अतिकायं
हतं
श्रुत्वा
लक्ष्मणेन
महौजसा ।
उद्वेगमगमद्राजा
वचनं
चेदमब्रवीत् ॥ १ ॥
धूभ्राक्षः
परमामर्षी
धन्वी
शस्त्रभृतां
वरः ।
अकम्पनः
प्रहस्तश्च
कुम्भकर्णस्तथैव
च ॥ २ ॥
एते
महाबला
वीरा
राक्षसा
युद्धकाङ्क्षिणः ।
जेतारः
परसैन्यानां
परैर्नित्यापराजिताः ॥ ३ ॥
राक्षसाः
सुमहाकाया
नानाशस्त्रविशारदाः ।
अन्ये
च
बहवः
शूरा
महात्मानो
निपातिताः ॥ ४ ॥
प्रख्यातबलवीर्येण
पुत्रेणेन्द्रजिता
मम ।
यौ
हि
तौ
भ्रातरौ
वीरौ
बद्धौ
दत्तवरैः
शरैः ॥ ५ ॥
यन्न
शक्यं
सुरैः
सर्वैरसुरैर्वा
महाबलैः ।
मोक्तुं
तद्बन्धनं
घोरं
यक्षगन्धर्वकिन्नरैः ॥ ६ ॥
तन्न
जाने
प्रभावैर्वा
मायया
मोहनेन
वा ।
शरबन्धाद्विमुक्तौ
तौ
भ्रातरौ
रामलक्ष्मणौ ॥ ७ ॥
ये
योधा
निर्गताः
शूरा
राक्षसा
मम
शासनात् ।
ते
सर्वे
निहता
युद्धे
वानरैः
सुमहाबलैः ॥ ८ ॥
तं
न
पश्याम्यहं
युद्धे
योऽद्य
रामं
सलक्ष्मणम् ।
शासयेत्
सबलं
वीरं
ससुग्रीवविभीषणम् ॥ ९ ॥
अहो
नु
बलवान्
रामो
महदस्त्रबलं
च
वै ।
यस्य
विक्रममासाद्य
राक्षसा
निधनं
गताः ॥ १० ॥
तं
मन्ये
राघवं
वीरं
नारायणमनामयम् ।
तद्भयाद्धि
पुरी
लङ्का
पिहितद्वारतोरणा ॥ ११ ॥
अप्रमत्तैश्च
सर्वत्र
गुप्तै
रक्ष्या
पुरी
त्वियम् ।
अशोकवनिकायां
च
यत्र
सीताऽभिरक्ष्यते ॥ १२ ॥
निष्क्रामो
वा
प्रवेशो
वा
ज्ञातव्यः
सर्वथैव
नः ।
यत्र
यत्र
भवेद्
गुल्मस्तत्रतत्र
पुनःपुनः ॥ १३ ॥
सर्वतश्चापि
तिष्ठध्वं
स्वैःस्वैः
परिवृता
बलैः ।
द्रष्टव्यं
च
पदं
तेषां
वानराणां
निशाचराः ॥ १४ ॥
प्रदोषे
वाऽर्धरात्रे
वा
प्रत्यूषे
वापि
सर्वतः ।
नावज्ञा
तत्र
कर्तव्या
वानरेषु
कदाचन ॥ १५ ॥
द्विषतां
बलमुद्युक्तमापतत्
किं
स्थितं
सदा ।
ततस्ते
राक्षसाः
सर्वे
श्रुत्वा
लङ्काधिपस्य
तत् ॥ १६ ॥
वचनं
सर्वमातिष्ठन्
यथावत्तु
महाबलाः ।
स
तान्
सर्वान्
समादिश्य
रावणो
राक्षसाधिपः ॥ १७ ॥
मन्युशल्यं
वहन्
दीनः
प्रविवेश
स्वमालयम् ।
ततः
स
सन्दीपितकोपवह्निर्निशाचराणामधिपो
महाबलः ॥ १८ ॥
तदेव
पुत्रव्यसनं
विचिन्तयन्
मुहुर्मुहुश्चैव
तदा
व्यनिश्वसत् ॥ १९ ॥