प्रवृत्ते
सङ्कुले
तस्मिन्
घोरे
वीरजनक्षये ।
अङ्गदः
कम्पनं
वीरमाससाद
रणोत्सुकः ॥ १ ॥
आहूय
सोऽङ्गदं
कोपात्
ताडयामास
वेगितः ।
गदया
कम्पनः
पूर्वं
स
चचाल
भृशाहतः ॥ २ ॥
स
सञ्ज्ञां
प्राप्य
तेजस्वी
चिक्षेप
शिखरं
गिरेः ।
अर्दितश्च
प्रहारेण
कम्पनः
पतितो
भुवि ॥ ३ ॥
ततस्तु
कम्पनं
दृष्ट्वा
शोणिताक्षो
हतं
रणे ।
रथेनाभ्यपतत्
क्षिप्रं
तत्राङ्गदमभीतवत् ॥ ४ ॥
सोऽङ्गदं
निशितैर्बाणैस्तदा
विव्याध
वेगितः ।
शरीरदारणैस्तीक्ष्णैः
कालाग्निसमविग्रहैः ॥ ५ ॥
क्षुरक्षुरप्रैर्नाराचैर्वत्सदन्तैः
शिलीमुखैः ।
कर्णिशल्यविपाठैश्च
बहुभिर्निशितैः
शरैः ॥ ६ ॥
अङ्गदः
प्रतिविद्धाङ्गो
वालिपुत्रः
प्रतापवान् ।
धनुरग्र्यं
रथं
बाणान्
ममर्द
तरसा
बली ॥ ७ ॥
शोणिताक्षस्ततः
क्षिप्रमसिचर्म
समाददे ।
उत्पपात
दिवं
क्रुद्धो
वेगवानविचारयन् ॥ ८ ॥
तं
क्षिप्रतरमाप्लुत्य
परामृश्याङ्गदो
बली ।
करेण
तस्य
तं
खड्गं
समाच्छिद्य
ननाद
च ॥ ९ ॥
तस्यांसफलके
खड्गं
निजघान
ततोऽङ्गदः ।
यज्ञोपवीतवच्चैनं
चिच्छेद
कपिकुञ्जरः ॥ १० ॥
तं
प्रगृह्य
महाखड्गं
विनद्य
च
पुनःपुनः ।
वालिपुत्रोऽभिदुद्राव
रणशीर्षे
परानरीन् ॥ ११ ॥
आयसीं
तु
गदां
वीरः
प्रगृह्य
कनकाङ्गदः ।
शोणिताक्षः
समाविध्य
तमेवानुपपात
ह ॥ १२ ॥
प्रजङ्घसहितो
वीरो
यूपाक्षस्तु
ततो
बली ।
रथेनाभिययौ
क्रुद्धो
वालिपुत्रं
महाबलम् ॥ १३ ॥
तयोर्मध्ये
कपिश्रेष्ठः
शोणिताक्षप्रजङ्घयोः ।
विशाखयोर्मध्यगतः
पूर्णचन्द्र
इवाभवत् ॥ १४ ॥
अङ्गदं
परिरक्षान्तौ
मैन्दो
द्विविद
एव
च ।
तस्य
तस्थातुरभ्याशे
परस्परदिदृक्षया ॥ १५ ॥
अभिपेतुर्महाकायाः
प्रतियत्ता
महाबलाः ।
राक्षसा
वानरान्
रोषादसिचर्मगदाधराः ॥ १६ ॥
त्रयाणां
वानरेन्द्राणां
त्रिभी
राक्षसपुङ्गवैः ।
संसक्तानां
महद्युद्धमभवद्रोमहर्षणम् ॥ १७ ॥
ते
तु
वृक्षान्
समादाय
सम्प्रचिक्षिपुराहवे ।
खड्गेन
प्रतिचिच्छेद
तान्
प्रजङ्घो
महाबलः ॥ १८ ॥
रथानश्वान्
द्रुमैः
शैलैस्ते
प्रचिक्षिपुराहवे ।
शरौधैः
प्रतिचिच्छेद
तान्
यूपाक्षो
निशाचरः ॥ १९ ॥
सृष्टान्
द्विविदमैन्दाभ्यां
द्रुमानुत्पाट्य
वीर्यवान् ।
बभञ्ज
गदया
मध्ये
शोणिताक्षः
प्रतापवान् ॥ २० ॥
उद्यम्य
विपुलं
खड्गं
परमर्मनिकृन्तनम् ।
प्रजङ्घो
वालिपुत्राय
अभिदुद्राव
वेगितः ॥ २१ ॥
तमभ्याशगतं
दृष्ट्वा
वानरेन्द्रो
महाबलः ।
आजघानाश्वकर्णेन
द्रुमेणातिबलस्तदा ॥ २२ ॥
बाहुं
चास्य
सनिस्त्रिंशमाजघान
स
मुष्टिना ।
वालिपुत्रस्य
घातेन
स
पपात
क्षितावसिः ॥ २३ ॥
तं
दृष्ट्वा
पतितं
भूमौ
खड्गमुत्पलसन्निभम् ।
मुष्टिं
संवर्तयामास
वज्रकल्पं
महाबलः ॥ २४ ॥
ललाटे
स
महावीर्यमङ्गदं
वानरर्षभम् ।
आजघान
महातेजाः
स
मुहूर्तं
चचाल
ह ॥ २५ ॥
स
सञ्ज्ञां
प्राप्य
तेजस्वी
वालिपुत्रः
प्रतापवान् ।
प्रजङ्घस्य
शिरः
कायात्
खड्गेनापातयत्
क्षितौ ॥ २६ ॥
स
यूपाक्षोऽश्रुपूर्णाक्षः
पितृव्ये
निहते
रणे ।
अवरुह्य
रथात्
क्षिप्रं
क्षीणेषुः
खड्गमाददे ॥ २७ ॥
तमापतन्तं
सम्प्रेक्ष्य
यूपाक्षं
द्विविदस्त्वरन् ।
आजघानोरसि
क्रुद्धो
जाग्राह
च
बलाद्बली ॥ २८ ॥
गृहीतं
भ्रातरं
दृष्ट्वा
शोणिताक्षो
महाबलः ।
आजघान
गदाग्रेण
वक्षसि
द्विविदं
ततः ॥ २९ ॥
स
गदाभिहतस्तेन
चचाल
च
महाबलः ।
उद्यतां
च
पुनस्तस्य
जहार
द्विविदो
गदाम् ॥ ३० ॥
एतस्मिन्नन्तरे
वीरो
मैन्दो
वानरयूथपः ।
यूपाक्षं
ताडयामास
तलेनोरसि
वीर्यवान् ॥ ३१ ॥
तौ
शोणिताक्षयूपाक्षौ
प्लवङ्गाभ्यां
तरस्विनौ ।
चक्रुतुः
समरे
तीव्रमाकर्षोत्पाटनं
भृशम् ॥ ३२ ॥
द्विविदः
शोणिताक्षं
तु
विददार
नखैर्मुखे ।
निष्पिपेष
च
वगेन
क्षितावाविध्य
वीर्यवान् ॥ ३३ ॥
यूपाक्षमपि
सङ्क्रुद्धो
मैन्दो
वानरयूथपः ।
पीडयामास
बाहुभ्यां
स
पपात
हतः
क्षितौ ॥ ३४ ॥
हतप्रवीरा
व्यथिता
राक्षसेन्द्रचमूस्तदा ।
जगामाभिमुखी
सा
तु
कुम्भकर्णसुतो
यतः ॥ ३५ ॥
आपतन्तीं
च
वेगेन
कुम्भस्तां
सान्त्वयच्चमूम् ।
निपातितमहावीरां
दृष्ट्वा
रक्षश्चमूं
ततः ॥ ३६ ॥
कुम्भः
प्रचक्रे
तेजस्वी
रणे
कर्म
सुदुष्करम् ।
स
धनुर्धन्विनां
श्रेष्ठः
प्रगृह्य
सुसमाहितः ॥ ३७ ॥
मुमोचाशीविषप्रख्यान्
शरान्
देहविदारणान् ।
तस्य
तच्छुशुभे
भूयः
सशरं
धनुरुत्तमम् ॥ ३८ ॥
विद्युदैरावतार्चिष्माद्द्वितीयेन्द्रधनुर्यथा ।
आकर्णाकृष्टमुक्तेन
जघान
द्विविदं
तदा ॥ ३९ ॥
तेन
हाटकपुङ्खेन
पत्रिणा
पत्रवाससा ।
सहसाऽभिहतस्तेन
विप्रमुक्तपदः
स्फुरन् ॥ ४० ॥
निपपाताद्रिकूटाभो
विह्वलः
प्लवगोत्तमः ।
मैन्दस्तु
भ्रातरं
दृष्ट्वा
भग्नं
तत्र
महाहवे ॥ ४१ ॥
अभिदुद्राव
वेगेन
प्रगृह्य
महतीं
शिलाम् ।
तां
शिलां
तु
प्रचिक्षेप
राक्षसाय
महाबलः ॥ ४२ ॥
बिभेद
तां
शिलां
कुम्भः
प्रसन्नैः
पञ्चभिः
शरैः ।
सन्धाय
चान्यं
सुमुखं
शरमासीविषोपमम् ॥ ४३ ॥
आजघान
महातेजा
वक्षसि
द्विविदाग्रजम् ।
स
तु
तेन
प्रहारेण
मैन्दो
वानरयूथपः ॥ ४४ ॥
मर्मण्यभिहतस्तेन
पपात
भुवि
मूर्च्छितः ।
अङ्गदो
मातुलौ
दृष्ट्वा
पतितौ
तु
महाबलौ ॥ ४५ ॥
अभिदुद्राव
वेगेन
कुम्भमद्युतकार्मुकम् ।
तमापतन्तं
विव्याध
कुम्भः
पञ्चभिरायसैः ॥ ४६ ॥
त्रिभिश्चान्यैः
शितैर्बाणैर्मातङ्गमिव
तोमरैः ।
सोऽङ्गदं
विविधैर्बाणैः
कुम्भो
विव्याध
वीर्यवान् ॥ ४७ ॥
अकुण्ठधारैर्निशितैस्तीक्ष्णैः
कनकभूषणैः ।
अङ्गदः
प्रतिविद्धाङ्गो
वालिपुत्रो
न
कम्पते ॥ ४८ ॥
शिलापादपवर्षाणि
तस्य
मूर्ध्नि
ववर्ष
ह ।
स
प्रचिच्छेद
तान्
सर्वान्
बिभेद
च
पुनः
शिलाः ॥ ४९ ॥
कुम्भकर्णात्मजः
श्रीमान्
वालिपुत्रसमीरितान् ।
भ्रुवोर्विव्याध
बाणाभ्यामुल्काभ्यामिव
कुञ्जरम् ॥ ५० ॥
तस्य
सुस्राव
रुधिरं
पिहिते
चास्य
लोचने ।
अङ्गदः
पाणिना
नेत्रे
पिधाय
रुधिरोक्षिते ॥ ५१ ॥
सालमासन्नमेकेन
परिजग्राह
पाणिना ।
सम्पीड्य
चोरसि
स्कन्धं
करेणाभिनिवेश्य
च ॥ ५२ ॥
किञ्चिदभ्यवनम्यैनमुन्ममाथ
यथा
गजः ।
तमिन्द्रकेतुप्रतिमं
वृक्षं
मन्दरसन्निभम् ॥ ५३ ॥
समुत्सृजन्तं
वेगेन
पश्यतां
सर्वरक्षसाम् ।
स
बिभेद
शितैर्बाणैः
सप्तभिः
कायभेदनैः ॥ ५४ ॥
अङ्गदो
विव्यथेऽभीक्ष्णं
ससाद
च
मुमोह
च ।
अङ्गदं
व्यथितं
दृष्ट्वा
सीदन्तमिव
सागरे ॥ ५५ ॥
दुरासदं
हरिश्रेष्ठं
रामायन्ये
न्यवेदयन् ।
रामस्तु
व्यथितं
श्रुत्वा
वालिपुत्रं
रणाजिरे ॥ ५६ ॥
व्यादिदेश
हरिश्रेष्ठान्
जाम्बवत्प्रमुखांस्ततः ।
ते
तु
वानरशार्दूलाः
श्रुत्वा
रामस्य
शासनम् ॥ ५७ ॥
अभिपेतुः
सुसङ्क्रुद्धाः
कुम्भमुद्यतकार्मुकम् ।
ततो
द्रुमशिलाहस्ताः
कोपसंरक्तलोचनाः ॥ ५८ ॥
रिरक्षिषन्तोऽभ्यपतन्नङ्गदं
वानरर्षभाः ।
जाम्बवांश्च
सुषेणश्च
वेगदर्शी
च
वानरः ॥ ५९ ॥
कुम्भकर्णात्मजं
वीरं
क्रुद्धाः
समभिदुद्रुवुः ।
समीक्ष्यापततस्तांस्तु
वानरेन्द्रान्
महाबलान् ॥ ६० ॥
आववार
शरौघेण
नगेनेव
जलाशयम् ।
तस्य
बाणपथं
प्राप्य
न
शोकुरतिवर्तितुम् ॥ ६१ ॥
वानरेन्द्रा
महात्मानो
वेलामिव
महोदधिः ।
तांस्तु
दृष्ट्वा
हरिगणान्
शरवृष्टिबिरर्दितान् ॥ ६२ ॥
अङ्गदं
पृष्ठतः
कृत्वा
भ्रातृजं
प्लवगेश्वरः ।
अबिदुद्राव
वेगेन
सुग्रीवः
कुम्भमाहवे ॥ ६३ ॥
शैलसानुचरं
नागं
वेगवानिव
केसरी ।
उत्पाट्य
च
महाशैलानश्वकर्णान्
धवान्
बहून् ॥ ६४ ॥
अन्यांश्च
विविधान्
वृक्षांश्चिक्षेप
च
महाबलः ।
तां
छादयन्तीमाकाशं
वृक्षवृष्टिं
दुरासदाम् ॥ ६५ ॥
कुम्भकर्णात्मजः
शीघ्रं
चिच्छेद
निशितैः
शरैः ।
अभिलक्षेण
तीव्रेण
कुम्भेन
निशितैः
शरैः ॥ ६६ ॥
आचितास्ते
द्रुमा
रेजुर्यथा
घोराः
शतघ्नयः ।
द्रुमवर्षं
तु
तच्छिन्नं
दृष्ट्वा
कुम्भेन
वीर्यवान् ॥ ६७ ॥
वानराधिपतिः
श्रीमान्
महासत्त्वो
न
विव्यथे ।
निर्भिद्यमानः
सहसा
सहमानश्च
तान्
शरान् ॥ ६८ ॥
कुम्भस्य
धनुराक्षिप्य
बभञ्जेन्द्रधनुष्प्रभम् ।
अवप्लुत्य
ततः
शीघ्रं
कृत्वा
कर्म
सुदुष्करम् ॥ ६९ ॥
अब्रवीत्
कुपितः
कुम्भं
भग्नशृङ्गमिव
द्विपम् ।
निकुम्भाग्रज
वीर्यं
ते
बाणवेगवदद्भुतम् ॥ ७० ॥
सन्नतिश्च
प्रभावश्च
तव
वा
रावणस्य
वा ।
प्रह्लादबलिवृत्रघ्नकुबेवरुणोपम ॥ ७१ ॥
एकस्त्वमनुजातोऽसि
पितरं
बलवृत्ततः ।
त्वामेवैकं
महाबाहुं
चापहस्त
मरिन्दमम् ॥ ७२ ॥
त्रिदशा
नातिवर्तन्ते
जितेन्द्रियमिवाधयः ।
विक्रमस्व
महाबुद्धे
कर्माणि
मम
पश्यतः ॥ ७३ ॥
वरदानात्
पितृव्यस्ते
सहते
देवदानवान् ।
कुम्भकर्णस्तु
वीर्येण
सहते
च
सुरासुरान् ॥ ७४ ॥
धनुषीन्द्रजितस्तुल्यः
प्रतापे
रावणस्य
च ।
त्वमद्य
रक्षसां
लोके
श्रेष्ठोऽसि
बलवीर्यतः ॥ ७५ ॥
महाविमर्दं
समरे
मया
सह
तवाद्भुतम् ।
अद्य
भूतानि
पश्यन्तु
शक्रशम्बरयोरिव ॥ ७६ ॥
कृतमप्रतिमं
कर्म
दर्शितं
चास्त्रकौशलम् ।
पातिता
हरिवीराश्च
त्वया
वै
भीमविक्रमाः ॥ ७७ ॥
उपालम्भभयाच्चापि
नासि
वीर
मया
हतः ।
कृतकर्मा
परिश्रान्तो
विश्रान्तः
पश्य
मे
बलम् ॥ ७८ ॥
अग्नेराज्याहुतस्येव
तेजस्तस्याभ्यवर्धत ।
ततः
कुम्भस्तु
सुग्रीवं
बाहुभ्यां
जगृहे
तदा ॥ ७९ ॥
अन्योन्यगात्रग्रथितौ
कर्षन्तावितरेतरम् ।
सधूमां
मुखतो
ज्वालां
विसृजन्तौ
परिश्रमात् ॥ ८० ॥
तयोः
पादाभिघाताच्च
निमग्ना
चाभवन्मही ।
व्याघूर्णिततरङ्गश्च
चुक्षुभे
वरुणालयः ॥ ८१ ॥
ततः
कुम्भं
समुत्क्षिप्य
सुग्रीवो
लवणाम्भसि ।
पातयामास
वेगेन
दर्शयन्नुदधेस्तलम् ॥ ८२ ॥
ततः
कुम्भनिपातेन
जलराशिः
समुत्थितः ।
विन्ध्यमन्दरसङ्काशो
विससर्प
समन्ततः ॥ ८३ ॥
ततः
कुम्भः
समुत्पत्य
सुग्रीवमभिपत्य
च ।
आजघानोरसि
क्रुद्धो
वज्रवेगेन
मुष्टिना ॥ ८४ ॥
तस्य
चर्म
च
पुस्फोट
बहु
सुस्राव
शोणितम् ।
स
च
मुष्टिर्महावेगः
प्रतिजघ्नेऽस्थिमण्डले ॥ ८५ ॥
तदा
वेगेन
तत्रासीत्तेजः
प्रज्वलितं
मुहुः ।
वज्रनिष्पेषसञ्जाता
ज्वाला
मेरौ
यथा
गिरौ ॥ ८६ ॥
स
तत्राभिहतस्तेन
सुग्रीवो
वानरर्षभः ।
मुष्टिं
संवर्तयामास
वज्रकल्पं
महाबलः ॥ ८७ ॥
अर्चिस्सहस्रविकचं
रविमण्डलसप्रभम् ।
स
मुष्टिं
पातयामास
कुम्भस्योरसि
वीर्यवान् ॥ ८८ ॥
स
तु
तेन
प्रहारेण
विह्वलो
भृशताडितः ।
निपपात
तदा
कुम्भो
गतार्चिरिव
पावकः ॥ ८९ ॥
मुष्टिनाऽभिहतस्तेन
निपपाताशु
राक्षसः ।
लोहिताङ्ग
इवाकाशाद्दीप्तरश्मिर्यदृच्छया ॥ ९० ॥
कुम्भस्य
पततो
रूपं
भग्नस्योरसि
मुष्टिना ।
बभौ
रुद्राभिपन्नस्य
यथा
रूपं
गवां
पतेः ॥ ९१ ॥
तस्मिन्
हते
भीमपराक्रमेण
प्लवङ्गमानामृषभेण
युद्धे ।
मही
सशैला
सवना
चचाल
भयं
च
रक्षांस्यधिकं
विवेश ॥ ९२ ॥