ततोऽब्रवीन्महातेजाः
सुग्रीवो
वानराधिपः ।
अर्थ्यं
विज्ञापयंश्चापि
हनुमन्तमिदं
वचः ॥ १ ॥
यतो
हतः
कुम्भकर्णः
कुमाराश्च
निषूदिताः ।
नेदानीमुपनिर्हारं
रावणो
दातुमर्हति ॥ २ ॥
लङ्कामभ्युत्पतन्त्वाशु
गृह्योल्काः
प्लवगर्षभाः ।
ततोऽस्तं
गत
आदित्ये
रौद्रे
तस्मिन्निशामुखे ॥ ३ ॥
लङ्कामभिमुखाः
सोल्का
जग्मुस्ते
प्लवगर्षभाः ।
उल्काहस्तैर्हरिगणैः
सर्वतः
समभिद्रुताः ॥ ४ ॥
आरक्षस्था
विरूपाक्षाः
सहसा
विप्रदुद्रुवुः ।
प्रासादेषु
च
संहृष्टाः
ससृजुस्ते
हुताशनम् ॥ ५ ॥
तेषां
गृहसस्राणि
ददाह
हुतभुक्
तदा ।
प्रासादाः
पर्वताकाराः
पतन्ति
धरणीतले ॥ ६ ॥
अगरुर्दह्यते
तत्र
वर
च
हरिचन्दनम् ।
मौक्तिका
मणयः
स्निग्धा
वज्रं
चापि
प्रवालकम् ॥ ७ ॥
क्षौमं
च
दह्यते
तत्र
कौशेयं
चापि
शोभनम् ।
आविकं
विविधं
चौर्णं
काञ्चनं
भाण्डमायुधम् ॥ ८ ॥
नानाविकृतसंस्थानं
वाजिभाण्डपरिच्छदौ ।
गजग्रैवेयकक्ष्याश्च
रथभाण्डाश्च
संस्कृताः ॥ ९ ॥
तनुत्राणि
च
योधानां
हस्त्यश्वानां
च
वर्म
च ।
खड्गा
धनूंषि
ज्याबाणास्तोमराङ्कुशशक्तयः ॥ १० ॥
रोमजं
वालजं
चर्म
व्याघ्रजं
चाण्डजं
बहु ।
मुक्तामणिविचित्रांश्च
प्रासादांश्च
समन्ततः ॥ ११ ॥
विविधानस्त्रसंयोगानग्निर्दहति
तत्र
वै ।
नानाविधान्
गृहच्छन्दान्
ददाह
हुतभूक्
तदा ॥ १२ ॥
आवासान्
राक्षसानां
च
सर्वेषां
गृहगर्धिनाम् ।
हेमचित्रतनुत्राणां
स्रग्दामाम्बरधारिणाम् ॥ १३ ॥
शीधुपानचलाक्षाणां
मदविह्वलगामिनाम् ।
कान्तालम्बितवस्त्राणां
शत्रुसञ्जातमन्युनाम् ॥ १४ ॥
गदाशूलासिहस्तानां
खादतां
पिबतामपि ।
शयनेषु
महार्हेषु
प्रसुप्तानां
प्रियैः
सह ॥ १५ ॥
त्रस्तानां
गच्छतां
तूर्णं
पुत्रानादाय
सर्वतः ।
तेषां
शतसहस्राणि
तदा
लङ्कानिवासिनाम् ॥ १६ ॥
अदहत्
पावकस्तत्र
जज्वाल
च
पुनःपुनः ।
सारवन्ति
महार्हाणि
गम्भीरगुणवन्ति
च ॥ १७ ॥
हेमचन्द्रार्धचन्द्राणि
चन्द्रशालोन्नतानि
च ।
रत्नचित्रगवाक्षाणि
साधिष्ठानानि
सर्वशः ॥ १८ ॥
मणिविद्रुमचित्राणि
स्पृशन्तीव
दिवाकरम् ।
क्रौञ्चबर्हिणवीणानां
भूषणानां
च
निस्वनैः ॥ १९ ॥
नादितान्यचला
भानि
वेश्मान्यग्निर्ददाह
सः ।
ज्वलनेन
परीतानि
तोरणानि
चकाशिरे ॥ २० ॥
विद्युद्भिरिव
नद्धानि
मेघजालानि
धर्मगे ।
ज्वलनेन
परीतानि
निपेतुर्भवनान्यथ ॥ २१ ॥
वज्रिवज्रहतानीव
शिखराणि
महागिरेः ।
विमानेषु
प्रसुप्ताश्च
दह्यमाना
वराङ्गनाः ॥ २२ ॥
त्यक्ताभरणसर्वाङ्गा
हा
हेत्युच्चैर्विचुक्रुशुः ।
तानि
निर्दह्यमानानि
दूरतः
प्रचकाशिरे ॥ २३ ॥
हिमवच्छिखराणीव
दीप्तौषधिवनानि
च ।
हर्म्याग्रैर्दह्यमानैश्च
ज्वालाप्रज्वलितैरपि ॥ २४ ॥
रात्रौ
सा
दृश्यते
लङ्का
पुष्पितैरिव
किंशुकैः ।
हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च
तुरगैरपि ॥ २५ ॥
बभूव
लङ्का
लोकान्ते
भ्रान्तग्राह
इवार्णवः ।
अश्वं
मुक्तं
गजो
दृष्ट्वा
क्वचिद्भीतोऽपसर्पति ॥ २६ ॥
भीतो
भीतं
गजं
दृष्ट्वा
क्वचिदश्वो
निवर्तते ।
लङ्कायां
दह्यमानायां
शुशुभे
स
महार्णवः ॥ २७ ॥
छायासंसक्तसलिलो
लोहितोद
इवार्णवः ।
सा
बभूव
मुहूर्तेन
हरिभिर्दीपिता
पुरी ॥ २८ ॥
लोकस्यास्य
क्षये
घोरे
प्रदीप्तेव
वसुन्धरा ।
नारीजनस्य
धूमेन
व्याप्तस्योच्चैर्विनेदुषः ॥ २९ ॥
स्वनो
ज्वलनतप्तस्य
शुश्रुवे
दशयोजनम् ।
प्रदग्धकायानपरान्
राक्षसान्निर्गतान्
बहिः ॥ ३० ॥
सहसाऽभ्युत्पतन्ति
स्म
हरयोऽथ
युयुत्सवः ।
उद्घुष्टं
वानराणां
च
राक्षसानां
च
निस्वनः ॥ ३१ ॥
दिशो
दश
समुद्रं
च
पृथिवीं
चान्वनादयत् ।
विशल्यौ
तु
महात्मानौ
तावुभौ
रामलक्ष्मणौ ॥ ३२ ॥
असम्भ्रान्तौ
जगृहतुस्तदोभे
धनुषी
वरे ।
ततो
विष्फारयानस्य
रामस्य
धनुरुत्तमम् ॥ ३३ ॥
बभूव
तुमुलः
शब्दो
राक्षसानां
भयावहः ।
अशोभत
तदा
रामो
धनुर्विष्फारयन्
महत् ॥ ३४ ॥
भगवानिव
सङ्क्रुद्धो
भवो
वेदमयं
धनुः ।
उद्घुष्टं
वानराणां
च
राक्षसानां
च
निस्वनम् ॥ ३५ ॥
ज्याशब्दस्तावुभौ
शब्दावति
रामस्य
शुश्रुवे ।
वानरोद्घुष्टघोषश्च
राक्षसानां
च
निस्वनः ॥ ३६ ॥
ज्याशब्दश्चापि
रामस्य
त्रयं
व्याप
दिशो
दश ।
तस्य
कार्मुकमुक्तैश्च
शरैस्तत्पुरगोपुरम् ॥ ३७ ॥
कैलासशृङ्गप्रतिमं
विकीर्णमपतद्भुवि ।
ततो
रामशरान्
दृष्ट्वा
विमानेषु
गृहेषु
च ॥ ३८ ॥
सन्नाहो
राक्षसेन्द्राणां
तुमुलः
समपद्यत ।
तेषां
सन्नह्यमानानां
सिंहनादं
च
कुर्वताम् ॥ ३९ ॥
शर्वरी
राक्षसेन्द्राणां
रौद्रीव
समपद्यत ।
आदिष्टा
वानरेन्द्रास्तु
सुग्रीवेण
महात्मना ॥ ४० ॥
आसन्नद्वारमासाद्य
युध्यध्वं
प्लवगर्षभाः ।
यश्च
वो
वितथं
कुर्यात्तत्र
तत्र
ह्युपस्थितः ॥ ४१ ॥
स
हन्तव्यो
हि
सम्प्लुत्य
राजशासनदूषकः ।
तेषु
वानरमुख्येषु
दीप्तोल्कोज्ज्वलपाणिषु ॥ ४२ ॥
स्थितेषु
द्वारमासाद्य
रावणं
मन्युराविशत् ।
तस्य
जृम्भितविक्षेपाद्व्यामिश्रा
वै
दिशो
दश ॥ ४३ ॥
रूपवानिव
रुद्रस्य
मन्युर्गात्रेष्वदृश्यत ।
स
निकुम्भं
च
कुम्भं
च
कुम्भकर्णात्मजावुभौ ॥ ४४ ॥
प्रेषयामास
सङ्क्रुद्धो
राक्षसैर्बहुभिः
सह ।
यूपाक्षः
शोणिताक्षश्च
प्रजङ्घः
कम्पनस्तथा ॥ ४५ ॥
निर्ययुः
कौम्भकर्णिभ्यां
सह
रावणशासनात् ।
शशास
चैव
तान्
सर्वान्
राक्षसान्
सुमहाबलान् ॥ ४६ ॥
नादयन्
गच्छतात्रैव
जयध्वं
शीघ्रमेव
च ।
ततस्तु
चोदितास्तेन
राक्षसा
ज्वलितायुधाः ॥ ४७ ॥
लङ्काया
निर्ययुर्वीराः
प्रणदन्तः
पुनःपुनः ।
रक्षसां
भूषणस्थाभिर्भाभिः
स्वाभिश्च
सर्वशः ॥ ४८ ॥
चक्रुस्ते
सप्रभं
व्योम
हरयश्चाग्निभिः
सह ।
तत्र
ताराधिपस्याभा
ताराणां
च
तथैव
च ॥ ४९ ॥
तयोराभरणस्था
च
बलयोर्द्यामभासयन् ।
चन्द्राभा
भूषणाभा
च
गृहाणां
ज्वलतां
च
भा ॥ ५० ॥
हरिराक्षससैन्यानि
भ्राजयामास
सर्वतः ।
तत्र
चोर्ध्वं
प्रदीप्तानां
गृहाणां
सागरः
पुनः ॥ ५१ ॥
भाभिः
संसक्तपातालश्चलोर्मिः
शुशुबेऽधिकम् ।
पताकाध्वजसंसक्तमुत्तमासिपरश्वधम् ॥ ५२ ॥
भीमाश्वरथमातङ्गं
नानापत्तिसमाकुलम् ।
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् ॥ ५३ ॥
तद्राक्षसबलं
घोरं
भीमविक्रमपौरुषम् ।
ददृशो
ज्वलितप्रासं
किङ्किणीशतनादितम् ॥ ५४ ॥
हेमजालाचितभुजं
व्यामिश्रितपरश्वधम् ।
व्याघूर्णितमहाशस्त्रं
बाणसंसक्तकार्मुकम् ॥ ५५ ॥
गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम् ।
घोरं
शूरजनाकीर्णं
महाम्बुधरनिस्वनम् ॥ ५६ ॥
तद्दृष्ट्वा
बलमायान्तं
राक्षसानां
सुदारुणम् ।
सञ्चचाल
प्लवङ्गानां
बलमुच्चैर्ननाद
च ॥ ५७ ॥
जवेनाप्लुत्य
च
पुनस्तद्बलं
रक्षसां
महत् ।
अभ्ययात्
प्रत्यरिबलं
पतङ्गा
इव
पावकम् ॥ ५८ ॥
तेषां
भुजपरामर्शव्यामृष्टपरिघाशनि ।
राक्षसानां
बलं
श्रेष्ठं
भूयस्तरमशोभत ॥ ५९ ॥
तत्रोन्मत्ता
इवोत्पेतुर्हरयोऽथ
युयुत्सवः ।
तरुशैलैरभिघ्नन्तो
मुष्टिभिश्च
निशाचरान् ॥ ६० ॥
तथैवापततां
तेषां
कपीनामसिभिः
शितैः ।
शिरांसि
सहसा
जह्नू
राक्षसा
भीमदर्शनाः ॥ ६१ ॥
दशनैर्हृतकर्णाश्च
मुष्टिनिष्कीर्णमस्तकाः ।
शिलाप्रहारभग्नाङ्गा
विचेरुस्तत्र
राक्षसाः ॥ ६२ ॥
तथैवाप्यपरे
तेषां
कपीनामभिलक्षिताः ।
प्रवीरानभितो
जघ्नू
राक्षसानां
तरस्विनाम् ॥ ६३ ॥
तथैवाप्यपरे
तेषां
कपीनामसिभिः
शितैः ।
हरिवीरान्निजघ्नुश्च
घोररूपा
निशाचराः ॥ ६४ ॥
घ्नन्तमन्यं
जघानान्यः
पातयन्तमपातयत् ।
गर्हमाणं
जगर्हेऽन्यो
दशन्तमपरोऽदशत् ॥ ६५ ॥
देहीत्यन्यो
ददात्यन्यो
ददामीत्यपरः
पुनः ।
किं
क्लेशयसि
तिष्ठेति
तत्रान्योन्यं
बभाषिरे ॥ ६६ ॥
समुद्यतमहाप्रासं
यष्टिशूलासिसङ्कुलम् ।
प्रावर्तत
महारौद्रं
युद्धं
वानररक्षसाम् ॥ ६७ ॥
वानरान्
दश
सप्तेति
राक्षसा
जघ्नुराहवे ।
राक्षसान्
दश
सप्तेति
वानराश्चाभ्यपातयन् ॥ ६८ ॥
विस्रस्तकेशवसनं
विध्वस्तकवचध्वजम् ।
बलं
राक्षसमालम्ब्य
वानराः
पर्यवारयन् ॥ ६९ ॥