
आविध्य
परिघं
घोरमाजघान
तदाऽङ्गदम् ॥ १७ ॥
परिघाभिहतश्चापि
वानरेन्द्रात्मजस्तदा ।
जानुभ्यां
पतितो
भूमौ
पुनरेवोत्पपात
ह ॥ १८ ॥
तमुत्पतन्तं
त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः ।
घोरैर्हरिपतेः
पुत्रं
ललाटेऽभिजघान
ह ॥ १९ ॥
ततोऽङ्गदं
परिक्षिप्तं
त्रिभिर्नैर्ऋतपुङ्गवैः ।
हनुमानपि
विज्ञाय
नीलश्चापि
प्रतस्थतुः ॥ २० ॥
ततश्चिक्षेप
शेलाग्रं
नीलस्त्रिशिरसे
तदा ।
तद्रावणसुतो
धीमान्
बिभेद
निशितैः
शरैः ॥ २१ ॥
तद्बाणशतनिर्भिन्नं
विदारितशिलातलम् ।
सविस्फुलिङ्गं
सज्वालं
निपपात
गिरः
शिरः ॥ २२ ॥
ततो
जृम्भितमालोक्य
हर्षाद्देवान्तकस्तदा ।
परिघेणाभिदुद्राव
मारुतात्मजमाहवे ॥ २३ ॥
तमापतन्तमुत्प्लुत्य
हनुमान्
मारुतात्मजः ।
आजघान
तदा
मूर्ध्नि
वज्रकल्पेन
मुष्टिना ॥ २४ ॥
शिरसि
प्रहरन्
वीरस्तदा
वायुसुतो
बली ।
नादेनाकम्पयच्चैव
राक्षसान्
स
महाकपिः ॥ २५ ॥
स
मुष्टिनिष्पिष्टविकीर्णमूर्धा
निर्वान्तदन्ताक्षिविलम्बिजिह्वः ।
देवान्तको
राक्षसराजसूनुर्गतासुरुर्व्यां
सहसा
पपात ॥ २६ ॥
तस्मिन्
हते
राक्षसयोधमुख्ये
महाबले
संयति
देवशत्रौ ।
क्रुद्धस्त्रिमूर्धा
निशिताग्रमुग्रं
ववर्ष
नीलोरसि
बाणवर्षम् ॥ २७ ॥
महोदरस्तु
सङ्क्रुद्धः
कुञ्जरं
पर्वतोपमम् ।
भूयः
समधिरुह्याशु
मन्दरं
रश्मिमानिव ॥ २८ ॥
ततो
बाणमयं
वर्षं
नीलस्योरस्यपातयत् ।
गिरौ
वर्षं
तडिच्चक्रचापवानिव
तोयदः ॥ २९ ॥
ततः
शरौघैरभिवर्ष्यमाणो
विभिन्नगात्रः
कपिसैन्यपालः ।
नीलो
बभूवाथ
निसृष्टगात्रो
विष्टम्भितस्तेन
महाबलेन ॥ ३० ॥
ततस्तु
नीलः
प्रतिलभ्य
सञ्ज्ञां
शैलं
समुत्पाट्य
सवृक्षषण्डम् ।
ततः
समुत्पत्य
भृशोग्रवेगो
महोदरं
तेन
जघान
मूर्ध्नि ॥ ३१ ॥
ततः
स
शैलेन्द्रनिपातभग्नो
महोदरस्तेन
महाद्विपेन ।
विपोथितो
भूमितले
गतासुः
पपात
वज्राभिहतो
यथाऽद्रिः ॥ ३२ ॥
पितृव्यं
निहतं
दृष्ट्वा
त्रिशिराश्चापमाददे ।
हनुमन्तं
च
सङ्क्रुद्धो
विव्याध
निशितैः
शरैः ॥ ३३ ॥
स
वायुसूनुः
कुपितश्चिक्षेप
शिखरं
गिरेः ।
त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद
बहुधा
बली ॥ ३४ ॥
तद्व्यर्थं
शिखरं
दृष्ट्वा
द्रुमवर्षं
महाकपिः ।
विससर्ज
रणे
तस्मिन्
रावणस्य
सुतं
प्रति ॥ ३५ ॥
तमापन्तमाकाशे
द्रुमवर्षं
प्रतापवान् ।
त्रिशिरा
निसितैर्बाणैश्चिच्छेद
च
ननाद
च ॥ ३६ ॥
ततो
हनूमानुत्प्लुत्य
हयान्त्रिशिरसस्तदा ।
विददार
नखैः
क्रुद्धो
गजेन्द्रं
मृगराडिव ॥ ३७ ॥
अथ
शक्तिं
समादाय
कालरात्रिमिवान्तकः ।
चिक्षेपानिलपुत्राय
त्रिशिरा
रावणात्मजः ॥ ३८ ॥
दिवः
क्षिप्तामिवोल्कां
तां
शक्तिं
क्षिप्तामसङ्गताम् ।
गृहीत्वा
हरिशार्दूलो
बभञ्ज
च
ननाद
च ॥ ३९ ॥
तां
दृष्ट्वा
घोरसङ्काशां
शक्तिं
भग्नां
हनूमता ।
प्रहृष्टा
वानरगणा
विनेदुर्जलदा
इव ॥ ४० ॥
ततः
खड्गं
समुद्यम्य
त्रिशिरा
राक्षसोत्तमः ।
निजघान
तदा
व्यूढे
वायुपुत्रस्य
वक्षसि ॥ ४१ ॥
खड्गप्रहाराभिहतो
हनूमान्
मारुतात्मजः ।
आजघान
त्रिशिरसं
तलेनोरसि
वीर्यवान् ॥ ४२ ॥
स
तलाभिहतस्तेन
स्रस्तहस्तायुधो
भुवि ।
निपपात
महातेजास्त्रिशिरास्त्यक्तचेतनः ॥ ४३ ॥
स
तस्य
पततः
खड्गं
समाच्छिद्य
महाकपिः ।
ननाद
गिरिसङ्काशस्त्रासयन्
सर्वनैर्ऋतान् ॥ ४४ ॥
अमृष्यमाणस्तं
घोषमुत्पपात
निशाचरः ।
उत्पत्य
च
हमूमन्तं
ताडयामास
मुष्टिना ॥ ४५ ॥
तेन
मुष्टिप्रहारेण
सञ्चुकोप
महाकपिः ।
कुपितश्च
निजग्राह
किरीटे
राक्षसर्षभम् ॥ ४६ ॥
स
तस्य
शीर्षाण्यसिना
शितेन
किरीटजुष्टानि
सकुण्डलानि ।
क्रुद्धः
प्रचिच्छेद
सुतोऽनिलस्य
त्वष्टुः
सुतस्येव
शिरांसि
शक्रः ॥ ४७ ॥
तान्यायताक्षाण्यगसन्निभानि
प्रदीप्तवैश्वानरलोचनानि ।
पेतुः
शिरांसीन्द्ररिपोर्धरण्यां
ज्योतींषि
मुक्तानि
यथाऽर्कमार्गात् ॥ ४८ ॥
तस्मिन्
हते
देवरिपौ
त्रिशीर्षे
हनूमता
शक्रपराक्रमेण ।
नेदुः
प्लवङ्गाः
प्रचचाल
भूमी
रक्षांस्यथो
दुद्रुविरे
समन्तात् ॥ ४९ ॥
हतं
त्रिशिरसं
दृष्ट्वा
तथैव
च
महोदरम् ।
हतौ
प्रेक्ष्य
दुराधर्षौ
देवान्तकनरान्तकौ ॥ ५० ॥
चुकोप
परमामर्षी
मत्तो
राक्षसपुङ्गवः ।
जग्राहार्चिष्मतीं
घोरां
गदां
सर्वायसीं
शुभाम् ॥ ५१ ॥
हेमपट्टपरिक्षिप्तां
मांसशोणितफेनिलाम् ।
विराजमानां
वपुषा
शत्रुशोणितरञ्जिताम् ॥ ५२ ॥
तेजसा
सम्प्रदीप्ताग्रां
रक्तमाल्याविभूषिताम् ।
ऐरावतमहापद्मसार्वभौमभयावहाम् ॥ ५३ ॥
गदामादाय
सङ्क्रुद्धो
मत्तो
राक्षसपुङ्गवः ।
हरीन्
समभिदुद्राव
युगान्ताग्निरिव
ज्वलन् ॥ ५४ ॥
अथर्षभः
समुत्पत्य
वानरो
रावणानुजम् ।
मत्तानीकमुपागम्य
तस्थौ
तस्याग्रतो
बली ॥ ५५ ॥
तं
पुरस्तात्
स्थितं
दृष्ट्वा
वानरं
पर्वतोपमम् ।
आजघानोरसि
क्रुद्धो
गदया
वज्रकल्पया ॥ ५६ ॥
स
तयाऽभिहतस्तेन
गदया
वानरर्षभः ।
भिन्नवक्षाः
समाधूतः
सुस्त्राव
रुधिरं
बहु ॥ ५७ ॥
स
सम्प्राप्य
चिरात्
सञ्ज्ञामृषभो
वानरर्षभः ।
अबिदुद्राव
वेगेन
गदां
तस्य
महात्मनः ॥ ५८ ॥
गृहीत्वा
तां
गदां
भीमामाविध्य
च
पुनःपुनः ।
मत्तानीकं
महात्मानं
जघान
रणमूर्धनि ॥ ५९ ॥
स
स्वया
गदया
भग्नो
विशीर्णदशनेक्षणः ।
निपपात
ततो
मत्तो
वज्राहत
इवाचलः ॥ ६० ॥
विशीर्णनयने
भूमौ
गतसत्त्वे
गतायुषि ।
पतिते
राक्षसे
तस्मिन्
विद्रुतं
राक्षसं
बलम् ॥ ६१ ॥
तस्मिन्
हते
भ्रातरि
रावणस्य
तन्नैर्ऋतानां
बलमर्णवाभम् ।
त्यक्तायुधं
केवलजीवितार्थं
दुद्राव
भिन्नार्णवसन्निकाशम् ॥ ६२ ॥